कादम्बरी /555
This page has not been fully proofread.
५२२
कादम्बरी
[ कथायाम -
,
मपि मधुमासलक्ष्मीपरिग्रहाद्विना पल्लवानुरागदर्शनस्य कृते किं करोतु पादपः ? तत्र देव्याः
कादम्बर्या एवाज्ञापराधिनी, ययाऽधरस्पन्दितमात्रप्रतीक्षे पुरःस्थायिनि दासजने निष्करुण-
तयात्मानमव्यापारयन्त्या सुखप्रेतिपन्थिनी दुःखदानैकनिपुणा परहृदयपीडानपेक्षिणी लज्जा-
पेक्षिता, न जीवितसंदेहदायिनी देव्याः सँमाचष्ट । अथवा देव्याः परिजनंस्यापि कोऽय-
मेवंविधो व्यामोहः, येदनिच्छन्त्यपि बलादसौ न व्यापारिता । कीदृशी चरणतलप्रतिबद्धस्य
दासजनस्योपरि लज्जा, कीदृशं वा गौरवम्, को बानुरोधः, अविश्वस्तचित्तता वा केयमीदृशी,
यदेवमात्मनः शिरीषपुष्पकोमलस्येयमतिदारुणा पीडाऽङ्गीकृता, न कृतार्थितो मे मनोरथः ।
अथवा क्रमागत मन्तर्धानं वामलोचनानाम्, विशेषतोऽपरित्यक्तनिः शेषबालभावाना मैनतिप्रबु
द्धमुग्धमनसिशयानां कन्यकानाम्, यल्लज्जा न पारिता नामास्मिञ्जने स्वयं परित्यक्तुं देव्या ।
परिग्रहः स्वीकारस्तस्माद्विना पल्लवस्य किसलयस्यानुरागदर्शनं तस्य कृते तदर्थ पादपो वृक्षः किं करोतु । किं
कुर्यादित्यर्थः । तत्रेति । तस्मिन्प्रदेशे देव्याः कादम्बर्या आज्ञेव निदेश एवापराधिन्यपराधवती, ययाज्ञया
केवलमधरस्पन्दितमधरस्पन्दितमात्रं तस्मिन्प्रतीक्षा विलम्बो यस्य स तस्मिन् । ओष्ठस्फुरणानन्तरमेव कार्य-
कारिणीत्यर्थः । पुरःस्थायिन्यत्रे दासजने सेवकजने निष्करुणतया निर्दयतयात्मानं 'स्वमव्यापारयन्त्याऽनियोज-
यन्त्या सुखस्य सौख्यस्य प्रतिपन्थिनी वैरिणी, दुःखस्या सुखस्य दानं वितरणं तत्रैकाऽद्वितीया निपुणाभिज्ञा, पर-
हृदयस्यान्यचित्तस्य पीडा वेदना तामनपेक्षतेऽसमीहत इत्येवंशीला लज्जा त्रपाऽपेक्षितेहितेयं जीवितसंदेह -
दायिनी प्राणितसंदेहकारिणीति देव्याः कादम्बर्या न समाचष्ट नाख्यातवती । अथवेति प्रकारान्तरे । देव्याः
कादम्बर्या अस्य परिजनस्यापि परिच्छदस्यापि कोऽयमनिर्वचनीयस्वरूप एवंविध एतादृशो व्यामोहो मूढता
यदसौ कादम्बर्यनिच्छन्त्यप्यनभिलषन्त्यपि बलाद्धठान्न व्यापारिता न प्रेरिता । कीदृशीति । चरणतले
प्रतिबद्धस्य लग्नस्य दासजनस्य सेवकलोकस्योपर्युपरिष्टात्कीदृशी लजा त्रपा । वाथवा गौरवं गुरुत्वं कीदृशम् ।
को वानुरोधः प्रतिबन्धः । केयमीदृश्यविश्वस्त चित्तताऽविश्रम्भमनस्कता यस्माद्धेतोरेवममुना प्रकारेणात्मनः
स्वस्य शिरीषपुष्पवत्कोमलस्य सुकुमारस्येयमतिदारुणात्युग्रा पीडाङ्गीकृता स्वीकृता । मे मम मनोरथोऽभि-
लाषो न कृतार्थितो न सफलीकृतः । अथवेति युक्त्यन्तरे । वामलोचनानां मनस्विनीनामन्तर्धानं तिरोधानं
क्रमागतं परिपाव्या समागतमेव । विशेषतो विशेषादेवापरित्यक्तो निःशेषो बालभावो यांभिस्तासाम् । अन
तीति । नातिप्रबुद्धं यन्मुग्धं मर्नेस्तस्मिन्शयानां स्थितानां कन्यकानां कुमारीणाम् । नामेति कोमलामन्त्रणे ।
यदस्मिञ्जने चन्द्रापीडलक्षणे स्वयमात्मना देव्या कादम्बर्या लज्जा त्रपा परित्यक्तुं विमोक्तुं न पारिता न शक्ता,
टिप्प० - 1 'चन्द्रमूर्तेरालोकेन' इत्यारभ्य 'किं करोतु पादपः' एतत्पर्यन्तं सहशेन अप्रस्तुतेन
वाथ्यार्थेन सहशस्य प्रस्तुतस्य कादम्बरीचन्द्रापीडयोर्व्यवहारस्य गम्यत्वादप्रस्तुतप्रशंसा ( सामान्यात्
सामान्यस्य गम्यतारूपा, पञ्चमी ) । केषांचिन्मते प्रतिवस्तुपमा । 2 सर्वथा ग्रन्थस्वारस्यं न स्पृशति
दूरतोपि । 'देव्याः समवस्था' इत्येव पाठः । देव्याः कादम्बर्याः आज्ञाया एवाऽपराधो चया हि माइशे
दासजने संमुखस्थितेऽपि (अहं तु आज्ञानुकूल एवासम्, पुनः किं कारणमा सीद्विरहसंतापानुभवस्येति-
भावः) आत्मानम् ( अर्थात्स्वम् भाज्ञाम्) अव्यापारयन्त्या अप्रदिशन्त्या लज्जाया अपेक्षा कृता, देव्याः
कादम्बर्याः समवस्यायाः परिस्थितेः (बिरहविकलतायाः) अपेक्षा न कृता, या हि लज्जा देण्या जीवित-
संदेहदायिनीति स्पष्टस्वार्थः । 3 आत्ममनोभावल गोपनमिति यावत् । 4 धिङ् मौज्यम् । जनति-
प्रबुद्धः (न अतिवृद्धि गतः ) मनसिशयः कामो यासां वासामित्यर्थः ।
पाठा०.
७-१ प्रतीक्ष्ये. २ परिपन्थिनी ३ समवस्था ४ अथवास्य परिजनस्यापि देव्या अपि; अथवा जनस्यास्योपरि
देव्या अपि ५ अनेच्छन्त्यापि बहादसौ न व्यापारित: ६ प्रतिबद्धदासजनस्स. ७ अनमिवुद्ध ८ ब्जां न पारितम्.