कादम्बरी /558
This page has not been fully proofread.
केयूरकेण सह संलाप: ]
५२५
7
र्वासरोऽपि यथोच्छ्रिततरुशिखरावलम्बिनो रक्तातपच्छेदानाकर्षन्नपससार । क्रमेण च संजा-
तकरुणानुबन्धयेव संध्ययाप्युपरि जलार्द्रपट इव प्रसार्यमाणे स्वरागपटले, निशागमेनाप्येवम्
'अस्य शून्यताविकृवस्य मा भूदर्शनम्' इत्याप्तेनेव सर्वतो नीली परिलम्बमानायामिव भ्राम्यमा-
णायां तिमिरलेखायाम्, कमलेष्वपि दुःसहत्वाच्छोषकारिणः संतापस्य तल्पकल्पनाभीतेष्विव
संकुचत्सु, कुमुदेष्वपि शुचिस्वभावतयार्द्रार्द्रेषु शयनसंपादनायेवाहमहमिकयोहलत्सु, चक्रवा
केष्वपि सहचरीविरहविधुरेषु कादम्बरीसमीपगमनोपदेशदानायेव कलकरुणमुच्चैर्मुहुर्मुहु-
व्र्याहरत्सु, चन्द्रमस्यपि भगवति सकलभुवनैकातपत्रे सुधारजतकलशे पूर्वदिग्वधूवदन चन्द-
नतिलके गगनतललक्ष्मीलावण्यमहाहदे सकललोकाहादकारिणि सुधालिप्तैः करैरिव स्प्रष्टुम्,
उच्व हेतुनातं ज्योत्लाजलेन च सेक्तुम्, उदयगिरिशिखरमा रूढे, प्रौढे प्रदोषसमये चन्द्रा-
पीडस्तस्मिन्नेव वल्लभोद्याने, चन्द्रातपस्पर्शदर्शित विशदजललवोद्भेदहारिणि चन्द्रमणिशिला-
उत्तरभागः ।
-
यथोच्छ्रितं अत्युच्चं यथा स्यात्तथा तरूणां वृक्षाणां शिखराण्यग्राणि तेष्ववलम्बिनो गृहीतावलम्बनो (ना) रक्तो य
आतपस्तस्य छेदाः खण्डास्तानाकर्षन्ना कृष्टिं कुर्वन्नपससारापसृतवान् । क्रमेण चेति । क्रमेण च परिपाट्या च
संजातः समुत्पन्नः करुणायाः कृपाया अनुबन्धः संबन्धो यस्यामेवंविधयेव संध्ययाप्युपर्युपरिष्टाजलेनाईः विनो
यः पटस्तस्मिन्निव खरागपटले व्योमरागसमूहे प्रसार्यमाणे विस्तार्यमाणे । निशेति । एवं निशागमेनापि
शून्यता विमनस्कता तया विक्लवस्य विह्वलस्यास्य राज्ञो मा भूद्दर्शनमवलोकनमित्याप्तेनेव शिष्टेनेव सर्वतः सर्वत्र
नीली शैवलं तद्वत्सामस्त्येन परिलम्बमानायां प्रसृतायामिव तिमिरलेखायां तमिस्रवीथ्यां भ्राम्यमाणायामिन-
स्ततो विक्षिप्यमाणायां सत्याम् । कमलेष्वपीति । शोषकारिणः शोषकर्तुः संतापस्य क्लेशस्य दुःसहत्वाद्दुःखेन
सोढुं शक्यत्वाद्धेतोर्या तल्पकल्पना शयनीयकल्पना तया भीतेष्विव भयं प्राप्तेष्विव कमलेष्वपि संकुचत्सु
संकोचं प्राप्यमाणेषु सत्सु । कुमुदेष्वपीति । कुमुदेष्वपि कैरवेष्वपि शुचिस्वभावतया निर्मलप्रकृतितया ।
आर्द्राश्चंद्रश्च आर्द्राद्विस्तेिष्वत्यन्तं जलसमुन्नेषु । अहं पूर्वमहं पूर्वमित्यहमहमिका तथा शयनसंपादनायेव तल्प-
कल्पनायेवोद्दलत्सून्मिषत्सु सत्सु । चक्रवाकेष्वपि सहचरेष्वपि सहचारिण्यश्चक्रवाक्यस्तासां विरहो वियोगस्तेन
विधुरेषु पीडितेषु सत्सु । कादम्बर्या: समीपमभ्यर्ण गमनं यानं तस्योपदेशस्तस्य दानायेव कलं करुणं यथा
स्यात्तथोच्चै रुच्चस्वरेण मुहुर्मुहुर्वारंवारं व्याहरत्सु ब्रुवत्सु सत्सु । चन्द्रमस्यपीति । भगवति माहात्म्यवति
सकलभुवनस्य समस्तलोकस्यैकम द्वितीयमातपत्रं छत्रं तस्मिन्सुधाया रजतकलशे रौप्यकुम्भे । पूर्वदिगेव वधूः
स्त्री तस्या वदनं मुखं तस्मिंश्चन्दन तिलके मलयजपुण्ड्रे । गगनतलमाकाशतलं तस्य लक्ष्मीः शोभा तस्या लावण्यं
चातुर्यं तस्य महाहदे । सकललोकस्य समस्तभुवनस्याह्लादं प्रमोदं करोतीत्येवंशीलः स तथा तस्मिन् । सुधालिप्तै-
रमृतस्निग्धैः करैर्हस्तैः स्प्रष्टुं स्पर्श कर्तुमिव तथोच्छ्वासहेतुनादरकारणेन तं चन्द्रापीडं ज्योत्स्ना कौमुदी सैव
जलं पानीयं तेन च सेक्तुं सिञ्चनं कर्तुमिव । उदयगिरिरुदयाचलस्तस्य शिखरं सानुमारूढ आरोहिते सति ।
प्रौढे महति प्रदोषसमये यामिनीमुखलक्षणे चन्द्रापीडस्तस्मिन्नेव पूर्वोक्त एष वल्लभोद्याने वल्लभाभिधाने वने ।
चन्द्रातपेति । चन्द्रातपस्य चन्द्रालोकस्य यः स्पर्शः संबन्धस्तेन दर्शितः प्रकटीकृतो विशदं निर्मलं यज्जलं
तस्य लवोंऽशस्तस्योद्भेदः प्राकट्यं तेन हारिणि मनोहर एवंविधे चन्द्रमणेश्चन्द्रकान्तरत्नस्य शिलातलेऽङ्गानि
टिप्प० -1 वस्तुतस्तु 'नीली परिलम्बनायामिव' इति पाठः । नीली नीलवर्णयुक्ता या परिलम्बना
दिरस्करिणी तस्यामिव तिमिरलेखायां भ्राम्यमाणायाम् । 2 आर्द्राणीति कीब सैवोचिता, कुमुदानां नपुं
सकलिङ्गत्वात् । 3 उच्छ्रासहेतुना जीवनकारणेन ।
पाठा०
•१ क्रमेणैव. २ प्राप्तेनेव. ३ मुहुः ४ समस्त ५ ज्योत्लाजलेनेव.