कादम्बरी /540
This page has not been fully proofread.
आगच्छतः केयूरकस्यावलोकनम् ] उत्तरभागः ।
२५०७
BA
तीर्य सिप्रां तस्मिन्नेव भगवतः कार्तिकेयस्यायतने तत्प्रतिवार्ता प्रतिपालयन्नतिष्ठत् । तत्रस्थश्च
कुतूहलात्तस्मिन्नेव वाजिवृन्दे निक्षिप्तदृष्टिः पार्श्वस्थितां हस्तेनाकृष्य पत्रलेखामवादीत् - 'पत्र-
लेखे, पश्य। ये एष पुर एवार्ककिरणनिवारणोल्लासितया प्रेङ्खदालोललम्बशिखया मयूरपिच्छ-
मय्या वढिकया दुर्विभाव्यवदनोऽश्ववारो ज्ञायते, केयूरकोऽयम्' इति । यावत्तया सहैव नि-
रूपयत्येव, तावत्तस्मात्प्रहित पुरुषादुपलब्धात्मावस्थानं दृष्टिपथ एवावतीर्य तुरंगमादापतन्तं
दूराहुतागमन धूलिधूसरश्यामीकृतशरीरं परिवर्तित मिवेतर कारेणोज्झिताङ्गराग संस्कारमलिने-
न. वपुषा विषादशून्येन च मुखेनान्तर्दुःखसंभारपिशुनया च दृष्ट्या दूरत एवार्पेष्टामपि कष्टां
का दम्बरीसमामवस्थामनक्षरमावेदयन्तं केयूरकमद्राक्षीत् ।
bo
दृष्ट्वा च दर्शितप्रीतिरेयेहीत्याहूय सैसंभ्रमप्रणतोपसृतमतिदूरप्रसारिताभ्यां दोय पर्य-
प्रतिवार्ता प्रत्युत्तरं प्रतिपालयन्विलोकयनतिष्ठत्तस्थौ । तत्रस्थ इति । तत्र चैले स्थितथ कुतूहलात्कौ
तुकात्तस्मिन्नेव पूर्व प्रतिपादित एव वाजिवृन्देऽश्वसमूहे निक्षिप्ता स्थापिता दृष्टिर्हग्येनैवंभूतः पार्श्वस्थितां समी-
पस्थां पत्रलेखां हस्तेन करेणाकृष्याकर्षणं कृत्वावादीदवोचत् । किमवादीदित्याह – पत्र लेखे इति । हे
पत्रलेखे, पश्यावलोकय । य एष पुरोऽग्र एवार्ककिरणाः सूर्यरश्मयस्तेषां निवारणे दूरीकरण उल्लासितयोल्लासं
प्राप्तया प्रेङ्खन्ती दीप्यन्ती आलोला चञ्चला लम्बायता शिखाग्रं यस्याः सा तथा तया । मयूरपिच्छेः कलापि-
बर्निष्पना मयूरपिच्छमयी । 'प्राचुर्यविकारायें' इति मयद । तयैवंविधया वङ्ककया शीकरिण्या दुर्विभाव्यं
दुःखेन ज्ञातुं शक्यं वदनमाननं यस्यैवंभूतोऽश्ववारोयं केयूरक इति ज्ञायते संभाव्यते । स यावद्यावत्का लं
तया सह पत्रलेखया सममेवं निरूपयत्येव कथयत्येव, तावत्कालं तस्मात्प्रहित पुरुषात्प्रेषितनरादुपलब्धं ज्ञात-
मात्मनः स्वस्यावस्थानमुपवेशनं येनैवंभूतं केयूरकं कादम्बर्या अनुचरमद्राक्षीदपश्यदिति दूरेणान्वयः । किं
कुर्वन्तं केयूरकम् । दूरादापतन्तमागच्छन्तम् । किं कृत्वा । अंवतीर्यावरोहणं कृत्वा । कस्मात् । तुरंगमाद -
श्वात् । कस्मिन् । दृष्टिपथ एव दृग्विलोकन एव । चन्द्रापीडस्येति शेषः । दृष्टेः पन्था दृष्टिपथः । 'ऋक्पूरब्धूःप-
थामानक्षे' इत्यच् । इतः केयूरकं विशेषयनाह - द्रुत इति । द्रुतं शीघ्रं यदागमनं तेन धूल्या रजसा धूसरमी-
षत्पाण्डुरमत एव श्यामीकृतं शरीरं यस्य सः । उत्प्रेक्षते - इतरो भिन्नो य आकार आकृतिस्तेन परिवर्तितमिव
विनिमयीकृतमिव । उज्झितो दूरीकृतो योऽङ्गरागो विलेपनं संस्कारश्चाधिवासनं ताभ्यां मलिनेन कश्मलेन वपुषा
शरीरेण विषादो हर्षा भावस्तेन कृत्वा शून्येन निस्तेजसा मुखेनाननेन चान्तर्मध्ये यद्दुःखमसातं तस्य संभार:
समूहस्तस्य पिशुनया ज्ञापिकया दृष्ट्या च चक्षुषा च दूरत एव दूरप्रदेशादेवापृष्टा मध्य प्रश्न विषयीकृतामपि कष्टं
बिद्यते यस्यां सा कष्टा ताम् । अस्त्यर्थेऽप्रत्ययः । एवंविधां कादम्बर्याः समां अवस्थां दशामनक्षरं वाग्व्यापा-
ररहितं यथा स्यात्तथावेदयन्तं ज्ञापयन्तमद्राक्षीदिति । अन्वयस्तु पूर्वमेवोक्तः ।
दृष्ट्वा चेति । दृष्ट्वा च विलोक्य च तं केयूरकं दर्शिता प्रकटिता प्रीतिः स्नेहो येनैवंभूतो दोर्भ्यां भुजाभ्यां
पर्यप्वजताश्लिष्यत् । किं कृत्वा । एत्येत्यागच्छेत्याहूयाह्वानं कृत्वा । कीदृशं केयूरकम् । ससंभ्रमेणादरेण प्रणत-
श्वासावुपसृतश्च तम् । न त्वपसरन्तमित्यर्थः । कथंभूताभ्यां दोर्भ्याम् । अतिदूरं प्रसारिते विस्तारिते ताभ्याम् ।
-
टिप्प० - 1 छत्रिकया । स्वल्पं छन्त्रम् । 2 ' कादम्बरीसमवस्थाम्' इत्येव पाठः । कादम्बर्याः समव..
स्थाम् (अवस्थितिम्) इति तदर्थः । .3 संभ्रमेण मादरेण, इत्येवो चिंतम् ।
पाठा
-१ य एव पुरुषः पुरः २ छत्रिकया. ३ अवस्थानम्. ४ अपृष्टम् ५ ससंभ्रमप्रणयप्रणत.