कादम्बरी /552
This page has not been fully proofread.
कादम्बर्या विरहदशा ]
उत्तरभागः ।
निमीलितलीचना किमपि चिन्तयति । मलयनिम्नगेव सरसहरिचन्दनकिसलयलाञ्छितेषु
शिलातलेष्वभिपतति । कुन्दकलिकेव तुषारसिक्तपल्लववर्तिनी बनानिलेनायास्यते । भुजंगी-
वाससंतापालिङ्गितचन्दना शिखिकुलकोलाहलेन ताम्यति । हरिणीव केसरिकाननं परिह-
रति । कुसुमघटितशिलीमुखमनोहरान्मदनचापादिव प्रमदवनात्रस्यति । जानकीव पीतर-
क्तेभ्यो रजनिचरेभ्य हैव चम्पकाशोकेभ्यो बिभेति । उषेव स्वप्नसमागमेनापि कृतार्थता-
मेति । ग्रीष्मलक्ष्मीरिवानुदिनमैतिक्षामा श्यामा भवति ।
सर्वथा तस्याः कंदर्पवेदनयाङ्गानि, दिवसैर्जीवितसंधारणवस्तूनि, वलयरचनया गृहकम-
लिनीमृणालानि, उपदेशैः सखीजनवचनानि, शय्यापरिकल्पनेनोपवनकुसुमानि, अनवरत-
शेषः शेषनागो यस्यां सा तथेत्यर्थः । मलयेति । मलयनिम्नगेव दक्षिणाचलसरिदिव सरसो निबिडरसो यो
हरिचन्दन श्चन्दनद्भुमस्तस्य किसलयानि पटवास्तैर्लाञ्छितेषु चिह्नितेषु शिलातलेष्वभिपतति । शेत इत्यर्थः ।
कुन्देति । कुन्दः पुष्पविशेषस्तस्य कलिकेव कोरक इव तुषारेण हिमेन सिक्तो यः पल्लवः किसलयस्तस्मिन्व
तत इत्येवंशीला विरहव्याकुलितत्वेन हिमसिक्तपल्लवोपरि कृतशय नेत्यर्थः । वनानिलेन वनवायुनायास्यत
आयासं प्राप्यते । कुन्दकलिकापक्षे तुषारसिक्तपल्लववर्तिनीति कण्ठ्यम् । भुजंगीति । प्रबलविरहस्य धर्मस्य
वाऽसह्यः सोढुमंशक्यो यः संतापस्तप्तिस्तेनालिङ्गितं चन्दनं चन्दनद्रुमो वा यया सैवंविधा सती भुजङ्गीव
सर्पिणीव शिखी मयूरस्तस्य कुलं समूहस्तस्य कोलाहल: कलकलस्तेन ताम्यति खेदं प्राप्नोति । हरिणीति ।
केसरी बकुलो विद्यते यस्मिन्नेवविधं केसरिणोपलक्षितं वा यत्काननं वनं हरिणीवैणीव परिहरति त्यजति ।
कुसुमेति । कुसुमेषु पुष्पेषु घटिता लग्ना ये शिलीमुखा भ्रमराः, पक्षे कुसुमान्ये घटता रचिताः -
मुखा वा, तैर्मनोहराब्रुचिरान्मदनचापादिव कंदर्पधनुष इव प्रमदवनादन्तः पुरोचितवनान्त्रस्यति त्रासं प्राप्नोति ।
जानकीति । पीताश्च रक्ताश्च पीतरक्तास्तेभ्यश्चम्पकाशोकेभ्यः पीतं रक्तं रुधिरं यैस्तेभ्यो रजनिचरेभ्य इव
निशाचरेभ्य इव जानकीव सीतेव बिभेति भयं प्राप्नोति । उपेवेति । स्वप्ने निद्रावस्थायां समागमो
मेलापकस्तेनापि कृतार्थतां कृतकृत्यतामेति गच्छति । केव । उषेव । यथोषा बाणसुता स्वप्नदशायां प्रद्युम्नसमा-
गमे कृतार्था जाता तथेयमपीत्यर्थः । ग्रीष्मेति । ग्रीष्मलक्ष्मीरिव निदाघश्रीरिवानुदिनं प्रतिदिनमतिक्षामाति-
कृशा श्यामा कृष्णा भवति जायते । पक्षेऽतिक्षामा श्यामा रात्रिर्यस्यामिति समासः । 'रजनीव मतिः श्यामा'
इत्यभिधानचिन्तामणिः [: 1
सर्वथेति । सर्वप्रकारेण तस्याः कादम्बर्याः कंदर्पवेदनया कामव्यथयाङ्गानि हस्तपादादीनि । दिवसैरिति बहु-
वचनं बहुत्वोपलक्षकम्। बहुभिर्वासरैजीवितस्य प्राणितस्य संधारणवस्तूनि प्राणाधारभूताः पदार्थाः निःशेषमत्यन्तं
क्षीणानि स्तोकानि जातानीत्यर्थः । तदेव दर्शयन्नाह - वलयेति । दाघज्वरोपशमार्थं वलयानां कटकान
रचना निर्माण तथा गृहकमलिन्याः सदननलिन्या मृणालानि बिसानि । उपदेशैरिति । उपदेशैरुपदेशः शिक्षा
तस्य प्रदानैः सखीजनस्यालीजनस्य वचनानि । शय्येति । शय्यायाः शयनीयस्य परिकल्पनेन विरचनेनोप-
टिप्प० – 1 बहुव्रीहौ कृते 'अतिक्षामइयामा' इति स्यादिति न ज्ञातं वराकेण । अत एव अतिक्षाम-
इयामेत्येव साधु । कादम्बरी तु-अतिक्षामा चासौ श्यामा चेति । 'ग्रीष्मनिशालक्ष्मीरिवानुदिनमतिक्षामा
भवति' इति पाठे तु उभयत्र अतिक्षामत्वं ( कृशत्वम्, लघुत्वं च ) वर्तत एव ।
-१ चन्दनशाखा २ शिखिशकुन्त ३ अपि ४ ग्रीष्मनिशा ५ अतिक्षामा भवति, ६ साधारम्.
पाठाक