कादम्बरी /541
This page has not been fully proofread.
1
५०८
कादम्बरी ।
[ कथायाम-
ध्वजत तम् । अपसृत्य पुनः कृतनमस्कारे तस्मिन्ननामयप्रश्नवचसा संवर्ग्य सर्वानेव तत्स-
हायान्पुरः स्थितं पुनः पुनः सस्पृहमालोक्य केयूरकसवादीत् - 'केयूरक, त्वदर्शनेनैव भद्रं
देव्याः सपरिवारायाः कादम्बर्या इत्येतदावेदितम् । आगमनकारणमपि विश्रान्तः सुखितः
कथयिष्यसि' इत्युक्त्वा संभ्रान्तागतारोहकढौकितां करिणीमारुहा 'कुतोऽस्य जनस्य सुखिता'
इत्यभिदधानमेव केयूरकं पृष्ठतः कृत्वा पत्रलेखां चारोग्य स्वभवनमयासीत् । तत्र च
निषिद्धाशेषराजलोकप्रवेशः प्रविश्य बल्लभोद्यानं सपरिवारेण केयूरकेण सहोत्ताम्यता चेत-
साऽचेतितमेव दिवसकरणीयं निर्वर्तयामास । निर्वर्यै च पत्रलेखाद्वितीयः सुदूरोत्सारित-
परिजनः केयूरकमाहूयाब्रवीत्
– 'केयूरक, कथय देव्याः कादम्बर्याः समदलेखाया महा-
श्वेतायाश्च संदेशम्' इत्यभिहितवति चन्द्रापीडे पुरः सप्रश्रयमुपविश्य केयूरकोऽध्येवादीत् --
Ca
'देव, किं विज्ञापयामि नास्ति मयि संदेशलवोऽपि देव्याः कादम्बर्याः समदलेखाया
अपसुत्येति । अपसरणं कृत्वा पुनः कृतो विहितो नमस्कारो नतिर्येनैवंभूते तस्मिन्केयूरके सत्यनामयस्य प्रश्नः
पृच्छा तस्य वचस्तेन सर्वानेव समधानेव तस्य केयूरकस्य सहायान्सहागतासंवर्ग्य संतोष्यं पुरः स्थितमप्रतः
स्थितं पुनः पुनः सस्पृहं साभिलाषमालोक्य समीक्ष्य चन्द्रापीडः केयूरकमवादीदवोचत् । किमवादीदित्याश-
-
। हे केयूरक, तव
मालोकनं तेनैव सपरिवारायाः सपरिच्छदाया देव्याः काद-
म्बर्या भद्रं कल्याणमित्येतदावेदितं कथितम् । आगमनेति । स चन्द्रापीड: स्वस्थ भवनं गृहमयासीदग-
च्छदित्यन्वयः । किं कृत्वा । आगमनकारणं निदानं तदपि विश्रान्तः कृतविश्रामः सुखितः संजातसुखः स
स्वं कथयिष्यसि निवेदयिष्यसीत्युक्त्वा प्रोच्य । कचित् 'सुखी नः कथयिष्यसि' इति पाठो दृश्यते । तेन नः
अस्माकमिति तस्यार्थः । पुनः किं कृत्वा । संभ्रान्तः ससंभ्रम आगतो य आरोहको हस्तिपकस्तेन ढौकितामा•
नीतां करिणीं हस्तिनी मारुयारोहणं कृत्वा अस्य केयूरकलक्षणस्य जनस्य कुतः कस्मात्सुखिता इत्यभिदधानमिति
ब्रुवन्तमेव केयूरकं पृष्ठतः पृष्ठप्रदेशे पत्रलेखां चारोप्यारोपणं कृत्वेत्यर्थः । स्वभवन मयासीदित्यन्वयस्तु प्रागे-
वोक्तः । तत्र चेति । स चन्द्रापीडो दिवसकरणीयं वासरकृत्यं निर्वर्तयामास कृतवान् । किं कृत्वा । सह
परिवारॆण परिच्छदेन वर्तते यः स सपरिवारः एवंभूतेन केयूरकेण सह समं वलभमुद्यानमारामं प्रविश्य प्रवेशं
कृत्वा । किलक्षणः सः । निषिद्धो निवारितोऽशेषाणां समग्राणां राजलोकानां प्रवेशो येन सः । कीदृशं दिवसक-
रणीयम् । उत्ताम्यतातिव्याकुलेम चेतसाऽचेतितमेवाज्ञातमेव । निर्वर्त्य चेति । स चन्द्रापीडः केयूरकमा-
हुयाह्वानं कृत्वानवीदवोचत् । किं कृत्वा । निर्वर्त्य विधाय । दिवसकरणीयमिति शेषः । चन्द्रापीडं विशेषय-
नाह-पत्रलेखेति । पत्रलेखेव द्वितीया यस्य सः सुदूर दूर उत्सारितो दूरीकृतः परिजन: सेवकवर्गो येन
सः । किमजवी दिव्याशयेनाह - केयूरक इति । है केथूरक, देव्याः कादम्बर्याः समदलेखाया मदलेखया सह
वर्तमानाचाः । कादम्बर्या विशेषणम् । महाश्वेतायाश्च संदेशं वाचिकं कथय निवेदयेति चन्द्रापीडेऽभिहित ति
कथितवति सति पुरोऽये सप्रश्रयं सविनयमुपविश्य निषद्य । केयूरकोऽप्यवादी दुवाच ।
किसुवाचेयाह -- देव इति । देव, किं विज्ञापयामि कि विज्ञप्तिं करोमि । यदादिष्टं तदेव वदेत्याह-
नास्तीति । मयि विषये देव्याः कादम्बर्याः समददेखाया महाश्वेताया वा संदेशलवोऽपि वाचिकादेशोऽपि
टिप्प०-11 नेयं गुस्फनशय्या कवेः । अव एवं 'संवर्ध्य' (समाहत्य) इत्येव पाठः ।
-१ संवर्ध्य; समावर्ज्य. २ विश्रान्तमुखितः ३ निबर्तयामास ४ निवर्त्य ५ अगादीत्.
·0