This page has not been fully proofread.

૧૦૨
 
कादम्बरी।
 
[ कथायाम-
मन्दमावातुमारब्धे प्रदोषानिले च, शयनवर्ती निमीलित लोचनोऽप्यप्राप्त
निंद्रा विनोदो हेमकूटा-
गमनखेदान्निपत्य विश्रान्तेनेव पादपल्लवच्छायायाम, जानुरोधरोहिणा लग्नेनेव संहतेयोरूर्वोः,
उल्लिखितेनेव विस्तारिणि नितम्बफलके, मनेनेव नाभिमुद्रायाम् उल्लसितेनेव रोमराव्याम्,
आरूढेनेव त्रिवलिसोपानहारिणि मध्यभागे, कृतपदेनेवोन्नतिविस्तारशालिनि तनतटे, मुक्ता-
त्मनेव बाह्रोः कृतावलम्बनेनेव हस्तयोः, आलिष्टेनेव कण्ठे, प्रविष्टेनेव कपोलयोः, उत्कीर्णेने-
वाधरपुढे, प्रथिनेतेव नासिकासूत्रे, समुन्मीलितेनेव लोचनगोः, स्थितेनेव ललाटशालायाम्
अन्वितेनेव चिकुरभारान्धकारे, लवमानेनेव सर्वदिक्पथप्लाविनि लावण्यपूरलवे मनसा
सस्मार स्मरायतनभूतस्य कादम्बरीरूपस्य ।
 
,
 
.9
 
उत्पन्नात्मीयबुद्धिश्च निर्भरस्नेहार्द्रचेतास्तत एव वासरादारभ्य तां प्रति गृहीतरक्षापरिकर
इव यतो यत एव मण्डलितकुसुमकार्मुकं मकरध्वजमस्यां प्रहरन्तमालोकितवान्, ततस्तत
 
-
 
शयने शय्यायां वर्तत इत्येवंशीलः स तथा । पुनः कीदृक् । निमीलिते मुद्रिते लोचने नेत्रे येन स तथा ।
एवंविधोऽप्यप्राप्तोऽलब्धो निद्रायाः प्रमीलाया विनोदः सुखं येन स तथा । इतो मनो विशेषयन्नाह - हेमकूट
इति । हेमकूटादागमनं तस्माद्यः खेदः परिश्रमस्तस्मान्निपत्य पादावेव पल्लवौ तयोरछायातपाभावस्तस्यां विश्रा -
न्तेनेव गृहीतविश्रामेणेव । जङ्घा नलकीलिनी तामनुरुणद्धीत्येवंशीलो जङ्घानुरोधी जङ्घानलकीलस्तं रोहतीत्येवं-
शीलं तत्तथा तेन संहतयोर्मिलितयोरूर्वोः सक्नोलनेनेव मिलितेनेव । विस्तारिण्यायते नितम्बावेव फलकं
तस्मिन्नुलिखितेनेव चित्रितेनेव । नाभिस्तुन्दकूपिका तस्य मुद्राकृतिविशेषस्तस्यां मनेनेव ब्रुडितेनेव । रोम-
राज्यां तनूरुहश्रेण्यामुल्लसितेनेवोच्छ्रसितेनेव । तथा त्रिवलिरेव सोपानानि तैर्हारिणि मनोहरे मध्यभागे बलम-
प्रदेश आरूढेनेवोपविष्टेनेव । उन्नतिरुच्चता, विस्तारो विस्तीर्णता, ताभ्यां शालत इत्येवंशीलं यत्स्तनतटं कुच
एंव तटं तस्मिन्कृतपदेनेव विहितस्थानेनेव । बाह्वोर्भुजयोर्मुक्तात्मनेव संस्थापितजीवेनेव । हस्तयोः करयोः
कृतावलम्बनेनेव विहितालम्बनेनेव । कण्ठे निगरण आश्लिष्टेनेवालिङ्गितेनेव । कपोलयोर्गल्लात्पर प्रदेशयोः प्रवि-
टेनेव कृतप्रवेशेनेव । अधरपुट ओष्ठपुट उत्कीर्णेनेवोल्लिखितेनेव । नासिका नासैव सूत्रं तस्मिन्प्रथितेनेव
गुम्फितेनेव । लोचनयोर्नेत्रयोः समुन्मीलितेनेव विकसितेनेव । ललाटशालायामलिक गृहैकदेशे स्थितेनेवोपवि
ेनेव । कृतावस्थानेनेवेत्यर्थः । चिकुरभारः केशकलापः स एवान्धकार तिमिरं तस्मिन्नन्वितेनेव सहितेनेव ।
सर्वदिक्पथानि प्लावयतीत्येवंशीले लावण्यपूरलवे चातुर्यपूरप्रवाहे लवमानेनेव स्नानं कुर्वाणेनेव ।
 
उत्पन्न इति । च पुनस्तत एव वासराद्दिवसादारभ्य मर्यादीकृत्योत्पन्ना संजातात्मीया मदीयत्वलक्षणा.
बुद्धिर्यरयां सा तथा । निर्भरः प्रबलो यः स्नेहः प्रेमा तेनार्द्र चेतो यस्यैवंभूतः कुमारस्तां प्रति कादम्बरीं प्रति गृहीत
आत्तो रक्षार्थं परिकरः परिच्छदो येनैवंभूत इव । यतो हेतोर्यत एव यस्मादेव मण्डलितं वक्रीकृतं कुसुमका-
किं पुष्पचापं येनैवंभूतं मकरध्वजं कंदर्पमस्या कादम्बर्या प्रहरन्तं ताडयन्तमालोकितवान्दृष्टवान् । ततो हेतो
 
टिप्प० - 1 मुक्तः आत्मा स्वस्वरूपं येन तेनेव । बाह्वोर्मध्ये मनः स्वं मुक्तवदित्यर्थः । मनसो
विकल्पनाऽनुचिता । 2 'यतो यतः, ततस्ततः' इति वीप्साया हदमेव तात्पर्य यत् यस्मिन् स्थाने
वकाशे वा दृष्टवान् तस्मिन्नेव, अर्थात सर्वत्रैवेति । टीकाकारचूडामणिस्तु तदिदमस्पृशन्नेव विस्वरं
लिपति । अहो धन्यं साहसं टीकाकरणे ! ।
 
पाठा० -- १ अनुरोधरोहिणा; अनुसाराधिरोहिणा, २ सुसंहतयो: ३ लिखितेनेव ४ सर्वतः ५ लावण्य पयः पूर..
 
I
 
समुत्पन्न.