This page has not been fully proofread.

कादम्बर्या विरहावस्था ]
 
उत्तरंभागः ।
 
कंण्ठागत जीवित निर्गममार्गमिवोपदिशति । गोत्रस्खलितविलक्ष स्मितेषु हृदयनिपतितमदनश-
रपुष्परज इव वमति । बाष्पमोक्षेषु स्थूलाश्रुसंतानवेणिकावाहिनी विलीयत इव । शशिम -
णिदर्पणेषु विस्फुरितानेकप्रतिबिम्बनिभेन शतधेव विदलति । कुसुमशयनेषु परिमललालसा-
गतालिमालाकुलिता धूमाप्त इव । अमलकमल त्रस्तरेषु किञ्जत्करजःपुञ्जपिञ्जरिता ज्वेल-
तीव । स्वेदप्रतीकारेषु विशदकर्पूरशोधूलीधवलिता भस्मीभवतीव । न विज्ञायते किं मुग्ध-
तथा. किं विलासेन, किमुन्मादेन, संगीतमृदङ्गध्वनितेषु केकाशङ्कया धारागृहमरकतमणिम-
यूरमुखानि स्थगयति । दिवसावसानेषु विश्लेषभीता मृणालसूत्रैश्चित्रभित्तिविलिखितानि चक्र-
वाकमिथुनानि संघटयति । चिन्तारतारम्भेषु मणिप्रदीपानवतंसोत्पलैस्ताडयति । उत्कण्ठा-
लेखेषु संकल्पसमागमाभिज्ञानानि लिखति । दूतीसंप्रेषणेषु स्वप्नापराधोपालम्भान्संदिशति ।
 
५१७
 
विजृम्भणेषु कण्ठागतं निगरण प्राप्तं यज्जीवितं तस्य निर्गममार्गमिव निःसरणपन्थानमिवोपदिशति कथयति ।
गोत्रेति । गोत्रस्खलितानि पूर्वव्यावर्णितानि तेषु यानि विलक्षस्मितानि तेषु हृदयनिपतिताः खान्तान्तःप्रविष्टा
ये मदनशराः कंदपबाणास्तेषां पुष्परज इव कुसुमपराग ईव वमत्युद्गिरति । बाष्पमोक्षेष्विति । बाष्पो
नेत्राम्वु तस्य मोक्षेषु मोचनेषु स्थूलानि यान्यऋणि तेषां संतानं परम्परा तस्य वेणिका प्रवाहस्तां वहतीत्येवंशीला
सती विलीयत इव द्रषीभवतीव । शशीति । शशिमणिदर्पणेषु चन्द्रकान्तादर्शेसु विस्फुरितानि चमकितान्य-
नेकप्रतिबिम्बानि तेषां निभेन मिषेण शतधा शतप्रकारेण विदलतीव खण्डीभवतीव । कुसुमशयनेष्विति ।
कुसुमशयनेषु पुष्पशयनीयेषु परिमले लालसा लम्पटा या गतालिभाला भ्रमरपङ्किस्तयाकुलिताकुलीकृता सती
धूमायत इव धूमवदाचरतीव । अमलेति । अमलानि निर्मलानि यानि कमलानि नलिनानि तेषां त्रस्तरेषु
संस्तारकेषु किञ्जल्कं केसरं तस्य रजःपुजः कणिकानिकरस्तेन पिञ्जरिता पीतरक्तीकृता सती ज्वलतीवोद्भुषतीव ।
स्वेदेति । स्वेदो घर्मस्तस्य प्रतीकाराः प्रतिक्रियास्तेषु विशदः शुचिर्यः कर्पूरक्षोदो हिमवालुकाचूर्ण तस्य धूली
रजस्तया धवलिता शुश्रीकृता सती भस्मीभवतीव भूतिभावं भजतीव । नेति । न विज्ञायते नावबुध्यते ।
मयेति शेषः । किं तदित्याह - किमिति । किं मुग्धतयाऽप्रगल्भतया, किंवा विलासेन विभ्रमेण, किंवोन्मादेन
चित्तविप्लवेन, संगीतार्थं यानि मृदङ्गध्वनितानि मुरजशब्दितानि तेषु केका मयूरवाण्यस्तासां शङ्कया आरेकया
धारागृहे गृहे मरकतमणिर्नीलमणिस्तेन निर्मितानि मयूरमुखानि शिखण्डिवदनानि स्थगयत्याच्छादयति ।
दिवसेति । दिवसावसानेषु वासरप्रान्तेषु । बहुदिवसापेक्षं चैतत् । अन्यथैकदिवसस्यैकमेवावसानं स्यात् ।
विश्लेषभीता वियोगमीता मृणालसूत्रैस्तन्तुलतन्तु भिश्चित्रभित्तावालेख्योपलक्षितकुड्ये विलिखितानि चित्रितानि
यानि चक्रवाकमिथुनानि द्वन्द्वचरद्वन्द्वानि संघटयति संयोजयति । चिन्तेति । चिन्तया संकल्पमात्रेण ये
रतारम्भा मैथुनारम्भास्तेषु मणिप्रदीपरत्न गृहमणीनवतंसः शेखरस्तस्योत्पलानि कुवलयानि तैस्ताडयति ताडनां
करोति । उत्कण्ठेति । उत्कण्ठयोत्कलिकया ये लेखाः पत्राणि तेषु संकल्पेन कल्पनामात्रेण ये समागमा
मेलापास्तेषामभिज्ञानानि मनःप्रत्यायकचिह्नानि लिखति लिपीकरोति । दूतीति । दूत्यः संचारिकास्तासां
संप्रेषणेषु स्वप्ने स्वप्नावस्थायामपराध आगस्तस्योपालम्भा उपालम्भा इति लोकप्रसिद्धास्ता संदिशति कथयति ।
 
टिप्प० - 1 परागमिव इति वक्तव्यम् । स्मितं नास्ति, मन्ये कंदर्पबाणभूतानां कुसुमानाम् ( हृदय-
प्रविष्टानाम् ) रज एवास्तीत्युत्प्रेक्ष्यते । स्मितस्य श्वैत्यवर्णनात् । 2 परिमललालसया (इच्छया) भागता
या अलिमाला, इति स्पष्टोऽर्थः । 3 उत्लुष्यत इव ।
 
पाठा०- •१ कण्ठनाल. २ निष्पतित ३ प्रस्तरे; संस्तरेषु. ४ जर्जरिता ५ उज्वलति. ६ धूलि. ७ संगीतक.
८ संवट्टयति.