कादम्बरी /547
This page has not been fully proofread.
५११
कादम्बरी ।
[ कथायाम्-
,
क्यति । तथा च चरणयुगलेन रसनाकलापम्, नितम्ब विस्तारेण मध्यम्, संगमाशया हृद
यम्, हृदयेन भवन्तम्, उरसा बिसिनीपलाशप्रावरणम् कण्डेन जीवितम्, करकमलेन
कपोलपालीम्, त्वदालापेनाश्रुपातम्, ललाटफलकेन चन्दनलेखिकाम्, अंसेन वेणीमधुना
धारयति । त्वरिक्षया विघटमानं हृदयमभिवाञ्छति । गोत्रस्खलनेनेव जीवितेन लज्जते ।
प्रियसख्येन मूर्च्छया मनसि मुहुर्मुहुः स्पृश्यते। परिजनेनेव च रणरणकेन मदनपैरवशा
कुसुमशयनादुत्थाप्यते । परिचारिकयेवार्त्या स्रस्ताङ्गी संचार्यते । मुहुः पवनप्रेङ्गोलितमुस्क-
पठाव्यजनपल्लवभङ्गभयकम्पितमिव लतामण्डपमधिवसति । मुहुः सत्कोशकलिकं बिसवलय-
संरक्षणरचिताञ्जलि पुदमिव स्थलकमेलिनीवनमधिशेते । मुहुरुद्वन्धनभयादिव निरन्तर किस-
4
(9
a
एतेन विरहाधिक्यमाविष्कृतम् । तदेव प्रपञ्चयन्नाह - तथा चेति । अधुना सांप्रतं चरणयुगलेन पादयोर्युग्मेन
रसनाकलापं कटिमेखलां धारयति धत्ते । एतेन कटि प्रदेशस्य कृशत्वमाविष्कृतम् । नितम्बेति । नितम्ब
आरोहस्तस्य विस्तारेण विष्कम्भेन मध्यं बिलग्नम् । धारयतीत्यस्य सर्वत्रानुषङ्गः । संगमेति । संगमस्य
मेलापकस्याशा वाञ्छा तयैव हृदयं स्तनान्तरम् । धारयतीत्यर्थः । तदुक्तम् – 'आशाबन्धः कुसुमसदृशं प्रायशो
.यजनानां सद्यः पाति प्रणयिहृदयं विप्रयोगे रुणद्धि' इति । हृदयेनेति । हृदयेन 'सर्व वाक्यं सावधारणमि -
त्युक्तेर्भवन्तमेव त्वामेव धत्ते । नान्यमित्यर्थः । उरसेति । उरसा वक्षस्थलेन बिसिन्या नलिन्याः पलाशानि
पत्राणि तेषां प्रावरणमुत्तरीयकं धारयति । विरहजनितदाहोपशामकत्वेन तद्धारणमिति भावः । कण्डेन निग-
रणेन जीवितं प्राणितम् । एतेन कण्ठगतप्राणा सांप्रतं समस्तीति ध्वनितम् । करेति । करकमलेन पाणि-
पद्मेन कपोलपालीं गल्लात्परप्रदेशलेखां धत्ते । विरहिजनस्वभावोक्तिरियम् । त्वदिति । तव संबन्धी य
आलापस्त्वत्किवदन्ती तेनाश्रुपातं रोदनम् । ललाटेति । ललाटफलकेन भालपट्टेन चन्दनलेखिकां मलयज-
रचनाम् । एतेन तदितरालंकृतिशून्यत्वं सूचितम् । अंसेनेति । अंसेन स्कन्धेन वेणीं प्रवेणीम् । एतेन
केशानामनियन्त्रितत्वमाविष्कृतम् । त्वदिति । तव दिदृक्षा द्रष्टुमिच्छा तथा हृदयं स्तनान्तरं विघटमानं भेदमा-
पद्यमानमप्यभिवाञ्छति समीहते । हृदयविघटनेन तदन्तस्थायिनस्तव चक्षुषा दर्शनं स्यादिति भावः । गोत्रेति ।
सा कादम्बरी जीवितेन प्राणितेन लज्जते त्रपते । केनेव । गोत्रस्य नानः स्खलनं विपर्ययेण ग्रहणं तेनेव । प्रिय
सख्येवेति । मुहुर्मुहुर्वारं वारं मूर्च्छया मोहेन मनसि चित्ते स्पृश्यत आलष्यते । कयेव । प्रियसख्येव वल्ल-
भवयस्ययेव । परीति । रणरणकेनोत्कण्ठया मदनपरवशा कामपराधीना कुसुमशयनात्पुष्पशयनीयादुत्थाप्यत
उत्थानं कार्यते । केनेव । परिजनेनेव । परिच्छदजनेनेव । परीति । आर्या मानसीव्यथया स्रस्तं पतितमङ्गं यस्याः
सैवविधा सती संचार्यते संचरणं कार्यते । कयेव । परिचारिकयेव दूत्येव । मुहुरिति । मुहुर्वारं वारं पवनेन वायुना
प्रेङ्गोलितं कम्पितम् । उत्प्रेक्षते - उत्कण्ठयोत्कलिकया व्यजनार्थं पल्लवभङ्गः किसलय ध्वंसस्तस्माद्यद्भयं तेन
कम्पितमिव धूतमिव । एवंविधं लतामण्डपं वल्लीजनाश्रय मंधिवसत्यधितिष्ठति । मुहुरिति । मुहुर्वारंवारं सच्छो-
भना कोशकलिका बीजोत्पत्तिस्थलकोरको यस्मिन् । अत एवोत्प्रेक्षते - बिसानां तन्तूनां यद्वलयं कटकं तस्य
संरक्षणं तदर्थ रचितमैञ्जलिपुटं येनैवंभूतमिव स्थलकमलिनीवनमधिशेते शयनं करोति । 'अधिशीस्थासां -
इत्यनेनाधिकरणस्य कर्मत्वम् । मुहुरिति । उद्वन्धनभयादिव गलपाशविधानभीतेरिव निरन्तरमव्यवहितं किसल-
।
।
.
टिप्प० - 1 पूर्वत एव कृशः कटिप्रदेशो विरहेणातिकार्य नीतः, अत एव तस्मात्स्थानात्स्खलित्वा
काजीकलापः पादयोः प्राप्तः । 2 विश्लिष्यत्, निर्गत्य भवत्समीपे गच्छत् इति तात्पर्यम् । 3 वारं वारं
पार्श्वपरिवर्तनं कार्यत इत्यर्थः । दूत्येव इति टीकाकारबुद्धिस्तु लाध्यैव । परिचारिकया सेविकया इव ।
4 मृणालानि मे रक्षणीयानि इति प्रार्थनार्थ मन्ये मंअलिपुटमेव रचितमित्युत्प्रेक्षा ।
पाठा० - १ मध्यभागम् २ स्खलितेनेव. ३ परवशा• ४ उत्क्रोश; सत्क्रोश, ५ नलिनी•