This page has not been fully proofread.

कादम्बर्मा विरहावया ]
 
उत्तरभागः ।
 
लास्यलीलया प्रसरभङ्गः ।
 
व्युपरमः ।
 
नानुत्तालतालवृन्तवान्तजलजङकणिकासारसेकेन निवृत्तिः । न सर-
सहरिचन्दनपच्छटाच्छुरणेन छेदः । न विदलितमुक्ताफलवालुकापटलोलनेन
नोत्कीलितय त्रमयकलहंसपकिमुताम्बुधारेण धायगृहेण प्रशमः । यथा यथा बलितजल-
यण विगलिताभिरतिशिशिर शीकरनिकरतारकिताभिरम्बुधाराभिराहन्यते तथा तथा वैद्युता-
नलसहोदर इव स्फुरति मदनपावकः । सुतरां च शिशिरः कुन्दकलिकाकलापमञ्जरीमिव
विकासयति स्वेदजललवजालकसंततिमुपचारः । चित्रं चेदम् । मकरकेतुहुतभुजा दयमान-
मध्यनिशौच मंशुकमिव नितरां निर्मलीभवति लावण्यम् । मन्ये च बदुखभावमपि जलमिव
मुक्ताफलतामुपगतं कठिनीभवत्युत्कण्ठितं हृदयमबलाजनस्य, यत्तादृशेनातिसंतापेनापि न
विलीयते । बलवती खलु वल्लभजनसंगमाशा, यत्तथाविधमध्यनुभववेदनाविहलितप्राणमति-
शीतलद्रव्यादिना तदितरवहेरेतस्य भिन्नत्वमाविष्कृतमिति भावः । नानुत्तालानि यानि तालवृन्तानि व्यजनानि
तेभ्यो या वान्ताः पतिता जलस्य जडाः शीतलाः कणिकास्त्रासामासारो वर्षणं तेन सेकः सिश्चनं तेन निवृ-
त्तिर्नाश:
ः । अस्य मकरध्वजहुतभुज इति पूर्वेणान्वयः । न सरसेति । सरसो यों हरिचन्दनपको घर्षि-
तश्चन्दनद्रवस्तस्य छटया धारया छुरणं सिञ्चनं तेन न छेदो विनाशः । विदलित इति । नत्र बिदलितानि
स्फोटितानि यानि मुक्ताफलानि मौक्तिकानि तेषां वालुकाः सिकतास्तासां पटलानि समूहास्तै रुबूलन मुद्वर्तनं
तेन व्युपरमो निवृत्तिः । नो कीलित इति । न चोत्कीलिता उत्कोरिता या यन्त्रमया यत्रनिष्पन्चाः कलहं-
सपङ्ख्यः कादम्बश्रेणयस्ताभिर्मुक्ता अम्बुधारा यस्मिन्नवंभूतेन धारागृहेणं यत्रधारासदनेन प्रशमः प्रशमनम्
यथा यथेति । इयं कादम्बरी यथा यथा अम्बुनोऽम्भसो धाराभिराहन्यत आच्छोट्यते, तथा तथा
मदनपावकः कंदर्पवह्निः स्फुरति दीप्तिमान्भवति । किंलक्षणो मदनवह्निः । उत्प्रेक्षते - विद्युतोऽयं वैद्युतः
स चासावनलश्च तस्य सहोदर इव बन्धुरिव । किंलक्षणाभिरम्बुधाराभिः । चलितं कम्पितं यजलयां ततो
विगलिताभिः पतिताभिः । पुनः किंलक्षणाभिः । अत्यन्तं शिशिरः शीतलो यः शीकरनिकरो वाताक्षिप्तजल-
कणसमूहस्तेन तार किताभिर्नक्षत्रिताभिः । सुतरां चेति । उपचारः प्रतिक्रिया खेदस्य धर्मस्य जललवा
अम्भः कणास्तेषां जालकानि युगपदनेकेषां पातलक्षणानि तेषां संततिः समूहस्तां विकासयति प्रगुणीकरोति ।
तर्धुष्णो भविष्यतीत्याशयेनाह - सुतरां चेति । सुतरामतिशयेन शिशिरः शीतलः । अधिकविरहिणो
विधुरपि सवितरतीत्यादिवदेतस्याः शिशिरोऽप्युपचारोऽधिकतर उष्णो बभूवेत्यर्थः । कीदृशीं संततिम् । कुन्दस्यं
कुसुमं कुन्दः पुष्पवृक्षो वा तस्य कलिकाः कोरकास्तासां कलापः समूहस्तस्य मञ्जरीमिव । वर्णनीयाया जललव-
संततेः कुन्दकलिकाकलापमञ्जरीसदृशसंभावनयोत्प्रेक्षालंकारः । तदुक्तम् – 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन
यत्' इति काव्यप्रकाशे । चित्रमिति । इदं चित्रमाश्चर्यम् । इदं किम् । मकरकेतुरेव हुतभुग्वहिस्तेम दह्यते
ज्वाल्यत इति दयमानं ज्वाल्यमानमपि लावण्यं सौन्दर्य नितरामतिशयेन निर्मलीभवति विशदीभवति । कीदृशं
लावण्यम् । उत्प्रेक्षते – अभिना शौचं शुद्धमंशुकं वस्त्रमिव । मन्य इति । अहमिति मन्ये जाने । इतीति
किम् । अबलाजनस्य स्त्रीजनस्य मृदुखभावमपि कोमलमप्युत्कण्ठितं हृदयं मुक्ताफकतामुपगतं मौक्तिकत्वं प्राप्तं
जलमिव पानीयमित्र कठिनीभवति । दृढीभवति । यदिति हेत्वर्थे । यतो हेतोस्तादृशेनातिसंतापेनापि न विली-
यते न बिलयं गच्छति । बलवतीति । खलु निश्चचैन वल्लभः प्रियो यो जनस्तस्य संगमो मेलापकस्तस्याशा
वाञ्छा बलवती बलीयसी । यद्यस्मात्कारणात्तथाविधो योऽनुभवः साक्षात्कारस्तेन या वेदना पीडा तया विह्व-
टिप्प० – 1 अग्निना शौचं शुद्धिर्यस्य ईडशमिति वाच्यम् ।
 
पाठा७-१ निवृत्तिः, निर्वृति: २ उजूननेन. ३ दन्त. ४ कापि ५ प्राणाम्
 
S