This page has not been fully proofread.

५२६
 
कादम्बरी ।
 
[ कथायाम्-
तले विमुच्याङ्गानि चरणसंवाहनोपसृतं केयूरकमवादीत् – 'केयूरक, किमाकलयसि, याव-
द्वर्य परापतामस्तावत्प्राणान्धारयिष्यति देवी कादम्बरी ? पारयिष्यति वा तां विनोदयितुं
मदलेखा ? आगमिष्यति वा पुनस्तत्समाश्वासनाय महाश्वेता ? मत्परिचयोद्वेजिता प्रतिपत्स्यते
वा शरीरस्थितये तयोरैभ्यर्थनाम् ? द्रक्ष्यामि वा पुनस्तस्याः स्मेरसृक्कोपान्तमालोलतारकमुत्र-
तहरिणशाव काय तेक्षणं मुखम् ? इति ।
 
स तु व्यज्ञपयत् – 'देव, धैर्यमॅबलम्ब्य गमनाय यत्नः क्रियताम् । तिष्ठतु तावदासन्न-
वर्ती सखीजनः परिजनो वा तस्या हि त्वदालोकनेच्छेव स्वेच्छया निमैषितुमपि न
ददाति । समागमाशयैवावष्टव्धं हृदयम् । श्वसितमेव मुखे वैहितम् । रोमाञ्ज एव क्षणमपि
शरीरं न मुञ्चति । दिवानिशं बाप्प एव लोचनपथस्थायी प्रजागर एव रात्रावपि दत्त-
हस्तपादादीनि विमुच्य संस्थाप्य । एतेन गात्रस्यातिशैथिल्यं सूचितम् । चरणस्य संवाहनं मर्दनं तस्मिन्नुपसृतं
समीपागतं केयूरकमवादीदब्रवीत् हे केयूरक, किं त्वमाकलयस्याकलनां करोषि । यावत् यावता कालेन वयं
परापतामस्तत्र गच्छामस्तावत्कालं देवी कादम्बरी प्राणानसून्धारयिष्यति प्राणधारणां करिष्यति । अथवा तां
कादम्बरीं विनोदयितुं मदलेखा पारयिष्यति समर्था भविष्यति । वेति विकल्पार्थे । महाश्वेता पुनद्वितीय वारं
तस्याः कादम्बर्याः समाश्वासनायाश्वासनां कर्तुमागमिष्यति यास्यति न वा । मदिति । मया सार्धं यः परि-
चयः परिचितिस्तेनोद्वेजिता उद्विग्ना तयोर्महाश्वेतामदलेखयोरभ्यर्थनां प्रार्थनां शरीरस्थितये देहधारणाय प्रतिप-
त्स्यते न वाङ्गीकरिष्यति न वा । अङ्गीकरिष्यतीत्यर्थः । द्रक्ष्यामीति । वेति पूर्ववत् । पुनर्द्वितीयवारं तस्याः
कादम्बर्या मुखमाननं द्रक्ष्यामि दृग्विषयीकरिष्यामि वा । मुखं विशेषयन्नाह – स्मेरेति । स्मेरं विनिद्रं सृक्कयोरो-
ष्ठप्रान्तयोरुपान्तं समीपं यस्मिन् । आलोलेति । आलोला चञ्चला तारका कनीनिका यास्मंस्तथा ।
उन्नस्तेति । उत्रस्तश्चकितो यो हरिणशावको मृगशिशुस्तद्वदायते विस्तीर्णे अक्षिणी यस्मिंस्तत्तथा ।
 
-
 
सत्विति । स केयूरको व्यज्ञपय द्विज्ञप्तिमकरोत् । किं तदित्याह - देवेति । हे देव हे खामिन्, धैर्य
सत्त्वमवलम्ब्यावलम्बनीकृत्य गमनाय यानाय यत्न उद्यमः क्रियतां विधीयताम् । तिष्ठत्विति । तावदादा-
वासन्नवर्ती समीपस्थायी सखीजन आलिवर्गः परिजनो वा परिच्छदो वा तिष्ठतु । अत्रावस्थानं करोत्वित्यर्थः ।
तस्या हीति । हि निश्चितम् । तस्याः कादम्बर्यास्त्वदालोकनेच्छेव त्वनिरीक्षणवाञ्चैव खेच्छया खात येण
निमेषितुमपि निमेषं कर्तुमपि न ददाति न दत्ते । सर्वदा निमेषरहितैव तिष्ठतीति भावः । समागमो मेलापक-
स्तस्याशा वान्छा तयैवावष्टब्धं स्तब्धनां प्राप्तं हृदयं चेतः । अन्यथा स्फुटितं स्यादिति भावः । श्वसित.
मिति । मुख आनने श्वसितमुच्छ्रसितमेव वैहितं प्रवाहरूपतया चलितम् । रोमाञ्चेति । रोमाञ्च एव रोमोद्गम
एव क्षणमपि क्षणमात्रमपि शरीरं देहं न मुञ्चति न त्यजति । सर्वदी तस्या रोमाञ्चलक्षणः सात्त्विकभाव एव
तिष्ठतीति भावः । दिवेति । दिवानिशमहर्निशं बाष्प एव लोचनपथस्थायी नेत्रमार्गस्थायी । अहोरात्रं रुदन -
मेव करोतीति भावः । प्रजागर इति । प्रजागरणमेव रात्रावपि निशायामपि दत्तदृष्टिर्न्यस्त हवर्तते । रात्रा-
टिप्प० - 1 मूलकारेण जिज्ञासार्थ प्रश्न एव कृतः, एवंस्थले निश्चयकरणमनुचितमेव । 2 न खलु
हरिणशिशुनंबनयोरुपमानम्, अपि तु तक्षयने । अत एत्र हरिणशावकत्येव जायते दक्षिणी यस्येति विग्रह
उचितः । 3 सर्वत्र 'समागमाशयैव' इत्यस्यानुषङ्गः, अत एव समागमाशया मुखे श्वसितमेव अवहितम्,
समागमप्रत्याशया सर्वदा मुखे निश्वासो दत्तावधानोस्तीति भावः । टीकांकारस्यार्थः संप्रति तुलनीयः ।
 
पाठा० -१ मां कलयसि; मामालपसि. २ संधारयिष्यति ३ अभ्यर्थना; अभ्यर्धनात्. ४ आयताक्षं, ५ सम-
बलम्ब्य. ६ आसन्नसखीजन: ७ विहितम् ; अवहितम्.