This page has not been fully proofread.

५१८
 
कादम्बरी ।
 
[ कथायाम्-
अपि च तस्याश्चन्दनपरिमल इव दक्षिणानिलेन सह समागच्छति मोहः । चक्राह्वशाप
इव निशया सहापतति प्रजागरत्रासः । प्रतिरुतानीव वलभीकपोतकूजितैः सहाविर्भवन्ति
दुःखानि । मधुकर इवोपवनकुसुमामोदेन सहोपसर्पति मरणाभिलाषः । तथा च जलकणि-
केव पद्मिनीपलाशस्थिता कम्पते । प्रतिच्छायेव स्फटिकोपलसलिलमणिदर्पणमणिकुट्टिमत-
लेषु दृश्यते । नलिनीव शशिकरस्पर्शेन ग्लायति । हंसीव सरसमृणालिकाहार व्यतिकरेण
जीवति । शरदिव कुमुदकुवै लयसंपर्कमनोहरगन्धवहा सकुसुमबाणा च विजृम्भते । चन्द्र-
मूर्तिरिव कमलप्रकरस्खलितपादपल्लवा संचरन्ती निशां नयति । कुमुदिनीव रजनिकरकिर-
णकृतजागरा दिवसमलीकनिद्रयातिवायति । मुररिपुजलशयनलीलेव मन्दोच्छुसितशेषा
 
अपि चेति युक्त्यन्तरे । तस्याः कादम्बर्याश्चन्दनपरिमल इव मलयजामोद इव दक्षिणानिलेनावाची मारुतेन
सह मोहो मूर्च्छा समागच्छति । चक्राह्वेति । निशया त्रियामिन्या सह चक्राहो रथाङ्गाह्वयस्तस्य शापः पृथ-
ग्भवनलक्षणस्तद्वदिव प्रजागरत्रासो जागरणभयमापतत्यागच्छति । प्रतीति । वलभी गृहोपरिभागस्तस्यां
कपोताः पारावतास्तेषां कूजितै रटितैः सह प्रतिरुतानीव प्रतिश्रुतानीव दुःखान्यसुखान्याविर्भवन्ति प्रकटीभ-
वन्ति । मधुकर इति । उपवनस्य कुसुमानि पुष्पाणि तेषामामोदो दूरगामी गन्धस्तेन सह मधुकर इव ।
जात्येकवचनम् । मरणाभिलाषो मृत्युवाञ्छोपसर्पति समीपमायाति । प्रकारान्तरेण तां वर्णयन्नाह -
तथा चेति । पद्मिनी कमलिनी तस्याः पलाशानि पत्राणि तेषु स्थिता जलकणिकाऽम्भोबिन्दुरिव कम्पते
चलते । एतेनोभयोः साधर्म्यमाविष्कृतमिति भावः । प्रतीति । स्फटिकोपलश्च सलिलं च मणिदर्पणश्च मणि -
कुट्टिमतलानि च तेषु प्रतिच्छायेव प्रतिबिम्बमिर्वं दृश्यते । जनैरिति शेषः । नलिनीति । शशिकराश्चन्द्र-
किरणास्तेषां स्पर्शः संयोगविशेषस्तेन नलिनीव म्लायति म्लानिं प्राप्नोति । नलिन्याः सूर्यविकासित्वेन, अस्याश्च
विरहव्याकुलितचित्तत्वेन शशिकरस्पर्शादेव म्लानिरिति भावः । हंसीवेति । सरसा रसोपयुक्ता या मृणा-
लिन्यः कमलिन्यस्तासां हारा मुक्ताप्रालम्बास्तेषां व्यतिकरेण संबन्धेन हंसीव वरटेव जीवति प्राणिति ।
हंसीपक्षे मृणालिकाया आहारो भोजनं तेन प्राणवृत्तिं करोतीत्यर्थः । शरदिवेति । कुमुदं श्वेतकमलं सूर्यवि
कासि, कुवलयं चन्द्रविकासि, एतेषां संपर्कः संबन्धस्तस्माद्यो मनोहरगन्धस्तं वहतीति वही । सकुसुमबाणा
चेति । सह कुसुमेन पुष्पेण वर्तमाना बाणा वृक्षविशेषा यस्याः यस्यां वा । एवंविधा सती शरदिव घनात्यय
इव सा विजृम्भते । इतस्ततः प्रसरतीत्यर्थः । चन्द्रमूर्तिरिति । कमलानां नलिनानां प्रकरः समूहस्तस्मि-
न्स्खलिताः स्खलनां प्राप्ताः पादा अजयः किरणा वा त एव पल्लवा यस्याः सैर्वविधा चन्द्रमूर्तिरिव संचरन्ती
व्रजन्ती निशां नयति । रात्रिं गमयतीत्यर्थः । कुमुदिनीति । रजनिकरश्चन्द्रस्तस्य किरणैरंशुभिः कृतो
विहितो जागरो जागरणं यस्याः सैवंविधा कुमुदिनीव कैरविणीवालीकनिद्रया दिवसमतिवाहयति । गमयती-
त्यर्थः । अत्रालीकनिद्रत्वं नेत्रकुमुदिन्योर्निद्राभावेन संकोचमात्रापेक्षया मन्तव्यम् । मुररिपुरिति । मुररिपुः
कृष्णस्तस्य जलशयनलीलेव मन्दं मन्दमुच्छ्रसितमेव शेषो यस्याः सा कादम्बरी किमप्यनिर्वचनीयस्वरूपं
चिन्तयति ध्यायति । जलशयनलीलापक्षे मन्दं मन्दमुच्छ्वासित उच्छ्वासं प्राप्तः । संजातोच्छ्वास इति यावत् ।
 
टिप्प० - 1 पारावतकूजितैः सह यथा तेषां प्रतिरुतान्याविर्भवन्ति तथा तस्या दुःखानि प्रकटीभव-
न्तीत्याशयः । टीकाकारेण तु मन्ये 'प्रतिश्रुत्' शब्दस्य दुर्दशा कृता । 2 कार्यातिशयात् सा प्रतिच्छायेव
दृश्यते । अथवा विरहतापवशांदेतेषु पदार्थेषु सा निपतति, अत एव प्रतिच्छायेव ।
शरत्पक्षे कुमु
दादिसंपर्केण मनोहरो गन्धवहो यस्याम् । 4 कादम्बरी तु सकुसुमबाणा कुसुमबाणेन कामेन सहिता ।
5 कुमुदिन्याः किरणैर्जागर: विकासो भवतीति ज्ञेयम् ।
 
पाठा - १ दर्पणकुट्टिम दर्पणतलकुट्टिम २ कुवलयकमल ३ प्रजागार.