कादम्बरी /534
This page has not been fully proofread.
चन्द्रापीडस्य मनसि विचारः]
उत्तरभागः ।
५०१
मागता राजानः, जीवितफलं प्रियतमामुखावलोकनम्, अनुरक्ताः प्रजाः, गरीयान्गन्धर्वरा-
जसुतानुरागः, दुस्त्यजा जन्मभूमिः, परिग्राह्या देवी कादम्बरी, कालातिपातासहं मनः, विप्र-
कृष्टमन्तरं हेमकूटविन्ध्याचलयोः' इत्येवं चिन्तयन्त्रेव प्रतीहार्योपदिश्यमानमार्गः पत्रले-
खाकरावलम्बी जननीसमीपमगात् । तत्रैव च तमनेकप्रकारजननीलालन सुखाचिन्तितदुर्वि-
षहहृदयोत्कण्ठं दिवसमनयत् ।
उपनतायां चात्मचिन्तायामिवान्धकारितदशदिशि शर्वर्याम्, अनिवार्य विरह वेदनोन्मध्य-
मानमानसाकुलेषु कलकरुणमुचैर्व्याहरत्सु चक्रवाकयुगलेषु, उत्तेजित स्मरेशरं समुत्सर्पमाणेषु
चन्द्रमसोऽकोल्लधूलिधूसरालोकेष्वप्रमयूखेषु, विजृम्भमाणकुमुदिनीश्वासपरिमलग्राहिणि मँन्द
राजानो भूभुजो मुखमाननमवलोकयन्तीत्येवंशीला मुखावलोकिनो वक्रवीक्षकाः । प्रियतमाः स्त्रियस्तासां मुखा-
बलोकनं वक्रवीक्षणं जीवितस्य प्राणितस्य फलं साध्यम् । प्रजा जनपदवासिनो जना अनुरक्ता अनुरागिणः ।
गन्धर्वराजसुता कादम्बरी तस्यां तस्या वानुरागः स्नेहो गरीयानतिशयेन गुरुः । दुस्त्यजा दुःखेन मोक्तुं शक्या
जन्मभूमिर्जन्मनः खोत्पत्तेर्भूमिः स्थलम् । तदुक्तमन्यत्र - 'जणणी जम्मुप्पत्ती पच्छिमनिद्दा सुभासियं वयणं ।
मणइठ्ठ माणुस्सं पंच वि दुक्खेहिं मुचंति ॥' जननी जन्मोत्पत्तिः पश्चिमनिद्रा सुभाषितं वचनम् । मनसेष्टो
मनुष्यः पञ्चापि दुःखाद्विमुच्यन्ते इति । कादम्बरी देवी परिग्राह्या परिणेतुं योग्या । कालस्यानेहसोऽतिपातो
विलम्बस्तं न सहतीत्येवंशीलं मनः खान्तम् । तदीय मिति शेषः । हेमकूटविन्ध्याचलयोरन्तरं विचालं विप्रकृष्टं
दूरम् । इत्येवं चिन्तयन्नेव विमृशन्नेव प्रतीहार्या द्वारनियुक्तयोपदिश्यमानः कथ्यमानो मार्गः पन्था यस्यैवंभूतः
पत्रलेखायाः करं हस्तमवलम्बत इत्येवंशीलः स तथा जनन्या मातुः समीपमभ्यर्णमगादगमत् । तत्रैव मातुः
समीपे तं दिवसं वासरमनयन्निनाय । कीदृशं दिवसम् । अनेकप्रकारं बहुविधं जनन्या मातुर्लालनसुखं तेना-
चिन्तिताविज्ञाता दुर्विषहहृदयोत्कण्ठा यस्मिन्स तथा ।
।
-
रात्रौ विशेषं प्रदर्शयन्नाह - उपेति । उपनतायां च प्राप्तायां च शर्वर्या रजन्याम् । कृष्णत्वसाम्यादाह -
आत्मचिन्तायामिव चन्द्रापीडो मनसा मनोव्यापारेण स्परस्य कंदर्पस्यायतनभूतं सतां गतं प्राप्तं यत्कादम्बरी -
रूपं तस्य सस्मार । 'स्मृतौ च' इति सूत्रेण कर्मणि षष्ठी । शर्वरीं विशेषयन्नाह - अन्धकारितेति । अन्ध-
कारिता अन्धकार प्रापिता दशदिशो यस्यां सा तस्याम् । केषु सत्सु । चक्रवाकयुगलेषु द्वन्द्वचरमिथुनेषु सत्सु ।
किंकलं मधुरं करुणं दीनं यथा स्यात्तथोचैरुच्चस्वरेण व्याहरत्सु ब्रुवत्सु । कीदृशेषु । अनिवार्या निवार-
यितुमशक्या या विरहवेदना वियोगपीडा तयोन्मथ्यमानानि पीड्यमानानि मानसानि चेतांसि येषां तानि
तत्तथा तेषु । पुनः केषु सत्सु । उत्तेजिता निशिताः स्मरशराः कंदर्पवाणा यैरिति क्रियाविशेषणम् । चन्द्रमसः
शशिनोकोल्लस्य वृक्षविशेषस्य धूलिः परागस्तद्वद्धूसर ईषत्पाण्डुर आलोकः प्रकाशो येषां ते तथा तेषु । एवं-
विधेषु समुत्सर्पमाणेषु विस्तरत्वग्रमयूखेषु प्रधानकिरणेषु । पुनः कस्मिन्सति । प्रदोषो यामिनीमुखं तस्या-
निले वायौ मन्दं मन्दं शनैः शनैरावातुं प्रचलितुमारब्धे सति । किंलक्षणे प्रदोषानिले । विजृम्भमाणा विक-
सन्त्यो याः कुमुदिन्यतासां श्वास्येव यः परिमलस्तं गृह्णातीत्येवंशीलः स तथा तस्मिन् । किंलक्षणश्चन्द्रापीडः ।
टिप्प० -1 प्रियतमायाः (कादम्बर्याः) मुखावलोकनमित्युचितम् । 2 मदीय मित्येवोचितम्, स्वस्यैव
कथायाः प्रक्रान्तत्वात् । 3 उन्मध्यमानमानसाश्च ते आकुलाश्च तेषु, अथवा विरहवेदनया उन्मथ्यमानेन
मानसेन आकुलेष्वित्युचितम् । 4 'उत्तेजितस्मरशरसमुत्सर्पणेषु' इत्येव पाठो मनोरमः । न हि टीकाकार
हवाऽवैयाकरणो मूलकारः । 'गम्ल सृष्ल गतौ' इति धातुपाठात् परस्मैपद्येव 'सृप्' धातुः । उत्तेजिताः
स्मरशरा येन तादृशं समुत्सर्पणम् (समुदयः) येषां तेषु सत्सु इति तदर्थः । 5 विकासस्येव, इति तास्पर्यम् ।
पाठा०-१ अनुरक्ता प्रजा. २ भूमी. ३ वर्मा० ४ अचेतितम् ५ शर. ६ मन्दमन्द,