कादम्बरी /546
This page has not been fully proofread.
कादम्बर्या बिरहदशा ]
उत्तरभागः ।
५१३
जनेन पात्यते । कुसुमशयनगता च संतापगलितचरणतलाल क्तकलव पाटलितैश्च शय्याकुसुमैः
कुसुमंशरेण सरतामुपनीतैः सरुधिरैरिव हृदयात्पतितैर्भयमुपजनयति । सर्वाङ्गीणमनङ्गशर-
निवारणाय कवचमिव भवदनुस्मरणरोमाञ्चमुहति । रोमाञ्चिनि कुचयुगले श्वासगलितमं-
शुकं निदधाना त्वत्पाणिग्रहण तृष्णया कण्टकशयनत्रवलीलामिष दक्षिणकरकमलमैनुमाव-
यति । वामं तु वामकपोलभैरजडाङ्गुलिमुल्लसत्पद्मरागवलयप्रभांशुरज्यमानं ज्वलितमदन-
हुताशनविष्ठष्यमाणमिव हस्तकमलं विधुनाति । नलिनीदलव्यजनपवनविक्षिप्यमाण कर्णकुँव-
लयं वदनमजस्रस्रवदनुभयपलायमानलोललोचनमिव विभर्ति । प्रतिक्षणं क्षामतां व्रजन्ती न
केवलं मङ्गलवलयम्, पतनभयेन दोलायमानं हृदयमपि मुहुर्मुहुः पाणिपल्लवेनारुणद्धि । शिशि-
रवारिक्षोदक्षरिण्या लीलाकमलमालिकयेव वपुषि निहितया सखीजनहस्तपरम्परया परिक्ला -
।
।
पात्यते शयनं कार्यते । च पुनरर्थे । कुसुमशयनंगता पुष्पशव्यां प्राप्ता कादम्बरी तस्याः संतापेन गलितो यश्च -
रणतलालक्तकः पादतलयानकरसस्तस्य लवो लेशस्तेन पाटलितैः श्वेतरक्तीभूतैः शय्याकुसुमैः शयनीयपुष्पैः
कुसुमशरेण कामेन शरतां बाणतामुपनीतैः प्रापितैः सरुधिरैः सशोणितैर्हृदयात्पतितैरिव स्रस्तैरिव भयं भीति-
मुपजनयत्युत्पादयति । सर्वाङ्गीणमिति । सर्वाङ्गीणं समप्रदेहव्यापिनं भवतस्तवानुस्मरणमनुचिन्तनं तस्माद्यो
रोमाञ्चो रोमोद्गमस्तमनङ्गस्य कंदर्पस्य शरा बाणास्तेषां निवारणं दूरीकरणं तदर्थ कवचमिव संनाहमिवोहति
धारयति । या रोमाञ्चिनि रोमोद्गमवति कुचयुगले पयोधरयुगे श्वासेन निःश्वासेन गलितं स्रस्तं यदंशुकं वस्त्रं
निदधाना स्थापयन्ती तव पाणिग्रहणस्य तृष्णया वाञ्छया कण्टकशयनमेव व्रतं तस्य लीलामिव दक्षिणकरकमल-
मपसव्यपाणिपद्ममनुभावयत्यनुभवविषयीकरोति । वामं त्विति । वामभागवत यः कपोलो गल्लात्परप्रदेशस्तस्य
भरो भारस्तेन जडाः स्तब्धा जाता अङ्गुलयो यस्यैवंभूतमुल्लसद्विकसत्पद्मरागवलयं लोहितककटकं तस्य प्रभाया
अंशवः किरणास्तै रज्यमानं रक्तीक्रियमाणं । ज्वलितो यो मदन एव हुताशनो वह्निस्तेन विलष्यमाणमिव प्रज्वा
ल्यमानमिव वामं हस्तकमलं करकमलं विधुनाति कम्पयति । 'धूञ् कम्पने' स्वादिः त्रयादिश्च । एतेन सात्विक
भाव उक्तः । स्वभावोक्तिं वर्णयन्नाह - नलिनीति । नलिन्याः कमलिन्या दलानि पत्राणि तेषां व्यजनं ताल-
वृत्तं तस्य पवनो वायुस्तेन विक्षिप्यमाणमितस्ततः क्रियमाणं कर्णयोः श्रवणयोः कुवलयं कुवलयपत्रं यस्मिन्नेवंभूतं
बदनं मुखमजस्रं निरन्तरं सवत्क्षरददश्रु नेत्राम्बु तस्माद्यद्भयं भीतिस्तेन पलायमानं नश्यमानं लोललोचनमिव
तरलनयनमिव बिभर्ति धारयति । प्रतिक्षणं अनुक्षणं क्षामतां शरीरकृशतां व्रजन्ती कादम्बरी, तव विरहेणे-
व्यर्थः । न केवलं मङ्गलवलयं सौभाग्यकटकं पतनभयेन हस्ताच्युतिभीत्या दोलावचंचलत्वमाचरन्तं किन्तु
हृदयमपि स्वान्तमपि मुहुर्मुहुर्वारंवार पाणिपलवेन करकिसलयेनारुणद्ध्यावरणं करोति । करपल्लवे मुखस्य हृदये
च करस्य व्यवस्थापनम् । विरहिजनस्वभावोऽयमिति भावः । शिशिरेति । शिशिरं शीतलं यद्वारि जलं तस्य
क्षोदः पृषत्तं क्षरतीत्येवंशीलया वपुषि शरीरे निहितया स्थापितया संखीजनस्य हस्तपरम्परया पाणिश्रेण्या ।
क्षरद्वारिसाम्यादुत्प्रेक्षते – लीलायै क्रीडार्थ कमलानां पद्मानां मालिकयेव परिक्लाम्यति । ग्लानिं प्राप्नोतीत्यर्थः ।
टिप्प० -1 अश्रुभयेन पलायमाने अर्थात् पलायनोद्यते अत एव लोले चञ्चले लोचने यस्मिन् तार-
शम् । लोलतायां अश्रुभयस्य हेतुत्वमुत्प्रेक्ष्यते । अयमाशयो ज्ञेयः ।
पाठा०- -१ सखीनां सर्वाङ्गीणम्. २ तृप्तया ३ दक्षिणं. ४ अनुभवति ५ भरसजलाङ्गुलिम्. ६ विधुनोति.
७ कुवलयदलं. ८ रुणद्धि.
६५ का०