2023-09-16 15:22:14 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
२२
 
भयपलायितामिव [^१]कालिन्दीम्,
 
अतिबहलपिण्डालक्तकरसँराग- पल्लवितपादपङ्कजामचिरमृदित-
महिषासुररुधिररक्तचरणामिव कात्यायनीम्, आलोहिताङ्गुलिप्रभापाटलितनखमयूखाम्, अति-

ठिनमणिकुट्टिमस्पर्शमसहमानां क्षितितले पल्लवभङ्गानिव निधाय संचरन्तीम् आपिञ्जरे-
णोत्सर्पिणा नूपुरमणीनां [^२]प्रभाजालेन रञ्जितशरीरतया पावकेनेव भगवता [^३]रूप एव पक्षपातिता
प्रजापतिमप्रमाणीकुर्वता जातिसंशोधनार्थ- मालिङ्गितदेहाम्, अनङ्गवारणशिरोनक्षत्रमालायमा-
नेन रोमराजिलतालवालकेन रै[^४]रशनादाम्ना [^५]परिगेतजघनाम्, अतिस्थूलमुक्ताफल घटितेन [^६]शुचिना
हारेण गङ्गास्रोतसेव कालिन्दीशङ्कया कृतकण्ठग्रहाम्, शरदमिव विकसितपुण्डरीक- लोचनाम्,
 

 
[ कथामुखेटि ]-
- वह्निस्तेन दह्यमानो ज्वाल्यमानो यो मदनो [^1]जरा भीरुस्तस्य धूमो दहनकेतुस्तेन मालिनीकृतां मलिन्यं प्राप्ताम् ।
पुनः कामिव । कालिन्दी मिति । कालिन्दी यमुना तामिव । यमुनां विशेषयन्नाह - उन्मदेति । उन्मदस्य
प्रबलगर्वस्य हलिनो बलभद्रस्य यद्धलं लाङ्गलं तेन यदाकर्षणमाकृष्टिस्तस्माद्यद्भयं साध्वसं तस्मात्पलायितां
नष्टाम् । अतीति । अतिबहलोऽतिप्रचुरो यः पिण्डालक्तकः पिण्डीकृतो यावकस्तस्य रसो द्रवस्तस्य रागो रक्तिमा
तेन पल्लवितं संजात किसलयं पादपङ्कजं यस्याः सा तथा ताम् । कामिव । अचिरेति । अचिरं तत्कालं मृदितो

मर्दितो यो महिषासुरो दैत्यस्तस्य यद्रुधिरमाँ [^2]माग्नेयं तेनारक्तौ लोहितौ चरणौ पादौ यस्या एवंविधां कात्यायनीं
दुर्गामिव । आलोहितेतिहालोहिता आरक्ता या अङ्गुलयः करशाखास्तासां प्रभा दीप्तिस्तया पाटलिताः
श्वेतरक्तीकृता नखमयूखाः पुनर्भवदीप्तयो यस्याः सा तथा ताम् । यद्यपि नखानां खत स्वतएवा- रुण्यात्पाटलत्व-
मस्त्येव, तथापि मिथोमिश्रीभाव एव पाटलत्वं बोध्यम् । चरणयोः पल्लववर्णनप्रयोजनमाह - अतीति ।

अति कठिनमतिकर्कशं यन्मणिकुहिट्टिमं णिबद्धभूस्तस्य स्पर्शं संश्लेषमसहमानामक्षममानाम् । क्षितीति ।
क्षितितले धरणीतले पल्लवभङ्गानिव किसलयखण्डानिव निधाय स्थापयित्वा संचरन्तीं चलनं कुर्वती मित्यु
[^3]त्प्रेक्षा । आलिङ्गित इति । आलिङ्गित आश्लिष्टो देहः शरीरं यस्याः सा तथा ताम् । केन भगवता माहा-

त्म्यवता पावकेन वह्निना । अथ पावकं विशेषयन्नाह - रूपे सौन्दर्य एव पक्षपातिनानुरक्तचित्तेन प्रजापति
तिं ब्रह्माणमप्रमाणीकुर्वता । तदङ्गीकारादिति भावः । कया । आपिञ्जरेति । आपिञ्जरेण पीतरक्तेन । 'पीत-
रक्तस्तु पिञ्जरः' इत्यभिधान चिन्तामणिः । उत्सर्पिणा सर्वतः प्रसारिणा नूपुरस्य हंसकस्य मणयो रत्नानि

तेषां प्रभास्त्विषस्तासां जालेन समूहेन रञ्जितं यच्छरीरं तस्य भावस्तत्ता तया हेतुभूतया । एतेन नूपुरमणि-
प्रभावह्योःनयो: परस्परमुपमानोपमेयभावः सूचितः । तदा लिङ्गन प्रयोजनमाह - जातीति । विधात्रा चाण्डाल -
जात्याकाक्रान्ता निर्मिता । सा च सर्वथाऽस्पृश्यैवाशुचित्वात् । अशुचिर्वह्निना शुचिः स्यादिति तर्दै [^4]तदालिङ्गने
प्रयोजनमिति भावः । रशनेति । रशना कटिमेखला सैव दाम बन्धनरज्जुस्तेन परिगतं समन्ताद्व्याप्तं जघनं

कट्याः पुरोभागो यस्याः सा ताम् । 'कट्याः क्लीबे तु जघनं पुरः' इत्यमरः । मेखलादाम विशेषयन्नाह -
अनङ्गेति । अनङ्ग एव वारणो गजस्तस्य शिरसि शोभार्थं नक्षत्रमालावदाचरमाणेन । रोमेति । रोमराजि-
रेव लता वल्ली तस्या आलवालकेनावापेनेति रूपकम् । अतीति । अतिस्थूलानि यानि मुक्ताफलानि तैर्घटितो

निष्पादितस्तेन शुचिना विशदेन हारेण चतुःषष्टिलतेन । 'चतुःषष्टिलतो हारः' इत्यमरः । अत एव
विशदत्वम् । गङ्गास्रोतसेव गङ्गाप्रवाहेणेव । चाण्डालकन्यकायाः श्यामत्वात् कालिन्दीशङ्कया यमु
नाभ्रान्त्या कृतः कण्ठग्रहो गलसंश्लेषो यस्याः सा तथा ताम् । पुनः कामिव । शरदमिव घनात्ययमिव ।
उभयोः शब्दसाम्यं प्रदर्शयन्नाह - विकसितेति । विकसितानि पुण्डरीकाण्येव लोचनानि यस्याः सा तथेति
विग्रहः । शरदि सर्वत्रापि कमलाना- मुन्निद्रत्वेन तथा संभवात् । पक्षे विकसित पुण्डरीकवल्लोचने यस्याः
 
टिप्प० -

 
[^
1]F. कामदेव इत्यर्थः ।
[^
2]F. क्षतजमित्यर्थः ।
[^
3]F. कठिनभूमिस्पर्शमसहमानश्चरणवेदना निवार-
णार्थं यथा कोमलमास्तरणं निदधाति तथा लोहितनस्वप्रभा एव भूमौ नवपल्लवखण्डाः स्थापिता इत्या.
शयः ।
[^
4]F. ब्रह्मा अस्पृश्यजाता वेनामुत्पादितवान् । अत एव विधातु- रसंमतो रूपपक्षपाती वह्निः शोधनार्
थं तामालिङ्गित वा नित्याशयः ।
[^
5]F. प्रचलितेऽमरपुस्तके तु न दृष्टम् ।
 
पाठा० -

 
[^
]G. यमुनाम् .
[^
]G. जालकेनानुरक्षिञ्जित,
[^
]G. रूपैकपक्षपातिना; रूपपक्षपातिना .
[^
]G. मेखला, .
[^
]G. जघनस्थलान्.

[^
]G. शुचिहारेण.