This page has not been fully proofread.

चन्द्रापीडस्य विरहावस्था ]
 
उत्तरभागः ।
 
५०३
 
एवात्मानमन्तरेऽर्पितवान् । 'एवमम्लानमालतीकुसुमकोमलतेनौ निर्घृणं प्रहरन्न लज्जसे' इत्यु -
पालभमान इव दिवसमुत्तरलतारयान्तर्बाप्पया दृष्ट्या कुसुमचापम्, पुनः स्मरशरप्रहारमूच्छि-
तां संज्ञामिव लम्भयितुं तामवयवैरुवाह स्वेदजललैवानुत्ससर्ज च दीर्घदीर्घान्निःश्वासमारु-
तान् । तचेतनालम्भमुदित इव च सर्वाङ्गीणं क्षणमपि न मुमोच रोमाञ्चम् । सह्यते हृदयेन
वेदना न वेति तद्वार्ता प्रष्टुमिव नियुक्तेन मनसा शून्यतामधार्षीत् । तत्प्रतिवार्ताकर्णनायेव
च गृहीतमौनः सर्वदैवातिष्ठत् । तदाननालोकनान्तरितमिव सर्वमेव नाद्राक्षीत् । चन्द्रबि-
म्बेऽपि नास्य दृष्टिररमत । तदालापपूरितश्रोत्रेन्द्रिय इव न किंचिदंपरमन्तःकर्णं कृतवान् । वी-
णाध्वनयोध्यस्य बहिरेवासन् । सुभाषितान्यपि न प्रवेशमलभन्त । सुहृद्वाचोऽपि परुपा इवा-
भवन् । बान्धवजनजल्पितान्यपि नासुखायन्त । भावावगमभीत्येव यथापूर्वं न कस्यचिदर्शन-
-
 
स्तल एव तद्दिवसादेवात्मानमन्तरे मध्येऽर्पितवान्दत्तवान् । एवमिति । अम्लानं सवस्कं यन्मालयाः कुसुमं
पुष्पं तद्वत्कोमला सुकुमारा या तनुः शरीरं तस्यां निर्घृणं निष्कृपमेवममुना प्रकारेण । दिवसमित्युपलक्षणमहो-
रात्रस्य । तेनाहोरात्रं प्रहरंस्ताडयन्न लजसे न त्रपां प्राप्नोषि । उत्प्राबल्येन तरला चञ्चला तारा कनीनिका यस्यां
सा तया । अन्तर्मंध्ये बाष्पोऽश्रु यस्यामेवंविधया दृष्ट्या नेत्रेण कुसुमचापं कंदर्पमित्युपालभमान इवोपालम्भ
ददान इव । एतेनात्यन्तदैन्यमाविष्कृतम् । स्वेदो घर्मस्तदेव जल तस्य लवा विप्रुषस्तानवयवैरुपघ्नैरुवाहाव-
हत् । च पुनरर्थे । अतिशयेन दीर्घा दीर्घदीर्घास्तानेवंभूतान्निःश्वासमारुतानुत्ससर्जोन्मुमोच । किं कर्तुम् ।
उत्प्रेक्षते – पुनर्वारंवारं स्मरस्य शरा बाणास्तैः प्रहारस्ताडनं तेन मूच्छितां मोहप्राप्तां तां कादम्बरी संज्ञां
चेतनां लम्भयितुमिव प्रापयितुमिव । यथान्यः कश्चिन्मूच्छितस्य स्वेदजललववत्स्वल्पजलं निःश्वाससमानमारु-
तांश्च मुञ्चतीति वस्तुगतिः । स चन्द्रापीडः सर्वाङ्गे भवः सर्वाङ्गीणस्तं रोमाञ्चं रोमोद्गमं क्षणमपि न मुमोच ।
क्षणमात्रं तद्विरहितो नाभूदित्यर्थः । उत्प्रेक्षते - तस्याः कादम्बर्याश्चेतना चैतन्यं तस्या आलम्भः प्राप्तिस्तेन
मुदित इव हर्षित इव । सह्यत इति । स मनसा शून्यतामधार्षद्वभार । किंलक्षणेन मनसा । तस्यै काद-
म्वर्यै इति वार्ता प्रष्टुं नियुक्तेनेव प्रेषितेनेव । इतीति किम् । हृदयेन वेदना पीडा सह्यते न वेति । तदिति ।
गृहीतं मौनमभाषणं येनैवंविधः सर्वदा निरन्तरमतिष्ठदस्थात् । उत्प्रेक्षते - तस्याः कादम्बर्याः प्रतिवार्ता प्रत्यु-
त्तरं तस्या आकर्णनायेव । श्रवणायेवेत्यर्थः । तदाननेति । स सर्वमेव नाद्राक्षीन्नापश्यत् । किंलक्षणं सर्वम् ।
उत्प्रेक्षते—तस्या आननं मुखं तस्यालोकनं वीक्षणं तेनान्तरितमिव व्यवहितमिव । चन्द्रबिस्व इति । चन्द्रवि-
म्बेsपि शशिमण्डलेऽप्यस्य चन्द्रापीडस्य दृष्टिश्चक्षुर्नारमत न चिरमस्थात् । विरहोत्कर्षे तापकारित्वात् । तदा-
लापेति । स चन्द्रापीड: किंचिदप्यपरं शब्दजातं कर्णस्यान्तरन्तःकर्ण न कृतवान् । द्विकर्मकोऽयं धातुः । उत्प्रे
क्षते-
1- तस्याः कादम्बर्या आलापस्तेन पूरितं भृतं श्रोत्रेन्द्रियं यस्यैवविध इव । कर्णानां करणत्वं दर्शयन्नाह -
वीणेति । वीणानां वल्लकीनां ध्वनयः शब्दा अस्य चन्द्रापीडस्य बहिरेव बाह्यभूता एवासन्नभूवन् । सुभाषि-
तानीति । सुभाषितानि समीचीनोक्तयस्तान्यपि प्रवेशं मध्यगमनावकाशं नालभन्त न प्राप्नुवन् । सुहृदिति ।
सुहृदां मित्राणां वाचो वाण्योऽपि परुषा इव कठिना इवाभवन् । बान्धवेति । बान्धवजनस्य बन्धुलोकस्य
जल्पितान्यपि कथितान्यपि नासुखायन्त । सुखमिवाचरन्ति सुखायन्ते अद्यतन्यामात्मनेपदेऽसुखायन्त इति
रूपम् । भाव इति । यथा येन प्रकारेण पूर्व विरहदशाया अर्वाग्दर्शनं नादानं ददौ तथेदानीमपि । तत्रो-
टिप्प० - 1 विभिन्नवचनयोः कोयमुपमानोपमेयभावः ? कश्चार्थ : ? अस्तु. सुखं वेदयन्ते सुखायन्ते
इति विग्रह उचितः । 'सुखादिभ्यः कर्तृवेदनायाम्' इति क्यङ् । अद्यतन्यामित्यपि प्रलापः, शुकोक्तौ
कृवेरुक्तौ वा नेयमद्यतनी घटना । 2 धन्या बुद्धिः ! विरहदशायाः पूर्व यथा दर्शनमदात् तथा इदानीं
म ददाविसर्थः ।
 
पाठा० - १ तनो:. २ अन्तर्वापाया; खुतबाष्पार्द्रया. ३ लवम् ४ हृदयवेदना ५ चास्य दृष्टिर्नारमत.
६ परिपूरित ७ किंचिदपि.