कादम्बरी /54
This page has been fully proofread twice.
आकुलाकुलकाकपक्षधारिणा कनकशलाकानिर्मितमप्यन्तर्गत- शुकप्रभाश्यामायमानं मरकतमयमिव पञ्जरमुद्वहता चाण्डाल- दारकेणानुगम्यमानाम्, असुरगहीतामृतापहरणकृत- [^१]कपटपटुविलासिनी [^२]वेषस्य श्यामतया भगवतो हरेरिवानुकुर्वतीम्, [^३]संचारिणीमिवेन्द्रनीलमणि [^४]पुत्रिकाम्,
[^५]गुल्फावलम्बिनीलकञ्चुकेनावच्छन्नशरीराम्, उपरिरक्तां- शुकरचितावगुण्ठनाम्, नीलोत्पलस्थलीमिव निपतितसंध्यातपाम्, एककर्णा [^६]वसक्तदन्तपत्रप्रभाधवलितकपोलमण्डलाम्, उद्य [^७]दिन्दुकिरणच्छुरितमुखीमिव विभावरीम्,आकपिलगोरोचना-
रचिततिलकतृतीयलोचना [^८]मीशानरचितानुरचितकिरातवेषा- मिव भवानीम्, उरःस्थलनिवाससंक्रान्तनारायणदेहप्रभा- [^९]श्यामलितामिव श्रियम्, कुपितहरहुताशनदह्यमानमदनधूम- मलिनीकृतामिव रतिम्, [^१०]उन्मदह [^११]लिहला[^१२]कर्षण-
[ टि ] -- म्यमानामनुव्रज्यमानाम् । केन । चाण्डालदारकेणान्त्यज- सूनुना । तमेव विशिनष्टि-आकुलेति । आकुलाकुल इतस्ततः संलग्नो यः काकपक्षः शिखा तां धत्त इत्येवंशीलस्तथा तेन । 'सा बालानां काकपक्षः शिखण्डकशिखाण्डकौ' इति कोशः । किं कुर्वता तेन । उद्वहता धारयता । किम् । पञ्जरं पक्षिरक्षणस्थलम् । अथ पञ्जरं विशेषयन्नाह - कनकेति । कनकस्य सुवर्णस्य याः शलाका इषीकास्ताभिर्निर्मितं रचितम् । कनकस्य
पीतत्वाद्बहिःपीतमपि तदन्तर्गतः शुकः कीरस्तस्य प्रभा कान्तिस्तस्या श्यामायमानं श्याममिव दृश्यमानम् । किमिव । मरकतमयमिव मरकत [^1]मश्मगर्भं तनिष्पन्नमिव । किं कुर्वतीम् । अनुकुर्वतीं सादृश्यमनुभवन्तीम् । कस्य । भगवत ऐश्वर्यवतो हरेरिव कृष्णस्येव । कथा । श्यामतया । कृष्णत्वेनेत्यर्थः । कीदृशस्य हरेः । असुरेति । असुरैर्दैत्यैर्गृहीतं यदमृतं तस्य यदपहरणमपहृतिस्तत्र कृतो विहितो यः कपटेन कैतवेन पटुः
प्रकटो विलासिनी मोहिनी स्त्री तस्या वेष आकृतिर्येन स तथा तस्य । तदुक्तम् - 'हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्' इति । पुनस्तामेव विशेषयन्नाह -
संचारेति । संचारिणी संचरणशीलां जङ्गमप्राणिरूपामिन्द्रनील- मणिपुत्रिकामिवेन्द्रमणिपाञ्चालिकामिव । गुल्फेति । गुल्फावलम्बी घुटिकावलम्बी यो नीलकञ्चुको हरितकूर्पासकस्तेनावच्छन्न- माच्छादितं शरीरं देहो यस्याः सा तथा ताम् । उपरीति । उपर्यूर्ध्व- प्रदेशे रक्तांशुकस्य लोहितवाससो रचितं कृतमवगुण्ठनं
मुखाच्छादनं यया सा तथा ताम् । पुनः प्रकारान्तरेण तामेव विशिनष्टि - नीलोत्पलेति । निपतित उपरिप्राप्तः संध्यासंबन्धी सायंकालसक्त आतपो घर्मो यस्यामेतादृशीं नीलानामुत्पलानां कुवलयानां स्थल्यकृत्रिमा तामिव । 'जानपद-' इति ङीप् । एकेति । एकस्मिन् कर्णपर्यन्तेऽवसक्तं लग्नं यद्दन्तपत्रं कर्णाभरण-विशेषस्तस्य या प्रभा कान्तिस्तया धवलितं शुभ्रीकृतं कपोलमण्डलं गल्लात्परप्रदेशो यस्याः सा तथा ताम् । अनेनावलोकनचातुरी- विशेषः सूचितः । उद्यदिन्द्विति । उद्यन्नुदयमासादयन्य इन्दुश्चन्द्रस्तस्य किरणैर्दीधितिभिश्छुरितं ध्वान्त [^2]निवृत्त्या सप्रकाशं मुखं यस्यास्तादृशीं विभावरीं रात्रिमिव । एतेन रात्रिनायिकयोर्दन्तपत्रचन्द्रयोश्च साम्यं सूचितम् । आकपिलेति । आ ईषत्कपिलं पीतरक्तं यद्गोरोचनं गोपित्तं तेन रचितं
निर्मितं यत्तिलकं पुण्ड्रं तदेव तृतीयं लोचनं यस्याः सा तथा ताम् । कामित्र । ईशानेन महादेवेन रचितो विहितस्तदनु यो रचितः किरात्या भिल्ल्या वेषो नेपथ्यं यया सैवंभूता भवानी पार्वती तामिव । श्रियमिति । श्रियं लक्ष्मीमिव । अथ लक्ष्मी विशिनष्टि - उरःस्थलेति । उरःस्थले वक्षसि यो निवासो निवसनं तेन संक्रान्तः प्रतिबिम्बितो यो नारायणस्य श्रीकृष्णस्य देहः शरीरं तस्य या प्रभा तथा श्यामलितां श्यामतां प्राप्ताम्। एतेन लक्ष्मीचाण्डालकन्यकयोः साम्यं ध्वनितम् । रतिमिति । रतिः कामस्त्री तामिव । कीदृशीम् । कुपित इति । कुपितः क्रोधं प्राप्तो यो हर ईश्वरस्तस्य हुताशन- स्तृतीयलोचनोद्गतो
[^1]F. हरिम्न्मणिः 'पन्ना' इति भाषायाम् ।
[^2]F. किरणैः छुरितं रञ्जितं मुखं यस्याहृइत्याशयः ।
[^१]G. कपटविलासिनी.
[^२]G. वेषश्यामलतया.
[^३]G. संचारिणीमिन्द्र.
[^४]G. पुत्रिकामिव.
[^५]G. आगुल्फावलम्बिना.
[^६]G. अवमुक्त.
[^७]G. इन्दुबिम्ब.
[^८]G. ईशानरञ्जनानुरचित; ईशानुरचित; ईशानाचरितानुरचित.
[^९]G. श्यामलतां.
[^१]G. उन्मत्त.
[^१]G. हलापकर्षण.
[^१]G. कर्षणप्रपलायिताम्.

[^1]F. हरि
[^2]F. किरणैः छुरितं रञ्जितं मुखं यस्या