कादम्बरी /545
This page has not been fully proofread.
५१२
कादम्बरी ।
[कथायाम्-
कष्टं प्राण्यते । किं करोमि, कथय कथं कथ्यते, कया वृत्त्या वर्ण्यते, कीदृशेनोपायेन प्रदर्श्यते,
केन प्रकारेणावेद्यते, कथा युक्त्या प्रकाशयते, कतमया वेदनयोपनीयते । तदुत्कण्ठास्वप्नेषु
विगैलितवेदनाः स्फुटं प्राणिनः, प्रतिदिवसं दृश्यमानोऽपि यन पश्यसि तामीहशीमवस्थाम् ।
प्रचण्ड
किर्रणसहस्रातपसहानि कमलानि शयनीकृतानि म्लानिमुपनयन्त्या दिवसकरमूर्तिरपि
निर्जिता तथा निजोष्मणा ।
निष्करुणेन चाकारणवामेन कामेन मध्यमानास्तास्ताश्चेष्टाः करोति । तथा हि । सा-
सोढमदनवेदने त्वमतिकठिने मनसि निवससि' इति मृदुनि कुसुमशयने कथमपि सखी-
W
लिताः प्राणा यत्रेति क्रियाविशेषणम् । अतिकष्टं मया प्राण्यते जीव्यते । किं करोमीति । प्रतिदिवसं प्रति-
वासरं दृश्यमानोऽपि साक्षात्क्रियमाणोऽपि तामीदृशीं पूर्वव्यावर्णितामवस्थां दशां यन पश्यसि यन्न जानासि
तत्कथय ब्रूहि किं करोमि किं कुर्वे । कथं कथ्यते केन प्रकारेण भण्यते । कया वृत्त्या आरभट्या-
दिकया वर्ण्यते वर्णनाविषयीक्रियते । कीदृशेनोपायेन सामादिना प्रदर्श्यते हग्विषयीक्रियते । केन प्रकारेणा-
वेद्यते निवेद्यते । कया युक्त्या युक्तिरुपपत्तिस्तया केन हेतुना वा प्रकाश्यते प्रकटीक्रियते । कतमया कतरया
वेदनया ज्ञानेनोपनीयते प्राप्यते । निश्चयकोटिमिति शेषः । यदा तु 'उपमीयते' इति पाठस्तदा कतमया वेद-
नया पीडयोपमां प्राप्यत इत्यर्थः । दृश्यमानोऽपि न पश्यसीति तस्य वैगुण्यं परिजिहीर्षुराह- तदुरकण्ठे-
ति । तदुरकण्ठै।लक्षणेषु स्वप्नेषु निद्रादृष्टान्तःकरणजन्येषु ज्ञानेषु विगलितवेदना विगतदुःखाः स्फुटं प्रकटं
प्राणिनोऽसुमन्तः स्युः । तेन त्वमप्युत्कण्ठा निद्रां प्राप्तो विगतवेदनो जानन्नपि न जानासीति फलतीत्यर्थः ।
प्रचण्डेति । प्रचण्डानि तीव्राणि यानि किरणसहस्राणि तेषामातपो वर्चस्तं सहन्त इत्येवंभूतानि शयनी-
कृतानि शय्यीकृतानि कमलानि पद्मानि म्लानिं ग्लानिमुपनयन्त्या प्रापयन्त्या तया कादम्बर्या निजोष्मणा
स्वकीयतापेन दिवसकरमूर्तिरपि दिवसकरबिम्बमपि निर्जिता तिरस्कृता ।
तथा निष्करुणेन निर्दयेनाकारणवामेन निर्हेतुकप्रतिकूलेन । अर्थात्कामेन मध्यमाना विलोड्यमानास्तास्ता-
श्वेष्टाः कायव्यापाररूपाः करोति निर्मिमीते । तदेव दर्शयति — तथा हीति । सासोढा मदनस्य कंदर्पस्य वेदना
पीडा यया तस्याः संबोधनं हे सांसोढमदनवेदने । अतिकठिनेऽतिकर्कशे मनसि चित्ते । चन्द्रापीडस्येति शेषः ।
त्वं निवसस्यवतिष्ठसीति कृत्वा मृदुनि सुकुमारे कुसुमशयने पुष्पशय्यायां सखीजनेन कथमपि महता कष्टेन
टिप्प० - 1 पुनः प्रमाद: । केयूरकस्य सेयमुक्तिः, अत एव 'तया' इत्युचितम् । 2 'उपमीयते'
इत्येव पाठः । 'उपनीयते' इति तु श्रवणेध्यसमञ्जसम् । 3 हन्त ! किमकाण्डे प्रलपति महाभागः ।
उत्कण्ठालक्षणः स्त्रप्तः ? कोऽस्यार्थ: ? अस्तु. सर्वमिदमज्ञानम् 'कतमया वेदनयोपमीयते । बलवती सदु:
त्कण्ठा । स्त्रप्तेषु विगलितचेतनाः स्फुटं प्राणिनः ।' इति पाठः । 'स्वप्ने दृश्यमानोपि तद्वेदनां न दूरीकर्तु-
मिच्छसि' । इति शङ्कायाः परिहारार्थ माह – स्वभेषु ( दृश्यमानाः ) प्राणिनः स्फुटं विगलितचेतनाः चैतन्य -
विहीना भवन्ति । यतो हि प्रतिदिनं दृश्यमानोपि तस्यास्तादृशीमवस्थां न पश्यसि । यदि चैतन्यं स्वात्तर्हि
अवश्यं तस्या दुर्दशां पश्ये: इत्यर्थः । किन्तु टीकाकारचूडामणिः 'बलवती तदुत्कण्ठा' एतद्धडितमुत्कण्ठा
पदं 'स्वप्नेषु विग०' इत्यग्रिमवाक्यस्थेन 'स्वमेषु' इत्यनेन संयोज्य 'उत्कण्ठास्त्रमेषु' इति पदमाविष्कुर्बन-
लौकिकं तद्व्याख्यानमाह भाग्यं नः ? 4 सासोढेति प्रलापस्य कोर्थ: ? अस्तु अत्रापि ग्रन्थचूर्णीकर.
णम् । सोढा मदनवेदना येन तादृशे । अत एव अतिकठिने मनसि ( चन्द्रापीडस्य) वससि । ततश्च
कठिनस्थले निपतितत्वात्ते पीडा स्यादिति सखीभिः सा मृदुनि कुसुमशयने पात्यते । सोढमदनवेदने
(सप्तम्येकवचनम् ) सा इत्यनयोर्योोगेन 'सासोढमदनवेदने !' इति संबोधनजन्म !
१
Q
पाठा -१ उपमीयते. २ बलवती तदुत्कण्ठा स्वप्नेषु. ३ बिगलितचेतनाः ४ प्रतिदिनम् ५ तादृशीम्.
६ दिनकरकिरण ७ वामनेन. ८ कथ्यमानाः •