This page has not been fully proofread.

५०६
 
कादम्बरी ।
 
[ कथायाम-
र मुलायमानस्यापि मर्यादावशादात्मानं स्तम्भयतः कथंकथमपि कतिपयेष्वपि सहस्रंसंख्या-
यमानेष्वतिक्रान्तेषु वासरेषु, एकदा
र्यास्तरसङ्गशीतशीकरांसारमहन्ति
 
रणरणकसकाशादिवान्तरलब्धावस्थानो निर्गत्य बहिर्नग -
कलकणितकलहंस
चक्रवाकचक्रवालाक्रान्तसरससुकुमा-
रसैकतानि सिप्रातटान्यनुसरन्, युज्यमानांश्च विरलीभवतश्च संघट्टमानांश्च विश्लिष्यतःचो-
. तसहमानांश्च लम्बमानांश्च परापततश्च विच्छिन्नपेवस्थानान्स्खलतोऽपि पततोऽव्यवसीद-
तोऽपि च यथाशक्ति सादिभिरुत्पीडितान्निः सहतया दूरागमनखेदमतित्वरया बागमनकार्य-
गौरबमावेदयतो दूरादेवातिबहूनिव तुरंगमानद्राक्षीत् ।
 
दृष्ट्वा चोत्सन्नकुतूहलतेषां परिज्ञानायान्यतमं पुरुषं प्राहिणोत् । आत्मनाप्यूरुद्नेन पयसो-
स्य । एवंभूतस्य सरित्पतेः समुद्रस्येव मर्यादावशात् । राजपक्षे कुलक्रमागत स्थितिः । समुद्रपक्षे जलागमनलक्षणा
च मर्यादा तद्वशादात्मानं स्वं स्तम्भयतो रक्षतः कथंकथमपि महता कष्टेन कतिपयेषु कियत्सु सहस्रसंख्या-
यमानेषु सहस्रसंख्या मिवाचरमाणेषु वासरेषु दिवसेष्वतिक्रान्तेषु गतेषु सत्सु एकदा एकस्मिन्समये रण
रणकै सकाशादिवौत्सुक्य पार्श्वोदिवान्तर्मध्येऽलब्धमप्राप्तमवस्थानमवस्थितिर्येनैवंभूतो नगर्या अवन्त्या बहिर्नि
गेय बहिरागत्य दूरादेव दूरत एवातिबहूनिव तुरंगमानश्वानद्राक्षीदपश्यत् । किं कुर्वन् । तरङ्गाणां वीचीनां
सङ्गः संस्पर्शस्तन शीताः शीतला ये शीकरा बातास्तवारीणि तेषामासारा वर्षणं येष्वेवंविधा मरुतो वायवो
येषु तानि । कचित् 'सीकरसाराणि' इति पाठः । कलानि मनोहराणि क्वणितानि शब्दितानि येषामेवंविधा
ये कलहंसाः कादम्बाश्चक्रवाका द्वन्द्वचरास्तेषां चक्रवालं समूहस्तेनाकान्तानि व्याप्तानि सरसानि सजलानि
सुकुमाराणि कोमलानि सैकतानि सिकतामयानि सिप्रानयात्रटानि तीराण्यनुसरजाश्रयन् । तुरंगमान्विशेष-
यन्नाह - युज्येति । युज्यमानान्परस्परं योगं प्राप्नुवतः । अविरला विरलाः संपद्यन्त इति विरलीभवत-
स्तान् । एकीभवत इत्यर्थः । संघट्टन्ते संयुज्यन्त इति संघट्टमानास्तान् । आस्फाल्य माना नित्यर्थः । विश्लि
ध्यत इति । विश्लिष्यतः । भिनीभवत इत्यर्थः । तान् । उत्सहन्त इत्युत्सहमानास्तान् । उत्साहयुक्तानि-
त्यर्थः । लम्बन्त इति लम्बमानास्तान् । खशरीरं दीर्घीकुर्वतः । परा सामस्त्येनापतन्त आगच्छन्तस्तान् ।
विच्छिन्नं विच्छेदं प्राप्त पङ्ख्या लेखयावस्थानं येषां ते तथा तान् । धावतां पङ्किविच्छेदः प्रत्यक्षसिद्ध एव ।
स्खलत इति स्खलतस्तान्स्खलनां प्राप्नुवतः । अत एव पततोऽपि गिरैतोऽपि । अत एवावसीदतोऽप्यवसादनं
प्राप्नुवतोऽपि । शक्तिमनतिक्रम्य यथाशक्ति सादिभिरश्ववारैरुत्पीडितानुत्प्राबल्येन पीडितांस्ताडितान् । सहनं
सहः निर्गतः सहो येभ्यस्ते निःसहास्तेषां भावस्तत्ता तया । असमर्थतयेत्यर्थः । दूरादागमनं तज्जनितो यः खे
प्रयासस्तमतित्वरयातिशीघेणागमनं तेन यत्कार्यस्य कृत्यस्य गौरवं गुरुत्वं चावेदयतः परेभ्यो ज्ञापयतः ।
 
C
 
दृष्ट्वा चेति । दृष्ट्वा विलोक्योत्पनं प्रकटीभूतं कुतूहलमाश्चर्य यस्यैवंभूतस्तेषां तुरंगमाणां परिज्ञानाय कस्येमे
इति ज्ञानार्थमन्यतमं पुरुषं प्राहिणोहितवान् । ऊरु परिमाणं यस्यैवंभूतेन पयसा जलेनात्मनापि सिप्रानदी-
मुत्तीर्य तस्मिन्नेव स्थले भगवतो माहात्म्यवतः कार्तिकेयस्य षण्मुखस्यायतने चैले तस्य प्रहितपुरुषस्य
 
टिप्प० - 1. टीकाकारस्य बुद्धिवैभवमेतत् । 'रणरणकव शादिवान्तरलब्धावस्थानः' इत्येव पाठः ।
उत्कण्ठावशादिव अन्तः राजभवन स्याभ्यन्तरे न लब्धमवस्थानं येन । राजभवने स्थातु मशक्नुवनित्याशयः ।
2 धन्या भाषा ! सत्यावश्यकत्वे अश्यमानानिति वक्तव्यम् ।
 
पाठा •१ अन्तरलब्ध. २ तरङ्गशीत ३ आकारमरुन्ति; असाराणि ४ नातिदूरमिव चरणाम्यामेव बभ्रामं ।
आम्यंश्च रुद्रतनया (सुता) यतनं रयेणागच्छतः सावष्टम्भया गत्या त्वरितखुरसंचारान्युज्यमानांश्च ५ पङ्किव्यवस्थानम् ;
शिव्यवस्थितान्. ६ दूरगमन.
 

 
1