कादम्बरी /54
This page has not been fully proofread.
चाण्डालकन्यकावर्णनम् ]
पूर्वभागः ।
आकुलाकुलकाकपक्षधारिणा कनकशलाकानिर्मितमप्यन्तर्गत शुकप्रभाश्यामायभानं मरकतम-
यमि: पञ्जरमुद्रहता चाण्डालदारकेणानुगम्यमानाम्, असुरगहीतामृतापहरणकृतकैपटपटुवि-
लासिनीवेषस्य श्यामदया भगवतो हरेरिवानुक्कुर्वतीम्, सँचारिणीमिवेन्द्रनीलमणिपुत्रिकाम्,
गुल्फावलम्बिनीलक झुकेनावच्छन्नशरीराम, उपरिरक्तांशुकरचिताव गुण्ठनाम्, नीलोत्पलस्थ-
लीमिव निपतितसंध्यातपाम्, एककर्णावसक्तदन्तपत्र प्रभाधवलितकपोलमण्डलाम्, उद्यदिन्दु-
किरणच्छुरितमुखीमिव विभावरीम्, आकपिलगोरोचनार चिततिलकतृतीय लोचनामीशानर-
चितानुरचित किरातवेषामिव भवानीम्, उरः स्थलनिवाससंक्रान्तनारायण देहप्रभाश्यामेलिता-
मिव श्रियम्, कुपितहरहुताशनदह्यमान मदनधूमस लिनीकृतामिव र तिम्, उन्मदहलिहल/कर्षण-
400
म्यमानामनुब्रज्यमानाम् । केन । चाण्डालदारकेणान्यजसूनुना । तमेच विशिनष्टि-आकुत । भाकु
लाकुल इतस्ततः संलग्नो यः काकपक्षः शिखा तां धत्त इत्येवंशीलस्तथा तेन । 'सा बालानां काकपक्षः शिख-
ण्डकशिखाण्डकौ' इति कोशः । किं कुर्वता तेन । उहता धारयता । किम् । परं परिक्षणस्थलम् । अथ
परं विशेषयन्नाह - कनकेति । कनकस्य सुवर्णस्य याः शलाका इषीकास्ताभिर्निर्मितं रचितम् । कनकस्य
पीतत्वाद्वहिः पीतमपि तदन्तर्गतः शुकः कीरस्तस्य प्रभा कान्तिस्तस्या श्यामायमानं श्याममिव दृश्यमानम् ।
किमिव । मरकतमयमिव मरकतमश्मगर्भ तनिष्पन्न मिव । किं कुर्वतीम् । अनुकुर्वतीं सादृश्यमनुभव-
न्तीम् । कस्य । भगवत ऐश्वर्यवतो हरेरिव कृष्णस्येव । कथा । श्यामतया । कृष्णत्वेनेत्यर्थः । कीदृशस्य हरेः ।
असुरेति । असुरैदैत्यैगृहीतं यदमृतं तस्य यदपहरणमपहतिस्तत्र कृतो विहितो यः कपटेन कैतवेन पटुः
प्रकटो विलासिनी मोहिनी स्त्री तस्या वेष आकृतिर्येन स तथा तस्य । तदुक्तम् - 'हरिस्त्वामाराध्य प्रणतजन-
सौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्' इति । पुनस्तामेव विशेषयन्नाह -
संचारेति । संचारिणी संचरणशीलां जङ्गमप्राणिरूपामिन्द्रनीलमणिपुत्रिका मिवेन्द्र मणिपाञ्चालिकामिव ।
गुल्फेति । गुल्फावलम्बी घुटिकावलम्बी यो नीलकन्चुको हरितकूर्पासकस्तेनावच्छन्नमाच्छादितं शरीर
देहो यस्याः सा तथा ताम् । उपरीति । उपर्यूर्ध्व प्रदेशे रक्तांशुकस्य लोहितवाससो रचितं कृतमवगुण्ठनं
मुखाच्छादनं यया सा तथा ताम् । पुनः प्रकारान्तरेण तामेव विशिनष्टि - नीलोत्पलेति । निपतित उप-
रिप्राप्तः संध्यासंबन्धी सायंकालसक्त आतपो धर्मो यस्यामेतादृशीं नीलानामुत्पलानां कुवलयानां स्थल्यकृ-
त्रिमा तामिव । 'जानपद-' इति डीप् । एकेति । एकस्मिन् कर्णपर्यन्तेऽवसक्तं लग्नं यद्दन्तपत्रं कर्णाभरण-
विशेषस्तस्य या प्रभा कान्तिस्तया धवलितं शुश्रीकृतं कपोलमण्डलं गल्लात्परप्रदेशो यस्याः सा तथा ताम् ।
अनेनावलोकनचातुरी विशेषः सूचितः । उद्यदिन्द्विति । उद्यनुदयमासादयन्य इन्दुश्चन्द्रस्तस्य किरणैदींधि-
तिभिश्छुरितं ध्वान्तनिवृत्त्या सप्रकाशं मुखं यस्यास्तादृशीं विभावरी रात्रिमिव । एतेन रात्रिनायिकयोर्दन्त-
पत्रचन्द्रयोश्च साम्यं सूचितम् । आकपिलेति । आ ईषत्कपिलं पीतरक्तं यद्गोरोचनं गोपित्तं तेन रचितं
निर्मितं यत्तिलकं पुण्ड्रं तदेव तृतीयं लोचनं यस्याः सा तथा ताम् । कामित्र । ईशानेन महादेवेन रचितो
विहितस्तदनु यो रचितः किरात्या भिल्लया वेषो नेपथ्यं यया सैवंभूता भवानी पार्वती तामिव । श्रियमिति ।
श्रियं लक्ष्मीमिव । अथ लक्ष्मी विशिनष्टि - उरःस्थलेति । उरःस्थले वक्षसि यो निवासो निवसनं तेन
संक्रान्तः प्रतिबिम्बितो यो नारायणस्य श्रीकृष्णस्य देहः शरीरं तस्य या प्रभा तथा श्यामलितां
श्यामतां प्राप्ताम् । एतेन लक्ष्मीचाण्डालकन्यकयोः साम्यं ध्वनितम् । रतिमिति । रतिः कामश्री
तामिव । कीदृशीम् । कुपित इति । कुपितः क्रोधं प्राप्तो यो हर ईश्वरस्तस्य हुताशनस्तृतीयलोचनोगतो
टिप्प० – 1 हरिम्मणिः 'पन्ना' इति भाषायाम् । 2 किरणैः छुरितं रञ्जितं मुखं यस्या हृत्याशयः ।
पाठा० - १ कपटविलासिनी २ वेषश्यामलतया ३ संचारिणीमिन्द्र ४ पुत्रिकामिव ५ आगुल्फावलम्बिना.
६ अवमुक्त ७ इन्दुनिम्बि० ८ ईशानरञ्जनानुरचित; ईशानुरचित; ईशानाचरितानुरचित. ९ श्यामलता,
१० उन्मत्त ११ हलापकर्षण १२ कर्षणप्रपलायिताम्.
o
€