This page has not been fully proofread.

५२४
 
कादम्बरी ।
 
[ कथायाम्-
प्यनुभवनीय एवायमर्थः । यथा चास्य दुःखैकदानव्यसनिनो दुर्घटघटनापण्डितस्य यत्किंचन-
कारिणो निष्कारणकुपितस्य हतविधेः सर्वतो विसंस्थुलं समारम्भं पश्यामि, तथा जानामि नैता-
बता स्थास्थतीति । अन्यथा क निष्प्रयोजनाश्वमुखानुसरणेनामानुषभूमिगमनम्, क च तंत्र
तृषितस्याच्छोददर्शनम्, क तंत्र तीरे विश्रान्तस्यामानुषंगीतध्वनेरा कर्णनम्, क तजिज्ञासा-
गतस्य महाश्वतावलोकनम्, क तत्र तरलिकया सह तवाभिगमनेन मद्गमन प्रस्तावः, क. महा-
श्वेतया सह हेमकूटगमनम्, क तत्र देवीवदनदर्शनम्, क्क रोगोत्पत्तिरस्मिञ्जने देव्याः,
वाऽपरिपूर्ण मनोरथस्य मे पितुरलङ्गनीयाऽऽगमनाज्ञा । तत्सुदूरमारोप्य पातिता वयं खल्वनेना-
कार्यकारिणास्मत्कर्म बलनियोगदक्षेण दग्धवेधसा । तथापि देवीं संभावयितुं प्रयतामहे ।'
 
इत्यभिदधयेव चन्द्रापीडे 'नितरामयमनेनैव कादम्बरीवृत्तान्तेन संतापितः, तर्किमपर•
महमेनमात्मतेजसा संतापयामि' इत्युत्पन्नदय इव भगवांस्तिग्मदीधितिरुत्तप्त कन कद्रवस्फुलिङ्ग-
पिङ्गलद्युति दिग्विकीर्णधूर्जटिजटामण्डलानुकारि संजहार करसहस्रम् । अस्तानुसारेण च रखे-
एवानुभव विषयीकरणीय एव । यथा चेति । दुःखस्यैकम द्वितीयं दानं तत्र व्यसनमासक्तिर्विद्यते यस्य स
तस्य । दुर्घटेति । दुःखेन घटितुं योग्या दुर्घटा एवंविधा या घटना पदार्थानामन्योन्यं संबन्धरतत्र पण्डि-
तस्य विबुधस्य । यत्किंचन यदेव तदेव करोतीत्येवंशीलस्य यत्किंचनकारिणः । निष्कारणं निर्निमित्तं कुपितस्य
कोपं प्राप्तस्यास्य हतविधेर्दुष्टविधातुर्यथा सर्वतः सर्वत्र विसंस्थुलं विसदृशं समारम्भं निर्माणं पश्याम्यवलोक-
यामि । तथेति । तेन प्रकारेणेति जानाम्याकलयामि । इतीति किम् । नेति । एतावतैतावत्कालं न स्थास्यति
नावस्थानं करिष्यति । अन्यथेत्युक्तविपर्यये । निष्प्रयोजनेन निष्कारणेनाश्वमुखाः किंनरास्तेषामनुसरणेनानुग-
भनेनामानुषभूमिगमनं मनुष्यरहितक्षितौ यानम् । क्व केति महदन्तरे । तत्रामानुषभूमौ तृषितस्य पिपासित-
स्याच्छोददर्शनं क्व । तत्रेति । तत्राच्छोदनाम्नस्तीरे विश्रान्तस्य गृहीतविश्रामस्यामानुषाः किंनरास्तेषां गीत-
ध्वनेर्गेयशब्दस्याकर्णनं श्रवणं क्व । तस्य ज्ञातुमिच्छा तज्जिज्ञासा तयागतस्य प्राप्तस्य महाश्वेताया अवलोकनं
निरीक्षणं क्व । तत्र महाश्वेतावलोकनस्थले तरलिकया सह तव केयूरकस्याभिगमनेनागमनेन मद्गमनप्रस्तावो
मदीययानावसरः क्व । महाश्वेतया सह सार्धं हेमकूटगमनं क्व । तत्र हेमकूटे देवीवदनदर्शनं कादम्बरीमुखाव-
लोकनं क्व । अस्मिन् जने देव्याः कादम्बर्या रागोत्पत्तिः क्व । अपरिपूर्णमनोरथस्यापरिपूर्णाभिलाषस्य मे मम
पितुर्जनकस्यालङ्घनीयानतिक्रमणीयागमनाज्ञागमन नियोगः क्व । तदिति । तत्तस्माद्धेतोः सुदूरमत्युच्चैरारोप्या-
रोहणं कारयित्वा अनेनाकार्यकारिणाऽकृत्यकारिणास्माकं यत्कर्मबलं तस्य नियोगो व्यापारणं तत्र दक्षेण विबु-
धेन दग्धनेवसा ज्वलितधात्रा । खलु निश्चयेन वयं पातिता अधःस्थलं प्रापिताः । तथापीति । तथाप्येवं
सत्यपि देवीं संभावयितुमाश्वासयितुं प्रयतामहे प्रयत्नं कुर्महे ।
 
1
 
इत्यभिदधत्येवेति कथयत्लेव चन्द्रापीडे नितरामतिशयेनायं चन्द्रापीडोऽनेन पूर्वोक्तेनैव कादम्बरीवृत्तान्तेन
कुमारिकोदन्तेन संतापितः संतापं प्रापितः । तत्किमेनं चन्द्रापीडमात्मतेजसा स्वकीयवर्चसा परं संतापयामि ।
इत्युत्पन्नदय इवेति संजातकृप इव भगवांस्तिग्मदीधितिः सूर्यः करसहस्रं संजहारापसेसार । करसहस्रं
विशेषयवाह- उत्ततेति । उत्तप्तमुष्णीकृतं यत्कनकं सुवर्ण तस्य द्रवो रसस्तस्य स्फुलिङ्गः कणस्तद्वत्पिङ्गला
कपिला द्युतिः कान्तियस्मिंस्तत्तथा । दिग्विकीर्णा विक्षिप्ता या धूर्जटिजटा ईश्वरसटास्तासां मण्डलं तदनुकारि
तत्सादृत्रयकरणशीलम् । अस्तेति । रवेः सूर्यस्यास्तानुसारेणास्तसमयानुसरणेन च वासरोऽपि दिवसोऽपि
 
टिप्प० – 1 अपसारयामासेत्युचितम् ।
 
पाठा०-१ विसंस्थुळं २ नैवाय मेतावता. ३ अश्वमुखमिथुन ४ तत्तीरे ५ अनुराग ६ पर. ७ पिङ्गलगल-
हृयुति, ८ मण्डलाकारी,