This page has not been fully proofread.

५०४
 
कादम्बरी ।
 
[ कथाबाम्-
मदात् । अनवरतमुक्तज्वालेन मदनहुतभुजान्तर्दह्यमानोऽपि गुरुजनत्रपया न सद्यः समुद्धृता-
द्वारविन्दशयनमभजत । न सरसंबिसलताजा लकानि गात्रेध्वकरोत् । न जललवमौक्तिकक्षो-
दतार कितान्यजरठपद्मिनीपत्राणि पार्श्वेऽप्यकारयत् । न कुसुमपल्लवस्त्रस्तररचनामादिदेश ।
नानवरतधारापातोल्लसितशिशिरसीकराबद्धदुर्दिनं ददर्शापि धारागृहम् । न मैकरन्दसंततसं-
पातशीतलाभ्यन्तराणि हयद्यानलताभवनान्यप्यसेवत । न मलयजजलललितपृष्ठेषु मणिकु-
ट्टिमेष्वप्यलुठदिच्छया । न तुहिनकर करनिकरसंक्रान्तियेषु ललनाकरकलित चन्द्रकान्तम-
णिदर्पणेष्वप्यसंऋामयदात्मसंपातम् । किं बहुना, नाश्यानहरिचन्दनरसचर्चामप्याचरणा-
ददापयत् ।
 
त्प्रेक्षते- -भावस्य चित्ताभिप्रायस्यावगमो ज्ञानं तस्माद्भीतिर्भयं तयेव, यदि कश्चिद्विलोकयिष्यति तदा ज्ञास्यत्येष
विरहादेवंभूत इति भीत्येवेत्यर्थः । स चन्द्रापीडः सद्यस्तत्क्षणं समुद्धृतान्युत्खातान्यार्द्राणि जलक्लिन्नानि यान्य-
रविन्दानि कमलानि तेषां शयनं शय्यां नाभजत नाशेरत । कया । गुरुजना मातृपित्रादयस्तेषां त्रपा लज्जा
तयेति सर्वत्र वक्ष्यमाणेषु संबन्धनीयम् । भृशं तापो न भविष्यतीत्याह – अनेति । किंकुर्वाणोऽपि । दय-
मानोऽपि । कथम् । अन्तर्मध्ये । केन । मदनहुतभुजा कंदर्पवहिना । कीदृशेन । अनवरतं मुक्ता ज्वाला येनै-
वंभूतेत्यर्थः । नेति । सरसानि जलार्द्राणि बिसानि मृणालानि तेषां लता वल्लयस्तेषां जालकानि समूहा गात्रे-
ध्वङ्गेषु नाकरोन्नान्वतिष्ठत् । पूर्वोक्तहेतोरेवेति भावः । नेति । जललवा अम्भो (द) बिन्दवस्त एव मौक्तिकक्षोदास्तै-
तारकतानि तारावंदाचरितानि यान्यजरठानि कोमलानि पद्मिनीपत्राणि नलिनीदलान्यपि । व्यस्तक्रमोऽत्रापि-
शब्दः । पार्श्वे पृष्ठे नाकारयत् । सेवकैरिति शेषः । नेति । कुसुमानां पलवाः प्रत्यप्रदलानि, कुसुमानि च पल्लवा-
श्चेति द्वन्द्वसमासो वा, तेषां स्रस्तरस्तस्य रचनां नादिदेश नादिष्टवान् । नेति । स चन्द्रापीडो धारागृहमपि न
ददर्श नाद्राक्षीत् । किंलक्षणं धारागृहम् । अनवरतं निरन्तरं धारापातेनोल्लसिता ये शिशिराः शीतलाः सीकरा
घातास्तजलविप्रुषस्तराबद्धं दुर्दिनं भेघजं तमो यस्मिंस्तत्तथा । नेति । स चन्द्रापीडो हर्म्येषु गृहेषु यदुद्यानं
तस्य लता वल्लयस्ता एव भवनानि गृहाण्यपि नासेवत नाभजत । किंलक्षणानि । मकरन्दस्य मरन्दस्य संतत
निरन्तरं संपातः संपतनं तेन शीतलानि शिराण्यभ्यन्तराणि मध्यभागा येषां तानि । न मलयजेति ।
स मणीनां कुट्टिमानि बद्धभूमिकानि । 'कुट्टिमं त्वस्य बद्धभूः' इमि हैमः । तेष्वपीच्छयेहया नालुठन्नाशेरत ।
किंलक्षणेषु । मलयजस्य चन्दनस्य जलं पानीयं तेन लुलितान्याद्रकृतानि पृष्ठानि येषां तेषु । नेति । स
ललनानां योषितां करास्तैः कलिता धृता ये चन्द्रकान्तमणिभिः खचिता दर्पणा आदर्शास्तेष्वप्यात्मनः खस्य
संपातं प्रतिबिम्बं न संक्रामयन्न संक्रामणमकारयत् । किंलक्षणेषु । तुहिनकरश्चन्द्रस्तस्य करनिकरः किरणसमूह-
स्तस्य संक्रान्तिः संक्रमस्तया हृद्या मनोहरास्तेषु । किं बहुनेति । किंबहुना किं बहुजल्पितेन । चरणौ
मर्यादी कृत्याचरणं तस्मादाश्यानमीषच्छुष्कं यद्धरिचन्दनं तस्य रसस्तेन चर्चा पूजा तामपि नादापयद्दातुं न
प्रेरयति स्म ।
 
टिप्प० – 1 समूहान् इत्याशयः । 2 पद्मिनीपत्राणि न तारावदाचरितानि । अत एव जललव-
मौक्तिकक्षोदै: तारकितानि ( संजाताः तारका येषु तानि ) इतच् । 3 समीपे इत्युचितम् । 4 आत्मनः
संतापं तेषु न संक्रामयामासेति 'संतापम्' इति पाठ उचितः प्रतिभाति । चन्द्रकान्तसान्निध्यात्तापस्य
लाघवमिति । 'असंक्रामयत्' इति तु मन्ये लेखकदोष: स्यात्, अन्यथा 'समक्रामयत्' इत्युचितम् ।
 
पाठा० -१ जालानि, २ अजठर; जरठ. ३ निपात ४ मकरन्दसंपात, ५ तुहिनकरनिकर ६ संतापम्.