This page has not been fully proofread.

५०५
 
बिरहावस्था ]
 
उत्तरभागः ।
 
एवमेव केवलं रात्रौ दिवा चाकृतंनिर्वृतिराज्वलताध्यदहनात्मकेन दहताव्यक्षतस्त्रेहेन्धनेन
दुःखानुभवनायैव भस्मसाद कुर्वता मदनदहनेनान्तर्बहिश्च काथ्यमानदेहः शोषमगात्, आ-
तां पुनः प्रतिक्षणाधीयमानवृद्धिं नात्याक्षीत् । एवं च निष्प्रतिक्रियतया दुस्त्यजतया वौतिवि-
संस्थुलेनोपास्य मानोऽपि मनसिजेनाकारमेव लोकलोचनेभ्योऽरक्षत्, न कुसुमशरसायकेभ्यो
जीवितम् । तनोरेव तानबमङ्गीचकार, न लज्जाया: । शरीरस्थितावेवानादरं कृतवान्, न कुल-
स्थितौ । प्रजा एवान्वरुध्यत, न मन्मथोत्कलिकाः । सुखमेवावधीरयामास, न धैर्यम् । एवं
चास्य पुरः कादंबरीरूपगुणावष्टम्भाहितप्राणेन बलवतानुरागेणाकृष्यमाणस्य, पश्चागुरुजनप्र-
तिबन्धहढतरेण महीयसा सेहेन च वार्यमाणस्य, गम्भीरप्रकृतेः सरिस्पतेरिव चन्द्रमसा सुदू-
S
 
एवमिति । स चन्द्रापीडो मदन एव दहनो वह्निस्तेनान्तर्हृदये बहिरवयवादौ क्वाथ्यमान उत्काल्यमानो देहः
शरीरं यस्यैवंविधः शोषं क्षीणत्वमगात्प्राप । किलक्षणः । एवमेव पूर्ववत् । रात्रौ निश्यपरं दिवा दिवसेऽकृता-
sविहिता निर्वृतिमैनःस्वास्थ्यं येन सः । किंलक्षणेन मदनदहनेन । आ समन्ताज्वलता प्रज्वलता । पुनः कीदृ-
शेन । अदहनात्मकेनावहिस्वरूपेणापि दहता भस्मीकुर्वता । पुनः कीदृशेन । न क्षतमक्षीणं स्नेहलक्षणमिन्धन-
मेधो येन स तथा सेन । पुनः किं कुर्वता । दुःखस्यासातस्यानुभवनं साक्षात्करणं तस्मै तदर्थमेव । तादर्थ्ये
चतुर्थी । सर्वं भस्म भस्मसादकुर्वताऽघटयता । शरीरव्यतिरेकेण दुःखानुभवाभावादिति भावः । शरीरशोष
आर्द्रता न भवतीत्याशयेनाह - न पुनरिति । न पुनरार्द्रतां मृदुतां स्नेहवत्तां वाऽत्याक्षीत्तत्याज । आर्द्रतां
विशेषयाह-प्रतीति । प्रतिक्षणं प्रतिसमयमाधीयमानारोष्यमाणा वृद्धिर्यस्याः सा ताम् । एवं चेति ।
स लोकानां जनानां लोचनानि नेत्राणि तेभ्य आकार मिङ्गितमरक्षक्षयामास । परं कुसुमशरः कामस्तस्य
सायका बाणासेभ्यो जीवितं प्राणितं नारक्षत् । किंविशिष्टः सः । उपास्य मानोऽपि सेव्यमानोऽपि । केन ।
मनसिजेन कामेन । किंलक्षणेन । अतिविसंस्थुलेनातिव्याकुलेन । वीक्षापनेनेति यावत् । तन्निदानमाह - नि
प्रतीति । निर्गता प्रतिक्रिया प्रतीकारो यस्यां क्रियायां तस्या भावस्वत्ता तथा । दुःखेन त्यज्यत इति दुस्त्य-
जस्तस्य भावस्तत्ता तया वा । तनोरेवेति । तनोः शरीरस्य तानवं कृशत्वमङ्गीचकार स्वीचक्रे । न लजाया-
खपायाः । लज्जाधिक्यमेवाङ्गीकृतवानिति भावः । शरीरेति । शरीरस्य देहस्य स्थितिर्धारणं तस्यामेवानादर-
णमनाग्रहं कृतवान् । न कुलस्याभिजनस्य स्थितौ मर्यादायाम् । प्रजा इति । प्रजा एव प्रकृतिरेवान्वरुध्यत
न्यवार्यत । न मन्मथस्य कंदर्पस्योत्कलिका उत्कण्ठाः । सुखमिति । स चन्द्रापीडः सुखमेव सौख्यमेवावधी-
रयामासावगणयामास । न धैर्यं न साहसम् । एवं चेति । एवं पूर्वोक्तप्रकारेणास्य चन्द्रापीडस्य कादम्बर्या रूप
सौन्दर्य गुणो गाम्भीर्यादिस्तयोरवष्टम्भेनावलम्बे नाहिताः स्थापिताः प्राणा येनैवंभूतेन बलवता बलिष्ठेनानुरागे-
गाभ्यन्तरलेहेन पुरोऽम आकृष्यमाणस्य हठान्नीयमानस्य, गुरुजनो मातृपित्रादिस्तस्य प्रतिबन्धः प्रतिरोधस्तेन
दृढतरेणातिनिबिडेन महीयसातिमहता स्नेहेन प्रीत्या च पश्चात् पृष्ठे वार्यमाणस्य पृष्ठे निषिध्यमानस्य । केन कस्येव
चन्द्रमसा शशिना सुदूरमति विप्रकृष्ट मुल्ला स्यमानस्यापि गम्भीरप्रकृतेरलब्धमध्यस्य । राजपक्षे गम्भीर स्वभाव-
Com
 
टिप्प० -1 आकारम् भाकृतिम् विरहसूचिकामाकृतिं न प्रकटयामासेति तात्पर्यम् । 2 सेयं ठीका-
कारस्य बुद्धिः । न किल विरहिणां सेवकभावमङ्गीकरोति कामः । अत एव 'आयास्यमानः' इत्येव पाठः ।
खेद्यमान इति तदर्थः । 3 अतिविषमेण ( दारुणेन ) इत्यर्थः । 4 न बराकोऽर्थमबुध्यत । कर्मणि प्रत्ययः
अत एव 'अन्वरुध्यन्त' इत्येव पाठः । चन्द्रापीडेन प्रजा एव अम्वरुध्यन्त अकाम्यन्त अर्थात् प्रजाना-
मेवाऽनुरोधः कृतः, न मन्मथोत्कण्ठानामिति सदाशयः ।
 
पाठा० - १ निर्वृतिना. २ दुःखानुभावनायेव. ३ चाति ४ आयास्यमानोऽपि, ५ कुलक्रमस्थितौ ६ अन्वरुध्यन्त.
७ कृष्यमाणस्य. ८ गम्भीर,
 
६४ का०