कादम्बरी /554
This page has not been fully proofread.
चन्द्रापीडस्य प्रतिवचनम् ]
उत्तरभागः ।
Ge
पराधेन मीतमिव लजितमिव विलक्षमिव निभृतस्थितं केयूरक मन्तर्वाष्पोपरुध्यमानकण्ठः
कैथमपि स्खलिताक्षरं प्रत्युवाच – 'केयूरक, येन प्रकारेणैव मे कान्तनिष्ठुर हृदयमात्मन्यनुत्पन्न-
रागमेव मां संभाव्य देव्या कादम्बर्या दूरीकृतपुनर्मदागमनसंभावनया न त्वमागमनायादिष्टः,
•न संदिष्टं वा किंचिन्महाश्वेतया समुपहृतानुबन्धया, मदलेखया वा त्वन्मुखेन नोपालब्धोऽस्मि,
तैथा मयि पत्रलेखया सर्वमाख्यातम्, तदभिजाततया महानुभावत्वादुदारतया समानशील-
तथा दक्षिणतया चैकान्तपेशलतया च स्वभावस्यात्मानमात्मना न कलयति देवी कादम्बरी ।
चन्द्रमूर्तेरॉलोकेनैव निश्चेतनस्य चन्द्रकान्तारूयस्य पाषाणखण्डस्यार्द्रभावोपगमनमेवायत्तम्,
न पुनस्तत्कराकर्षणम् । नितरां पक्षपातिनोऽपि न मधुकरस्याभिगमनमेवाधीनम्, मकरन्द -
लाभे कलिकाश्रयिणी जृम्भैव प्रभवति । दिवससंतापकान्तेन चोन्मुखता कुमुदाकरेण
करणीया, विकासयति पुनस्तं ज्योत्नाभिरामा रजन्येव । निर्भरमन्तः सरसतायां सत्या-
,
५२१
प्रापितश्चन्द्रापीडः स्वयं कृता या पीडा तस्या अपराध आगस्तेन भीतमिव त्रस्तमिव, लजितमिव त्रपितमिन,
बिलक्षमिव वीक्षापनमिव, निभृतस्थितं निश्चलस्थितं केयूरकमन्तर्बाष्पेणोपरुध्यमानः कण्ठो यस्यवंविधश्चन्द्रा-
पीडः कथमपि महता कष्टेन स्खलिताक्षरं यथा स्यात्तथा प्रत्युवाच प्रोक्तवान् । किमुवाचेत्याह–केयूरक
इति । हे केयूरक, येन प्रकारेणैवमेकान्तेन निष्ठुरं कठिनं हृदयं चेतो यस्यैवंविधमात्मनि कादम्बरीविषयेऽनु -
त्पञ्चरागमजनितस्नेहं मामेव संभाव्य ज्ञात्वा देव्या कादम्बर्या दूरीकृतः पुनद्वितीयवारं यन्मदागमनं तस्य संभा-
वना तया त्वमागमनाय नादिष्टो न कथितः । तथा महाश्वेतया किंचिन्न संदिष्टं न कथितम् । कीदृशया । समु
पहृतो दूरीकृतोऽनुबन्धोऽत्याग्रहो यया सैवंविधया । मदलेखया वा त्वन्मुखेन त्वदाननेन नोपालब्धोऽस्मि
नोपालम्भं प्रापितोऽस्मि । तथा मयीति । मद्विषयकं सर्व पत्रलेखयाख्यातं कथितम् । तदिति । तत्पूर्वी-
तमभिजाततया कुलीनतया महाननुभावो माहात्म्यं यस्यास्तस्या भावस्तत्त्वं तस्मादुदारतया रूपानुगुणत्वेन
समानं शीलं स्वभावो यस्यास्तस्या भावस्तत्ता तथा दक्षिणतया सरलतया । 'दक्षिणे सरलोदारों' इत्यमरः ।
स्वभावस्य प्रकृतेरेकान्तेने निश्चयेन पैशलतया हृद्यतया । अत्रात्मशब्दः स्वरूपवाची तेनात्मानं स्वं रूपं देवीं
कादम्बर्यात्मना खेनैव न कलयति न जानाति । यादृशं भगया भणितं वेश्ययावबुध्यते, न तादृशं कुलस्त्रियेति
भावः । तदेव दर्शयन्पुनः प्रकारान्तरेणात्मदोषं दूरीकुर्वन्नाह – चन्द्रेति । चन्द्रमूर्तेः शशाङ्कबिम्बस्यालोके -
नैव प्रकाशेनैव निश्चेतनस्य चेतनारहितस्य चन्द्रकान्ताख्यस्य शशिमण्यभिधानस्य पाषाण खण्डस्य दृषच्छ-
कलस्याईभावस्य द्रवीभावस्योपगमनं प्रापणमेव आयत्तं स्वाधीनम् । न पुनस्तत्कराकर्षणं तत्किरणाक्षेपः ।
नितरामिति । नितरामत्यर्थं पक्षपातिनोऽपि वाजगामिनोऽपि, पक्षे पक्षपातिनोऽपि पक्षकारिणोऽपि, मधु-
करस्य भ्रमरस्याभिगमनमेव संमुखागमन मेवाधीनमायत्तम् । तु पुनरर्थे । मकरन्दलाभे तु मकरन्दप्राप्तौ तु
कलिका कोरकस्तामाश्रयतीत्येवंशीला जृम्भैव जृम्भणमेव प्रभवति समर्थांभवति । दिवसेति । दिवसस्य
वासरस्य संतापस्तप्तिस्तेन क्लान्तेन पीडितेन कुमुदाकरेण कैरवसमुदायेनोन्मुखता संमुखता करणीया कार्या तं
पुनर्विकासयति विकखरतां नयति ज्योत्स्ना कौमुदी तयाभिरामा मनोहरा रजन्येव निशैव । निर्भरमिति ।
निर्भरं यथा स्यात्तथान्तर्मध्ये सरसस्य भावः सरसता तस्यां सत्यामपि मधुमासो वसन्तस्तस्य लक्ष्मीः श्रीस्तस्याः
।
टिप्प० - 1 एकान्तपेशलतया अत्यन्तमार्दवेन, अतिधीरतया वा । 2 द्वयर्थान्वेषणं व्यर्थायितम् ।
अत्यन्तमनुकूलस्य, भृशं पक्षपोषकस्य वा, इत्येवार्थः । 3 विकासः ।
पाठा०-१ किमपि. २ अनुरागम् ३ पुनर्दूरीकृतमदागमन ४ समुपाहृत ५ तथानया ६ आत्मना च.
७ आलोकेनापिं. ८ जृम्भिका ९ विकासयति न पुनस्तम्.