This page has not been fully proofread.

५१०
 
कादम्बरी ।
 
स्थामनुभवामि' इत्युपालभमानेव, 'न मे भवद्भिः पार्श्ववर्तिभिः कार्यम्' इति निर्भर्त्सयन्तीव
'किं मे पुरस्तिष्ठसि' इत्यन्तर्मन्युवेगेन तर्जयन्तीव च बाष्पपूरोद्रेको कम्पपर्याकुलया दृष्या
चिरमालोकितवती । तया दृष्टश्च तथादुःखितया देव्यादिष्टमेव गमनायात्मानं मण्यमानो-
ऽहमनिवेद्यैव देव्यै देवपादमूलमुपागतोऽस्मि । तच देवैकशरणजनजीवित परित्राणाकुलमतेः
केयूरकस्य विज्ञापनाकर्णनावधानदानेन प्रसादं कर्तुमर्हसि
 
[ कथायाम्-
--
 
देव, श्रूयताम् । यदैव ते प्रथमागमनेनामोदिना मलयानिलेनेव चलितं समस्तमेव
तत्कन्यकालतावनम्, तदैव सकलभुवनमनोभिरामं भवन्तमालोक्य वसन्तमिव, रक्ता-
शोकतरुलता मिवारूढ वाम्मकरकेतनस्ताम् । इदानीं तु महान्तमायासमनुभवति त्वदर्थे
कादम्बरी । तैस्या हि दिनकरोदयादारभ्य दिवसकरकान्तोपलानलस्येव निःशब्दस्थापवने-
रितस्याधूमस्याभस्मनः प्रज्वलतो मकरध्वजहुतभुजो न परिजनकरकमलकलित कोमलपल्लव-
समीपस्थायिभिर्भवद्भिर्मे मम न कार्य न कृत्यमिति निर्भर्त्सयन्तीव निर्भर्त्सनां कुर्वन्तीव । मे मम पुरोऽने किं
तिष्ठसीत्यन्तर्मन्युवेगेनान्तःको धरयेण तर्जयन्तीव तर्जनां कुर्वन्तीव । तथा बाष्पो नेत्राम्बु तस्य पूर: प्रवाहस्त-
स्योद्रेक आधिक्यं तेन य उत्प्राबल्येन कम्पो वेपथुस्तेन पर्याकुला व्याप्ता तया दृष्टया दृशा चिरं बहुकालमालो-
कितवती निरीक्षितवती । तथादुःखितया तेन प्रकारेण दुःखं प्राप्तया देव्या कादम्बर्या दृष्टोऽवलोकित आत्मानं
गमनायादिष्टमेवाज्ञापितमेव मन्यमानोऽहं देव्यै कादम्बर्यै अनिवेद्यैवाननुज्ञाप्यैव देवस्य भवतः पादमूलं चरण-
समीपमुपागतोऽस्म्यायातोऽस्मि । तञ्चेति । तत्तस्मात्कारणाद्देव एव भवानेवैकः शरणं यस्यैवंविधो यो जनः
कादम्बरीलक्षणरतस्य जीवितं प्राणितं तस्य परित्राणं रक्षणं तस्मै आकुला मतिर्यस्यैवंभूतस्य केयूरकस्य विज्ञापना
विज्ञप्तिस्तस्या आकर्णनं श्रवणं तस्मिन्नवधानदानेन चित्तप्रदानेन प्रसादं कर्तुं त्वं देवोऽर्हसि योग्यो भवसि ।
 
-
 
>
 
हे देव, श्रूयतामाकर्ण्यताम् । विज्ञयन्त र मिति शेषः । यदैव यस्मिन्नेव क्षणे ते तव प्रथमागमनेनाद्यागमनेन ।
उत्प्रेक्षते - आमोदिना सुगन्धिना मलयानिलेनेव मलयमारुतेनेव समस्तमेव समग्रमेव तत्कन्यकालतावनं
कन्यका एव लतास्तासां वनं चलितं क्षुब्धम् तदैव तस्मिन्नेव क्षणे सकलं यद्भुवनं जगत्तस्य मनोभिरामं
चेतोरुचिरं वसन्तमिव भवन्तं त्वामालोक्य निरीक्ष्य रक्ता याऽशोकतरुलता तामिव तां कादम्बरी मकरकेतनः
कंदर्प आरूढवान्प्रविष्टवान् । इदानीं त्विति । सांप्रतं तु तवार्थः प्रयोजनं तस्मिन् । निमित्ते सप्तमी ।
तथा च त्वन्निमित्तं कादम्बरी महान्तमायासं श्रममनुभवति । करोतीत्यर्थः । तस्या इति । हीति निश्चये ।
तस्याः कादम्बर्या दिनकरस्य सूर्यस्योदय उद्गमनं तस्मादारभ्य । तन्मर्यादी कृत्येत्यर्थः । दिवसकरकान्तोपलो.
हर्षंत्तस्यानलो वहिस्तस्येव मकरध्वज एव हुतभुग्वहिस्तस्य प्रज्वलतो दीप्तिमतः परिजनः सेवकवर्गस्तस्य करा
एव कमैलानि तैः कलिता घृता ये कोमलपलवा मृदुकिसलयानि तेषां लायलीला नृत्यक्रीडा तथा न प्रसरभङ्गो
न प्रचारहानिः । उभयानलयोः साम्यं प्रदर्शयन्नाह - निःशब्दस्येति । निर्गतः शब्दो ध्वनि विशेषो
यस्मात्स तस्य, अपवनेरितस्य न पवनेन वायुनेरितः प्रेरितस्तस्य, अधूमस्य न विद्यते धूमो दहनकेतनो यस्मिन्स
तस्य । अभस्मनो न विद्यते भस्म भूतिर्यस्मिन्स तस्य । एतेन सूर्यकान्तानलेन निःशब्दत्वादिधर्मैः सायं
 
टिप्प० -1 मलयानिलेन आमोदिना सुगन्धिना, भवदागमनेन भामोदिना हर्षजनकेन, 'प्रमोदा-
मोदसंमदाः' इत्यमरः । 2 सूर्यस्पर्शेनाभिजनकः सूर्यकान्तमणिः । 3 परिजनहस्तेषु कमलत्वारोपणं बाण
पुत्रस्य स्थूलतैव ।
 
पाठा०===१ दृष्टश्च तथा दुःखितया; दृष्टश्च दुःखितया . २ अर्हति देवः । देव श्रूयताम्. ३ तथाहि.