कादम्बरी /556
This page has not been fully proofread.
चन्द्रापीडस्य प्रतिवचनम् ]
उत्तरभागः ।
मदलेखा तु द्वितीयं हृदयमस्याः । तथा किमेवमहार्य
संयम धनैर्मुनिभिरण्यरक्षितर्हृदयापहारे-
णानिग्राह्यचौरेण शुचिभिरध्यपरिहार्य रैपर्शेना बहिष्कार्य चाण्डालेन भस्मीकृतापर्यवसानप्राणि-
सहस्रेणानिर्वाण्यश्मशानामिना सर्वदोषाश्रयेणाशरीरव्याधिना रूपापहारिणा कॉण्डव्यावेन
मर्मभेदिनालीकधनुर्धरेण सद्यःप्राणापहारक्षमेणाकालमृत्युनाऽनिरूपित स्थाना स्थान प्रवर्तिना
परापकारकृतार्थेन हृदयवासिनाऽपरप्रत्ययेन स्वयोनिना कामेन दुरात्मनाऽऽयास्यमानं देवीशरी-
रमुपेक्षितम् । किमिति तत्रस्थस्यैव मे कर्णे नावेदितम् ? अधुना श्रुत्वापि दिवसक्रमगम्येऽध्वनि
किं करोमि ? मलयानिलाइ तलताकुसुमपातस्याप्यसहं देवीशरीरम् । वज्रसार
कठिनहुँदयैरस्म-
द्विधैरपि दुर्विषहाः स्मरेषवः । न ज्ञायते निमेषैमात्रेणैव किं वा भवतीति । प्रायेण च देव्या-
।
५२३
तर्ह्यस्या देव्या मदलेखा तु द्वितीयं हृदयम् । तया मदलेखया किमेवं पूर्वोक्तप्रकारेण दुरात्मना कामेनायास्य-
मानं पीड्यमानं देवीशरीरमुपेक्षितमुपेक्षा विषयीकृतम् । इतः कामं विशेषयन्नाह - अहार्येति । न हार्य हर्तु
योग्यं संयमधनं व्रतधनं येषामेवंविधैर्मुनिभिरपि वाचंयमैरप्यरक्षितो हृदयापहारः प्राणापहरणं यस्मात्स तेन ।
अनीति । न निग्रहीतुं योग्योऽनिग्राह्य एवंविधश्चौरस्तस्कर स्तेन । शुचिभिरिति । शुचिभिरपि पवित्रैरप्य-
परिहार्यः परिहर्तुमशक्यः स्पर्शो यस्य स तेन । अबहिरिति । अबहिष्कार्याण्याभ्यन्तरकृत्यानि तेषु चाण्डालेन
मातङ्गेन । भस्मीति । भस्मीकृतमपर्यवसानमनन्तं प्राणिसहस्रं येन स तेन । अनिति । अनिर्वाप्यम-
विध्मातं यच्छ्रशानं पितृवनं तस्याग्निरिवाग्निस्तेन । सर्वेति । सर्वदोषाणां समग्रदूषणानामाश्रयेणाधारभूतेन ।
अशरीरेति । न विद्यते शरीरं यस्मिन्नेवंभूतो व्याधिरामयस्तेन । रूपेति । रूपं सौन्दर्यमर्पहरतीत्येवं-
शीलेन रूपापहारिणा । काण्डेति । काण्डेन बाणेन विध्यतीति काण्डव्याधस्तेन । मर्मेति । मर्मभेदिनाsवेध्य-
स्थलघातकेन । अलीकेति । अलीको मिथ्या धनुर्धरो धनुष्मांस्तेन । सद्य इति । सद्यस्तत्कालं यः प्राणा-
पहारोऽनुग्रहणं तत्र क्षमेण समर्थेन । अकालेति । अकालेना प्रस्तावेन मृत्युना मरणेन । अनिरूपितेति ।
अनिरूपितेऽदर्शिते ये स्थानास्थाने योग्यायोग्यस्थले तत्र प्रवर्तिना प्रवर्तनशीलेन । परेति । परस्य योऽप-
कारोऽपकृतिस्तेन कृतार्थेन कृतकृत्येन । हृदयेति । हृदये चित्ते वसतीत्येवंशीलेन । अपरेति । अपर मि
ञ्शत्रावपि प्रत्ययो विश्वासो यस्य स तेन । स्वयोनिनात्मयोनिना । किमितीति । तत्रस्थस्यैव हेमकूटस्थ-
स्यैव मे मम कर्णे श्रोत्रे । जात्येकवचनम् । किमिति केन हेतुना नावेदितं न कथितम् । अधुनेति । सांप्रतं
श्रुत्वा याकर्ण्यापि दिवसानां वासराणां क्रमः परिपाटी तेन गम्ये गन्तुं योग्येऽध्वनि मार्गेऽहं किं करोमि । न
किमपि कर्तुं समर्थ इत्यर्थः । मलयेति । मलयानिलेन मलयवायुनाहतं ताडितं यल्लताकुसुमं तस्य यः
पातः पतनं तस्याप्यसहं सोढुमसमर्थं देव्याः कादम्बर्याः शरीरं देहम् । लतापुष्पपातेनापि ग्लानिं प्राप्नोती-
त्यर्थः । वज्रेति । वज्रं हीरकस्तस्य सारो मध्यं तद्वत्कठिनं हृदयं चेतो येषामेवंविधैरपि स्मरेषवः कंदर्पबाणा
दुर्विषहा दुःखेन सोढुं शक्या इति न ज्ञायते नावबुध्यते । इतीति किम् । निमेषमात्रेणैव निमीलनमात्रेणैव किं
भवति किं जायते । प्रायेणेति । प्रायेण बाहुल्येन देव्यापि कादम्बर्याप्ययमर्थो दुःखलक्षणोऽनुभवनीय
टिप्प० – 1 अबहिष्कार्यश्वासौ चाण्डालश्च । अन्यश्चाण्डालः समीपादितो बहिष्कर्तुं शक्यः कामस्तु
न तथेति स्पष्टोर्थ ! । 2 निर्वापण विशेषणमग्ने रेवोचितं न श्मशानस्येति न निर्वाप्यो यः श्मशाना निस्तेने त्ये-
वार्थः । 3 अशरीरोपि विध्यति इति । तथा च यस्य शरीरं नास्ति तथापि वेधनकारिणेति सुन्दरोऽर्थः ।
4 कामो न सौन्दर्यमपहरति । अत एव सौन्दर्येण (परकीयेण) अरहरांत धैर्यादपनयतीति रूपा-
पहारीत्यर्थः । अथवा अरूपश्चासौ अपहारी चेत्यर्थः । 5 अकाण्डे विध्यतीत्येवोचितोऽर्थः । 6 अकाले
मृत्युस्तेन । 7 नास्ति परेण प्रत्ययो यस्य, स्वसंवेद्य इत्यर्थः ।
पाठा० - १ असंरक्षित २ प्राणहृदय ३ स्पर्शनचाण्डालेन. ४ अकाण्ड, ५ कृतान्तेन ६ हृदयैरपि, ७ निमे
षेणैव किं भवतीति.