This page has not been fully proofread.

५२०
 
कादम्बरी ।
 
[ कथायाम्
 
मोक्षेण मदनायुधानि निःशेष क्षीणानि । किं बहुना, संप्रति तस्यास्त्वन्नामा सर्वसखीजनः,
त्वत्संबद्धानि सर्वरहस्यानि, स्वरसमागमोपाया न्वेषिणः सर्वसमवायाः, त्वद्वार्तोपलम्भनपरा:
सर्वप्रभाः, त्वद्वृत्तान्तमुखरः परिजनः, त्वदालापनिर्मिताः सर्वविनोदाः, त्वदाकारमयश्चित्र-
कलाभ्यासः, त्वदुपालम्भगर्भा मागधीमङ्गलगीतयः, त्वद्दर्शनपुनरुक्ताः स्वप्नाः, त्वत्परिहा-
सप्राया मदनज्वरदाहविप्रलापाः, त्वन्नामग्रहणैकोपायगम्यप्रबोधा मोहमहावेगाः' इत्यावेद-
यन्तं च केयूरकम् ' भवेतु । संप्रति न शक्कोम्यतः परं श्रोतुम्' इत्याँमी नदत्तसंज्ञेव काद-
म्वरीव्यथाश्रवणवेदनासंभवानुकम्पयेव चन्द्रापीमाक्रमन्ती मूर्च्छा न्यवारयत्, न तु पुन-
रवस्था निवेदन परिसमाप्तिः
 
2
 
तथामूर्च्छानिमीलितश्च तामेवानुध्यायन्निव ससंभ्रमप्रतिपन्नशरीरेण केयूरकेण संभावित -
तालवृन्तया च पत्रलेखयानुंभाव्यार्थसजया च नियत्या संज्ञां लम्भितश्चन्द्रापीड: स्वकृतपीडा-

 
वनकुसुमानि । अनवरतं निरन्तरं मोक्षेण मोचनेन मदनायुधानि कंदर्पशस्त्राणि । किं बहुनेति । किं बहुव-
क्तव्येनेत्यर्थः । संप्रतीति । संप्रतीदानीं तस्याः कादम्बर्याः । तवैव नाम विद्यते यस्य स त्वन्नामा । एवंविधः
सर्वसखीजनो वयस्याजनः । त्वदिति । त्वय्येव संबद्धानि लग्नानि सर्वरहस्यानि सर्वगुह्यानि । त्वदितैरसमागमो
मेलापस्तस्योपायः कारणं तमन्वेषयन्तीत्येवंशीला अन्वेषिणः सर्वसमवायाः समग्रजनसमूहाः । तव वार्तं कुशलं
तस्योपलम्भनमुपलब्धिस्तस्मिन्परास्तत्पराः सर्वप्रश्नाः सर्वाण्यनुयोजनानि । त्वदिति । तव वृत्तान्तः प्रवृ-
त्तिस्तत्र मुखरो वाचाल एवंविधः परिजनः परिच्छदः । त्वदिति । तव आलापः संभाषस्तेन निर्मिता
रचिताः सर्वविनोदाः समग्रक्रीडाविलासाः । त्वदिति । तवाकार आकृतिस्तेन निष्पन्नस्त्वदाकारमयश्चि-
त्रकलाया आलेख्यविज्ञानस्याभ्यासः पुनः पुनर्वारंवारम् । त्वदिति । तबोपालम्भो गर्भे मध्ये यासां ता
मागधीनां मङ्गलपाठिकानां मङ्गलगीतयः कल्याणार्थगानानि । त्वदिति । त्वदर्शनेन त्वदवलोकनेन पुनरुक्ताः
पुनर्भाषिताः स्वप्नाः । तव परिहासप्राया उपहाससदृशा मदनज्वरदाहाद्विप्रलापा विरुद्धोक्तयः । 'विप्रलापो
विरुद्धोक्तिः' इत्यमरः । त्वन्नामेति । तव नाम्नो ग्रहणमेवैकोऽद्वितीयो य उपायः प्रपञ्चस्तेन गम्याः
प्रबोधा बोधनानि येषामेवंभूता मोहमहावेगा मौढ्यमहारयाः इति पूर्वोक्त प्रकारेणावेदयन्तं कथयन्तम् ।
केयूरकमिति । नेत्रयोरामीलनान्मुद्रणाद्दत्तसंज्ञेव दत्ता संज्ञा संकेता यया सा या हितचेष्टेव । कयेव। कादम्बर्या
व्यथा श्रवणमाकर्णनं तस्माद्वेदनायाः संभवस्तस्मिन्ननुकम्पा दया तयेव चन्द्रापीडमाक्रमन्ती मूर्च्छा न्यवारयच्य-
षेधयत् । इतीति किम् । यत्त्वया प्रोक्तं तद्भवत्वस्तु । संप्रतीदानीमतः परं श्रोतुमाकर्णयितुं न शक्नोमि न
समर्थो भवामि । न तु पुनरवस्थाया निवेदनं तस्य वेदनायाः परिसमाप्तिः पर्यन्तः ।
 
.
 
"
 
तथेति । तेन प्रकारेण मूर्च्छानिमीलितो मौढ्येन. मुद्रितश्च तामेव कादम्बरीमेवानुध्यायन्स्मरन्निव सह
संभ्रमेण त्वरया प्रतिपन्नं विघृतं स्वीकृतं शरीरं यस्यैवंभूतेन केयूरकेण, संभावितं संगृहीतं तालवृन्तं व्यजनं
ययैवंभूतया पत्रलेखयानुभाव्यो योऽर्थस्तत्र सज्जया समर्थया च नियत्याऽदृष्टविशेषेण संज्ञां चेतनां लम्भितः
 
टिप्प० - 1 संखीजनोपि त्वन्नामसहितः । 2 धिक टीकाम् । इतरस्य का कथः ? त्वत्समागमोपायस्य
अन्वेषिणः समवायाः समूहाः । वस्तुतस्तु व्यापाराः । 3 त्वदर्शनेन पुनरुक्तं येषु । अर्थात् पूर्व दृष्टस्य तव
स्वप्मसंदर्शनेन पुनरुक्तिः (आवृत्तिः ) भवतीत्याशयः । 4 त्वन्नामग्रहणरूपेण एकमात्रोपायेन गम्यः
प्राध्यः प्रबोधो मोहापगमो येषु एवंविधा महान्तो मूर्च्छावेगाः । टीकाकारस्य तु मौढ्य महारयाः उचिता
एव । 5 अनुभावयितुम् ( अनुभवविषयी कारयितुम् ) योग्यः ।
 
.
 
पाठा०-
-१ सर्वः सर्वतः• २ सर्वे. ३ अपालम्भे; उपालम्भ. ४ तत्परा:. ५ भवति.
७ आक्रामन्ती. ८ निवेदनवेदन; वेदन ९ अध्यायन्. १० अनुभाब्यार्थम्.
 
६ आमीलनादत्त.