कादम्बरी /548
This page has not been fully proofread.
कादम्बर्या विरहदशा ]
उत्तरभागः ।
५१५
लयाच्छादितलतापाशमुद्यानमासेवते । मुहुर्निष्पतदविरतरोदना ताम्रनयनप्रतिबिम्बं सस्तरा-
स्तरणत्रासनिमज्जत्कमलमिवोपवनसरोजलमवगाहते ।
तस्मादुत्थाय तमालवीथीमुपैति । तस्यां शाखावलम्बोर्ध्वभुजलतानि हित निमीलितलोचन-
वदना चम्पकदलमालिकोद्वद्धदेहाशङ्कामुत्पादयन्ती मुहूर्त विश्रम्य संगीतकगृहमाविशति ।
ततो मधुरमुरजरवलयललितलास्थलीलयोद्वेज्यमाना मयूरीव मुक्तधारं धारागृहमभिपतति ।
ततोऽपि घर्नेजलधारासीकरपुलकितकाया कादम्बकलिकेव कम्पमाना शुद्धान्तकमलिनीतीर-
मुपसर्पति । तस्माच भवनकलहंसरवमसहमाना प्रस्थिता तत्कालावतारितनूपुरैयुगला निपु-
णप्रेक्षामिव क्षामतामभिनन्दति । वलयरचनाम्लायितमृणालकुपितैरिव भवनवापीचक्रवाकमि-
थुनैः कूजितेन खेद्यते । शय्याविलासमृदितकुसुमसंचयामर्पितैरिव प्रमदवनमधुकरैर्विरुते-
यैर्नवीन पल्लवैराच्छादितस्तिरोहितो लता एव पाशो यस्मिानारामं मुहुरंवारमासेवते । आश्रयती-
त्यर्थः । मुहुरिति । निष्पतदन्तः प्रविशदविरतं निरन्तरं यद्रोदने परिदेवनं तेनाताम्र ईषद्रक्ते ये नयने नेत्रे
`तयोः प्रतिबिम्बं प्रतिच्छाया यस्मिन् । अत एवोत्प्रेक्षते - संस्तरे संस्तारके यदास्तरणमुपरिस्थापनं तस्माद्यस्त्रासो
भयं तेन विमज्जह्रुडत्कमलं पद्मं यस्मिन्नेवंभूतमिवोपवनं समीपवर्ति काननं तस्य सरोजलं पानीयं मुहुर्वारंवारम
वगाहते । अवगाहनं करोतीत्यर्थः ।
तस्मादिति । तस्मात्सरोजलादुत्थायोस्थानं कृत्वा बहिर्निगवेत्यर्थः । तमालवीथी तापिच्छलेखामुपेत्या-
गच्छति । तस्यामिति । वीथ्यां शाखावलम्बिनी योर्ध्वभुजलता बाहुवल्ली तस्यां निहितं स्थापितं निमीलिते
मुद्रिते लोचने नेत्रे यस्मिन्नेतादृशं वदनमाननं यया सा । चम्पको हेमपुष्पकस्तस्य पुष्पाणि चम्पकानि तेषां
दलानि पृथकृता अवयवास्तेषां मालिका सक्तया उद्धद्धो नियन्त्रितो यो देहो लक्षणया गलप्रदेशस्तस्याशङ्कामा
रेकामुत्पादयन्ती जनयन्ती मुहूर्त क्षणमात्रं विश्रम्य विश्रान्ति गृहीत्वा संगीतकगृहं नाट्यसदनमाविशति प्रवि-
शति । ततस्तस्माद्गृहान्मधुरो मिष्टो यो मुरजरवो मृदङ्गशब्दस्तस्य लयस्तान विशेषस्तेन ललिता मनोहरा या
लास्यलीला नृत्यविनोदस्तया मयूरीव शिखण्डिनीवोद्वेज्यमानोद्वेगं प्राप्यमाणा मुक्तधारं पतज्जलं धारागृहम भ
पतत्यभिगच्छति । ततोऽपीति । तस्मादपि गृहाद्वना निबिडा या जलधारा तस्याः सीकरो वातास्तवारि
तेन पुलकितः संजातरोमाञ्चः कायो यस्याः सा । कादम्बस्य वृक्षविशेषस्य कलिका कोरकः सेव कम्पमाना
वेपथुं प्राप्यमाणा शुद्धान्तस्यान्तःपुरस्य याः कमलिन्यस्तासां तीरं प्रतीरमुपसर्पति गच्छति । तस्माञ्चेति ।
तस्माच्छुद्धान्तकमलिनीतीराद्भवनं गृहं तत्रस्था ये कलहंसाः कादम्बास्तेषां रवं शब्दमसहमाना सोढुमसमर्था
प्रस्थिता चलिता तत्कालं तदानीभवतारितं दूरीकृतम् । चरणादिति शेषः । नूपुरयुगलं पादकटकद्वन्द्वं यया सैवं-
भूता । निपुणप्रेक्षामिव विबुद्धबुद्धिमिव । क्षामतां कृशतामभिनन्दति स्तौति । पण्डितं प्रेक्ष्य सुतरां सूक्ष्मा
भवतीति भावः । चेत्क्षामता जायते तदा नपुरयुगलं पादयोरन्तरेणान्तरेव पततीति व्यङ्ग्यम् । वलयेति ।
बलयस्य कटकस्य रचना निर्माणं तेन म्लायितं म्लानतां प्रापितं यन्मृणालं तन्तुलं तेन कुपितैः कोपं प्राप्तै-
रिव । भवनस्य वाप्यो दीर्घिकास्तासां चक्रवाकमिथुनानि द्वन्द्व चरद्वन्द्वानि तैः कूजितेन शब्दितेन सा खेद्यते
खेदं प्राप्यते । शय्येति । शय्याविलासैन शयनीयविभ्रमेण मृदितो मर्दितो यः कुसुमसंचयः पुष्प प्रकरस्ते-
नामर्षितैरिवामर्ष प्राप्तैरिव । अन्तःपुरोचितं वनं प्रमदवनं तस्य मधुकरैमरैर्विरुतेन कूजितेनोद्वेज्यसे उद्वेगं
टिप्प० – 1 कदम्बकलिकेत्येव पाठः । 2 'म्लापित' इति पाठः शुद्धः । कादम्बर्या स्ववलयरचनय ।
मृणालानि ( चक्रवाकभोज्यानि ) म्लानि नीतानि, अत एव कुपितास्ते कूजितेन तां खेदयन्तीत्याशयः ।
पाठा० -१ निपतित २ शाखाबलम्ब्यूर्ध्व. ३ मुक्तवारिधार ४ ततो नवजलधरधारा ५ कदम्ब ६ युगलम्
७ आम्लापित ८ मधुकरकुलै: