कादम्बरी /542
This page has not been fully proofread.
कादम्बरीदशानिवेदनम् ]
उत्तरभागः ।
9
महाश्वेताया वा । यदैव पत्रलेखां मेघनादाय समर्थ्य प्रतिनिवृत्य मयाथं देवस्योज्जयिनी-
गमनवृत्तान्तो निवेदितः, तदैवोर्ध्वं विलोक्य दीर्घमुष्णं च निःश्वस्य सनिर्वेदम् ' एवमेतत् '
इत्युक्त्वोत्थाय महाश्वेता पुनस्तपसे स्वमेवाश्रमपदमाजगाम । देव्यपि कादम्बरी झटिति
हृदये दुषणेनेवाभिहता ह्यतर्कतापतिताशनिनेव मूर्ध्नि ताडिता, अन्तःपीडाकूणन निमीलितेन
चक्षुषा मूर्च्छितेव, मुषितेव, परभूतेष वश्विदेव च उन्मुक्तेव चान्तःकरणेन, अविदित-
महाश्वेतागमनवृत्तान्ता, चिरमिव स्थित्वोन्मील्य नयने, विलक्षेव, लजिंतेव, विस्मृतेष,
विस्मयस्तब्धदृष्टि: 'महाश्वेतायाः कथय' इति सासूयमिव मामादिश्य, मदलेखायां पुनर्वलि-
तमुखी सविलक्षस्मितम् 'मदलेखे' अस्ति केनचिदपरेणैतत्कृतं करिष्यते वा यत्कुमारेण
चन्द्रापीडेन इत्येवमभिदधत्युत्थाय निवारिताशेषपरिजनप्रवेशा शयनीये निपत्योत्तरवाससोत्त-
माङ्गमवगुण्ठ्य निर्विशेषहृदयवेदनां मदलेखामध्यनालपन्ती सकलमेव तं दिषसमस्यात् ।
परेच प्रातरेवोपसृतं माम् ' एवं दृढतरशरीरेषु त्रियमाणेष्विव भवत्स्वहमीदृशीमव-
।
नास्ति न विद्यते । तन्निदान माह - य दैवेति । यदैव यस्मिन्नेव क्षणे पत्रलेखां मेघनादाय समर्प्य समर्पणं कृत्वा
प्रतिनिवृत्य परावृत्य मया केयूरकेण देवस्य भवत उज्जयिन्यामवन्त्यां यद्गमनं तस्य वृत्तान्त उदन्तो निवेदितः
कथितः, तदैव तस्मिन्नेव क्षण ऊर्ध्वं विलोक्य निरीक्ष्य दीर्घमायतमुष्णं च निःश्वस्य निःश्वासं मुक्त्वा सनिर्वेद
स्वावमाननसहितं यथा स्यात्तथा । एतदेवमेव निश्चयेन चन्द्रापीडो गत इत्युक्त्वोत्थानं कृत्वा महाश्वेता पुनस्त-
पसे तपोऽर्थ स्वमेवात्मीयमेवाश्रमपदं स्थानमाजगामाययौ । कादम्बर्यपि सकलमेव तं दिवसमस्थादतिष्ठदिति
दूरेणान्वयः । इतः कादम्बरीं विशेषयन्नाह – झटिति तत्कालं हृदये खान्ते द्रुघणेन घनेनाभिहतेव ताडितेव ।
अतर्कितम चिन्तितमापतितो योऽशनिर्वज्रं तेन मूर्ध्नि मस्तके ताडितेवाभिहतेव । अन्तःपीडा मानसी व्यथा
तया कूणनं क्रन्दनं तेन निमीलितेन मुद्रितेन चक्षुषा त्रेत्रेण मूर्चिछतेव मोहं प्राप्तेव । मुषिलेव गृहीतसर्वस्खेव ।
परिभूतेव पराभवं प्रापितेव । वञ्चितेव वञ्चनाविषयीकृतेव । अन्तःकरणेन चित्तेनोन्मुक्तेव त्यक्तेव । अविदितो-
ऽज्ञातो महाश्वेताया गमनवृत्तान्तो यया सर्वभूता कादम्बरी चिरमिव बहुकालमिव स्थित्वा नयने नेत्रे उन्मी-
ल्योन्मुद्य, विलक्षेत्र वीक्षापन्नेव लज्जितेव, त्रपितेव, विस्मृतेव विस्मरणं
प्राप्तेव, विस्मय आश्चर्यं तेन स्तब्धा
दृष्टियेस्या एवंभूता महाश्वेतायाः कथय निवेदय । चन्द्रापीडो गत इति शेषः । इति सासूयं सेर्घ्यं मामादिश्य
प्रतिपाद्य, मदलेखायां विषये पुनर्वलितं मुखं यस्या एवंविधा सती विलक्षं यत्स्मितं तेन सह वर्तमानं यथा
या मदलेखे, केनचिदनिर्दिष्टनाम्ना परेणैतद्गमनलक्षणं कृतमस्ति । करिष्यते वा यत्कुमारेण चन्द्रापीडेन
कृतमिति । एवमभिदधती कथयन्त्युत्थायोत्थानं कृत्वा निवारितो दूरीकृतोऽशेषपरिजनस्य समग्रसेवकलोकस्य प्रवेशो
यया सा शयनीये शय्यायां निपत्य पतनं कृत्वोत्तरवाससोत्तरीयवस्त्रेणोत्तमा शिरोऽवगुण्ठ्याच्छाव निर्गतो
विशेषो यस्या एवंविधा हृदयवेदना चित्तपीडा यस्यास्ताम् । समानदुःखामित्यर्थः । एवंभूतां मदलेखामप्यना-
लपन्त्यभाषयन्ती सकलमेव तं दिवसमस्थादित्यन्वयस्तु प्रागेवोक्तः ।
परेधुश्चेति । अपर दिने प्रातरेव प्रभात एवोपसृतमागतं मामित्युपालभमानेवोपालम्भं ददानेव । इतीति
किम् । एवं पूर्वोक्तप्रकारेण दृढतरमतिशयेन कठिनं शरीरं येषामेवंभूतेषु भवत्सु केयूरकप्रभृतिषु । उत्प्रेक्षते --
म्रियमाणेष्विव मरणं प्राप्यमाणेष्विवाहं कादम्बरीदृशीमवस्थां दशामनुभवाम्यनुभव विषयीकरोमि । पार्श्ववर्तिभिः
टिप्प० - 1 अप्रतिभेव । 2 महाश्वेतायाः कारणादेव ममेयं दशा, यतस्तयैव कुमारोऽत्रानीतः । अत
एव तस्यै ममेमां दशां निवेदयेति सासूयमुच्यते । टीकाकारस्तु न बुद्धवानाशयम् । 3 ग्राम्यप्रियोयं
पाठः । न हि कविरेवमीलं लपेत् । अतो 'प्रियमाणेष्वेव' इत्येव पाठः । अर्थात् भवत्सु वर्तमानेष्वेव ।
•१ समयगतेन. २ प्रतिनिवर्त्य ३ अयोधनेन. ४ शुष्काशना. ५ मिलितेन. ६ उन्मत्ता ७ लक्षि-
तेव. ८ अपरेधुः ९ दृढशरीरेषु. १० म्रियमाणेष्विव.
पाठा०-
0