कादम्बरी /55
This page has been fully proofread twice.
भयपलायितामिव[^१]कालिन्दीम्,अतिबहलपिण्डालक्तकरसराग- पल्लवितपादपङ्कजामचिरमृदितमहिषासुररुधिररक्तचरणामिव कात्यायनीम्, आलोहिताङ्गुलिप्रभापाटलितनखमयूखाम्, अति-
कठिनमणिकुट्टिमस्पर्शमसहमानां क्षितितले पल्लवभङ्गानिव निधाय संचरन्तीम्, आपिञ्जरेणोत्सर्पिणा नूपुरमणीनां [^२]प्रभाजालेन रञ्जितशरीरतया पावकेनेव भगवता [^३]रूप एव पक्षपातिता प्रजापतिमप्रमाणीकुर्वता जातिसंशोधनार्थ- मालिङ्गितदेहाम्, अनङ्गवारणशिरोनक्षत्रमालायमानेन रोमराजिलतालवालकेन [^४]रशनादाम्ना [^५]परिगतजघनाम्, अतिस्थूलमुक्ताफलघटितेन [^६]शुचिनाहारेण गङ्गास्रोतसेव कालिन्दीशङ्कया कृतकण्ठग्रहाम्, शरदमिव विकसितपुण्डरीक- लोचनाम्,
[ टि ]-- वह्निस्तेन दह्यमानो ज्वाल्यमानो यो मदनो [^1]जराभीरुस्तस्य धूमो दहनकेतुस्तेन मालिनीकृतां मलिन्यं प्राप्ताम् । पुनः कामिव । कालिन्दीमिति । कालिन्दी यमुना तामिव । यमुनां विशेषयन्नाह - उन्मदेति । उन्मदस्य प्रबलगर्वस्य हलिनो बलभद्रस्य यद्धलं लाङ्गलं तेन यदाकर्षणमाकृष्टिस्तस्माद्यद्भयं साध्वसं तस्मात्पलायितां नष्टाम् । अतीति । अतिबहलोऽतिप्रचुरो यः पिण्डालक्तकः पिण्डीकृतो यावकस्तस्य रसो द्रवस्तस्य रागो रक्तिमा तेन पल्लवितं संजातकिसलयं पादपङ्कजं यस्याः सा तथा ताम् । कामिव । अचिरेति । अचिरं तत्कालं मृदितो
मर्दितो यो महिषासुरो दैत्यस्तस्य यद्रुधिर [^2]माग्नेयं तेनारक्तौ लोहितौ चरणौ पादौ यस्या एवंविधां कात्यायनीं दुर्गामिव । आलोहितेति।आलोहिता आरक्ता या अङ्गुलयः करशाखास्तासां प्रभा दीप्तिस्तया पाटलिताः श्वेतरक्तीकृता नखमयूखाः पुनर्भवदीप्तयो यस्याः सा तथा ताम् । यद्यपि नखानां स्वतएवा- रुण्यात्पाटलत्वमस्त्येव, तथापि मिथोमिश्रीभाव एव पाटलत्वं बोध्यम् । चरणयोः पल्लववर्णनप्रयोजनमाह - अतीति ।
अतिकठिनमतिकर्कशं यन्मणिकुट्टिमं मणिबद्धभूस्तस्य स्पर्शं संश्लेषमसहमानामक्षममानाम् । क्षितीति । क्षितितले धरणीतले पल्लवभङ्गानिव किसलयखण्डानिव निधाय स्थापयित्वा संचरन्तीं चलनं कुर्वती मित्यु [^3]त्प्रेक्षा । आलिङ्गित इति । आलिङ्गित आश्लिष्टो देहः शरीरं यस्याः सा तथा ताम् । केन भगवता माहा-
त्म्यवता पावकेन वह्निना । अथ पावकं विशेषयन्नाह - रूपे सौन्दर्य एव पक्षपातिनानुरक्तचित्तेन प्रजापतिं ब्रह्माणमप्रमाणीकुर्वता । तदङ्गीकारादिति भावः । कया । आपिञ्जरेति । आपिञ्जरेण पीतरक्तेन । 'पीतरक्तस्तु पिञ्जरः' इत्यभिधानचिन्तामणिः । उत्सर्पिणा सर्वतः प्रसारिणा नूपुरस्य हंसकस्य मणयो रत्नानि
तेषां प्रभास्त्विषस्तासां जालेन समूहेन रञ्जितं यच्छरीरं तस्य भावस्तत्ता तया हेतुभूतया । एतेन नूपुरमणिप्रभावह्नयो: परस्परमुपमानोपमेयभावः सूचितः । तदालिङ्गनप्रयोजनमाह - जातीति । विधात्रा चाण्डालजात्याक्रान्ता निर्मिता । सा च सर्वथाऽस्पृश्यैवाशुचित्वात् । अशुचिर्वह्निना शुचिः स्यादिति [^4]तदालिङ्गने प्रयोजनमिति भावः । रशनेति । रशना कटिमेखला सैव दाम बन्धनरज्जुस्तेन परिगतं समन्ताद्व्याप्तं जघनं
कट्याः पुरोभागो यस्याः सा ताम् । 'कट्याः क्लीबे तु जघनं पुरः' इत्यमरः । मेखलादाम विशेषयन्नाह - अनङ्गेति । अनङ्ग एव वारणो गजस्तस्य शिरसि शोभार्थं नक्षत्रमालावदाचरमाणेन । रोमेति । रोमराजिरेव लता वल्ली तस्या आलवालकेनावापेनेति रूपकम् । अतीति । अतिस्थूलानि यानि मुक्ताफलानि तैर्घटितो
निष्पादितस्तेन शुचिना विशदेन हारेण चतुःषष्टिलतेन । 'चतुःषष्टिलतो हारः' इत्यमरः । अत एव विशदत्वम् । गङ्गास्रोतसेव गङ्गाप्रवाहेणेव । चाण्डालकन्यकायाः श्यामत्वात् कालिन्दीशङ्कया यमुनाभ्रान्त्या कृतः कण्ठग्रहो गलसंश्लेषो यस्याः सा तथा ताम् । पुनः कामिव । शरदमिव घनात्ययमिव । उभयोः शब्दसाम्यं प्रदर्शयन्नाह - विकसितेति । विकसितानि पुण्डरीकाण्येव लोचनानि यस्याः सा तथेति विग्रहः । शरदि सर्वत्रापि कमलाना- मुन्निद्रत्वेन तथा संभवात् । पक्षे विकसित पुण्डरीकवल्लोचने यस्याः
[^1]F. कामदेव इत्यर्थः ।
[^2]F. क्षतजमित्यर्थः ।
[^3]F. कठिनभूमिस्पर्शमसहमानश्चरणवेदनानिवारणार्थं यथा कोमलमास्तरणं निदधाति तथा लोहितनस्वप्रभा एव भूमौ नवपल्लवखण्डाः स्थापिता इत्याशयः ।
[^4]F. ब्रह्मा अस्पृश्यजातावेनामुत्पादितवान् । अत एव विधातु- रसंमतो रूपपक्षपाती वह्निः शोधनार्थं तामालिङ्गितवानित्याशयः ।
[^5]F. प्रचलितेऽमरपुस्तके तु न दृष्टम् ।
[^१]G. यमुनाम्.
[^२]G. जालकेनानुरञ्जित,
[^३]G. रूपैकपक्षपातिना; रूपपक्षपातिना.
[^४]G. मेखला.
[^५]G. जघनस्थलान्.
[^६]G. शुचिहारेण.