कादम्बरी /56
This page has not been fully proofread.
चाण्डालकन्यकावर्णनम् ]
पूर्वभागः ।
२३
प्रावृषमिव घनकेशजालाम्, मलयमेखलामिव चन्दनपल्लवावतंसाम्, नक्षत्रमालामिव चित्र-
श्रवणाभरणभूषिताम्, श्रियमिव हस्तस्थित कमलशोभाम्, मूर्च्छामिव मनोहारिगीम्, अरण्य -
भूमिमिव रूपसंपन्नाम्, दिव्ययोषितमिवाकुलीनाम्, निद्रामिव लोचनप्राहिणीम्, अरण्यकम-
लिनीमिव मातङ्गकुलदूषिताम्, अमूर्तामिव स्पर्शवर्जिताम्, आलेख्यगतामिव दर्शनमात्रफलाम्,
मधुमासकुसुमसमृद्धिमिवाजातिम्, अनङ्गकुसुम चापलेखामिव मुष्टिग्राह्यमध्याम्, यक्षाधिपल-
क्ष्मीमिवालको द्वासिनीम्, अचिरोपारूढयौवनाम्, अतिशयरूपाकृतिमै निमिषलोचनो ददर्श ।
सा तथेति विग्रहः । पुनः कमिव । प्रावृषमिव । वर्षाकालमिव । उभयोर्विशेषणसाम्यमाह - घनेति ।
घना निबिडा ये केशास्तेषां जालानि यस्याम् । पक्षे घना एव केशजालानि यस्यामिति विग्रहः । मलयेति ।
मलयस्य पर्वतस्य मेखला मध्यभागस्तमिव । उभयोः सादृश्यमाह - चन्दनेति । चन्दनस्य पलवाः किस-
ला ( लया) नि तेषामवतंसा यस्यां सा ताम् । पक्षे चन्दनपल्लवास्त एवावतंसः शेखरो यस्यामिति विग्रहः ।
नक्षत्रेति । नक्षत्राणामुडूनां माला पङ्किस्तामिव । उभयोः सादृश्यमाह
- चित्रेति । चित्राणि विविधप्रका-
राणि श्रवणे कर्ण आभरणानि भूषणानि यस्याः सा ताम् । पक्षे चित्राश्रवणावेव आभरणे ताभ्यां भूषितेति
विग्रहः । श्रियमिति । श्रीलक्ष्मीस्तामिव । उभयोः साम्यं प्रदर्शय नाह- हस्तेति । हस्ते पाणौ स्थिता
कमलस्य पद्मस्य शोभा श्रीर्यस्याः सा ताम् । पक्षे हस्ते स्थितं यत्कमलं तेन शोभा यस्या इति विग्रहः ।
मूर्च्छति । मूर्च्छा मोहस्ता मिव । एतयोः साम्यमाह - मनोहारिणीमिति । सुन्दराकृतित्वेन मनोहरा-
मित्यर्थः । पक्षे नष्टचेतनात्मकत्वेन मनोहारिणीमिति भावः । अरण्येति । अरण्यमटवी तस्य भूमिः क्षितिस्ता-
मिव । उभयोः सादृश्यमाह - रूपेति । रूपमाकृतिविशेषस्तेन संपन्नां सहिताम् । पक्षे रूपाः पशवस्तैः संपन्नां
संगताम् । 'रूपं तु श्लोकशब्दयोः । पशावाकारे सौन्दर्ये' इत्यनेकार्थः । दिव्येति । दिव्या देवसंबन्धिनी
योषित्स्त्री तामिव । उभयोः सादृश्यमाह - अकुलीनामिति ! अकुलीनामकुलोत्पन्नाम् । 'कुलात्खः' । खस्येना-
देशः । पक्षेन कौ पृथिव्यां लीनां स्थिताम् । निद्रेति । निद्रा प्रमीला तामिव । उभयोः सादृश्यं प्रदर्शयन्नाह -
लोचनेति । अत्यद्भुतरूपवशात्का मिजनानां लोचनग्राहिणीं नेत्राकर्षिणीम् । पक्षे निमेषोन्मेषसहिते लोचने
ग्रहीतुं शीलमस्या इति शीले णिनिः । नान्तवान्डीपू । अरण्येति । अरभ्यं वनं तस्य या कमलिनी तामिव ।
उभयोः सादृश्यमाह - मातङ्गेति । मातङ्गश्चाण्डालस्तस्य कुलमन्वयस्तन दूषितां मलिनीकृताम् । पक्षे मातङ्ग-
कुलेन हस्तिसमुदायेन दूषिताम् । मर्दितामित्यर्थः । अमूर्तेति । अमूर्तेयत्तावच्छिन्न परिमाणशून्या बुद्धि-
स्तामिव । उभयोस्तुल्यत्वमाह - स्पर्श इति । स्पर्शः संश्लेषः शिष्टानां तेन वर्जितां रहिताम् । अकुलीनत्वादेव ।
पक्षे स्पर्शो गुणस्तद्वर्जितां रहिताम् । अमूर्तलादेव । आलेख्येति । आलेख्यं चित्रं तत्र गतां प्राप्तां
पुत्रिकामिव । उभयोः साम्यमाह - दर्शनेति । चाण्डालत्वादेव न भोगफलकत्वमस्याः । अत एव दर्शनमा •
लोकनमात्रमेव फलं प्रयोजनं यस्याः सा तथा ताम् । पक्षेऽपि तथैव बोध्यम् । मध्विति । मधुमासे वस-
न्तसमये या कुसुमसमृद्धिस्तामिव । उभयोस्तुल्यतां प्रदर्शयन्नाह - अजातिमिति । न विद्यते जातिर्ब्राह्मण
त्वादिर्यस्यां सा ताम् । पक्षे न विद्यते जातिर्मालती यस्यां सा तथा ताम् । 'वसन्ते मालतीपुष्पं फलपुष्पं च
चन्दने न वर्णनीयम्' इति कविप्रसिद्धरपि । अनङ्गेति । अनङ्गस्य मदनस्य कुसुमचापस्य पुष्पधनुषो या
लेखा तामिव । उभयोः साम्यं प्रदर्शयन्नाह - मुष्टीति । मुष्टिना ग्राह्यो ग्रहीतुं शक्यो मध्यो मध्यप्रदेशो
यस्याः सा ताम् । यक्षाधिपलक्ष्मी मिति । यक्षाधिपानां गुह्यकेश्वराणां लक्ष्मीर्हरिप्रिया तामिव । उभयोः
सादृश्यमाह - अलकेति । अरुकैः केरौरुद्भासयत इत्येवंशीला सा तथा ताम् । पक्षे अलकाभिर्नगरी भिरुद्भासि-
नीति विग्रहः । अचिरेति । अचिरं त्वरितमुपारूढं प्राप्तं यौवनं तारुण्यं यया ताम् । संप्राप्त यौवनामित्यर्थः ।
अतीति । अतिशयरूपोत्कृष्टाकृतिराकारो यस्याः सा तथा ताम् । अन्वयस्तु प्रागेवोक्तः ।
टिप्प० - 1 चित्रा - श्रवण- भरणी नामकैर्नक्षत्रैर्भूषितामित्युचितम् । श्लेषे लिङ्गव्यत्ययोऽदुष्टः । 2 अमूर्ता
मूर्तिरहिता (आकाररहिता) एव स्पर्शवर्जिता भवति, इयं तु मूर्ताऽपि अस्पृश्यत्वात्, अमूर्तेव स्पर्शे वर्जिते-
त्यर्थः। 3 संपदित्यर्थ उचितः । 4 उद्भासते इति तात्पर्यम् । 5 अलकाना नया नगर्या उद्भासिनीमिति ज्ञेयम् ।
पाठा० -१ मनोहराम्. २ अक्षतरूपसंपन्नाम् ; अन्याक्षतब हुशोभिरूपाम् ३ विजातिम् ४ उपरूढ, ५अनिमेष,
•