This page has not been fully proofread.

कादम्बरी ।
 
नोद्वेज्यते । निर्भरोत्कण्ठागीतनिर्जितरवरोषितैरिवाङ्गणसहकारपिकवृन्दैः
यते । मदनपाण्डुगण्डपरिभूतगर्भपत्रकान्तिभिर्विद्धेवोद्यान
एवं प्रायैश्च मदनदुश्चेष्टितायासैः परिणाममुपैति दिवसः ।
 
[ कथायाम्-
कलकलेनाकुलीक्रि-
केतकी सूचिभिरुद्भूतवेदना भवति ।
 
चन्द्रोदये चास्यास्तिमिरमयी वापैति वृतिः, कमलमयमिव दूयते हृदयम्, कुमुदमय इव
विजृम्भते मकरकेतनः, चन्द्रकान्तमयमिव प्रक्षरति नयनयुगलम्, उदधिजलमयानीव प्रैव-
र्धन्ते श्वसितानि, चक्रवाकमया इव विघटन्ते मनोरथाः, शीतज्वरातुरेव मणिकुट्टिमोदरसं-
क्रान्तस्य तुषारकिरणमण्डलस्योपरि वेपथुलुलिततरलाङ्गुलीनिकरं करयुगलं प्रसारयन्ती शशि-
संतापमनक्षरं कथयति । सीत्कारेषु दशनांशुव्याजेन मन्मथशरजर्जरितहृदयप्रविष्टा निन्दु कि-
रणानिवोद्भिरति । वेपथुषु व्यजनीकृतकदलीदलकम्पोपदेशमिव गृह्णाति । विजृम्भिका सु
 
प्राप्यते । निर्भरेति । निर्भरं यथा स्यात्तथोत्कण्ठया यद्गीतं तेन निर्जितौ यो रवः शब्दस्तेन रोषितैरिव रोष
प्राप्तैरिवाङ्गणमजिरं तत्र यः सहकारश्वतस्तत्रस्थाः पिकाः कोकिलास्तेषां वृन्दैः समूहै: कलकलेन कोलाहलेना-
कुलीक्रियते व्याकुलीक्रियते । मदनेति । मदनेन कंदर्पेण पाण्डुः शुभ्रो यो गण्डः कपोलात्परप्रदेशस्तेन
परिभूता न्यकृता गर्भपत्रकान्तिर्मध्यदलरु॑ग्यैरेवंविधैरुद्यानस्य केतक्यस्तासां सूचयस्त्रिपत्रक रूपाः । 'त्रिपत्रकः
सूचिरभिधीयते' इति वैजयन्तीकारः । अग्राणि वा । तैर्विद्धेव भिन्नेवोद्भूतवेदना प्रादुर्भूतपीडा भवति जायत
एव । एवमिति । एवंप्रायैरेवंप्रकारैर्मदनस्य कंदर्पस्य दुश्चेष्टितानि दुर्विलसितानि तेषामायासैः प्रयासैः
परिणामं परिपक्कताम् । अवसानमिति यावत् । दिवसो वासर उपैति गच्छति ।
 
चन्द्रोदये चेति । च पुनरर्थे । चन्द्रोदये शशाङ्कोदयेऽस्याः कादम्बर्या धृतिः संतोषः । 'धृतिः स्थैर्यम्'
इति भूपालः । अपैति गच्छति । अत एवोत्प्रेक्षते - तिमिरमयीव तिमिरात्मिकेव । तिमिरस्य चन्द्रोदये नाशा-
तत्साम्यं वृतेः । कमलेति । हृदयं मानसं दूयते संकुचितं भवति । अत एवोत्प्रेक्षते - कमलमयमिव पद्मघ-
टितमिव । कमलानामेव चन्द्रोदये संकोचसंभवाद्धृदयस्य तत्तुल्यता । कुमुदेति । मकरकेतनः कंदर्पो विजृम्भते
उज्वलो भवति । अत एवोत्प्रेक्षते
- कुमुदमय इव कैरवात्मक इव । चन्द्रोदये कैरवाणामेव विजृम्भणात्तत्तुल्यता ।
चद्रकान्तेति । नयनयुगलं नेत्रयुग्मं प्रक्षरति । अश्रुपातं करोतीत्यर्थः । अत एवोत्प्रेक्षते - चन्द्रकान्तश्चन्द्र-
मणिस्तन्मयमिव तद्घटितमिव । चन्द्रोदये चन्द्रोपलस्यैव प्रक्षरणादिति भावः । उदधीति । श्वसितानि श्वासाः
प्रवर्धन्ते । वृद्धिं गच्छन्तीत्यर्थः । अत एवोत्प्रेक्षते - उदधिजलं समुद्रपानीयं तन्मयानीव । तत्स्वरूपाणीव । चन्द्रो-
दय उदधिजलस्यैव प्रवर्धनादिति भावः । चक्रवाकेति । मनोरथा अभिलाषा विघटन्ते वियुज्यन्ते । अत
एवोत्प्रेक्षते -- चक्रवाका रथाङ्गाह्वयास्तन्मया इव तद्घटिता इव । शीतेति । शीतज्वरेणातुरा पीडितेव मणि-
कुट्टिमस्य रत्नबद्धभूमेरुदरं मध्यं तत्र संक्रान्तस्य प्रतिबिम्वितस्य तुषारकिरणश्चन्द्रस्तस्य मण्डलं बिम्बं तस्योपर्युपरि
ष्टाद्वेपथुः कम्पस्तेन लुलितः कम्पितस्तरको मनोहरोऽङ्गुलिनिकरः करशाखा समूहो यस्मिन्नेवंभूतं करयुगलं पाणि-
युग्मं प्रसारयन्ती विस्तारयन्ती अक्षरं यथा स्यात्तथा शशिसंतापं चन्द्रसंतापं कथयति । करकम्पनेनैव
तन्निवेदनादिति भावः । सीत्कारेष्विति । सीत्कारेषु सीत्कृतेषु दशना दन्तास्तेषामंशवः किरणास्तेषां व्याजेन
मिषेण मन्मथशरेण कंदर्पबाणेन जर्जरितं शिथिलीकृतं यद्धृदयं खान्तं तत्र प्रविष्टान्संक्रमितानिन्दुकरणानिव
चन्द्रकरानिवोद्गिरति यमति । वेपथुध्विति । वेपथुषु कम्पेषु व्यजनीकृतानि तालवृन्तीकृतानि यानि कदली -
दलानि रम्भापत्राणि तेभ्यः कम्परतस्योपदेशमिव शिक्षामिव गृह्णाति । विजृम्भिका स्विति । विजृम्भिकासु
 
टिप्प० - 1 येषामित्युचितम् ।
 
पाठा० - १ उत्कर्ष. २ चन्द्रकान्तमणिमयम् ३ वर्धन्ते. ४ शशिनः संतापम्. ५ निर्जित