कादम्बरी /533
This page has not been fully proofread.
५००
कादम्बरी ।
[ कथायाम्-
देवी' इत्येवं वदत्येव चन्द्रापीडेऽश्रावितैव प्रविश्य नेत्रहस्ता प्रतीहारी कृतप्रणामा व्यज्ञापय-
त्- "- 'युवराज, एवं समादिशति देवी विलासवती, कृतजल्पात्परिजनतः श्रुतं मया, यथा किल
पृष्टतः स्थिताऽद्य पत्रलेखात्र पुनः परागता' इति । न च मे त्वथ्यस्यां च कश्चिदपि स्नेहस्य
विशेषो विलसतीति मयैवेयं संवर्धिता । अपि च तवापि कापि महती बेला वर्तते दृष्टस्य ।
तदनया सहित एवागच्छ । मनोरथशतलब्धमतिदुर्लभं ते मुखकमलावलोकनम्" इति ।
चन्द्रापीडस्तु तदाकर्ण्य चेतस्यकरोत् - 'अहो संदेहदोलाधिरूढं मे जीवितम् । एवमम्बा
निमेषमपि मामपश्यन्ती दुःखमास्ते । पत्रलेखामुखेन चैवमाज्ञापितमागमनाय मे निष्कारण-
वत्सलेन देवीप्रसादेन । ओजन्मक्रमाहितो बलवाञ्जननीस्त्रेहः, वाञ्छाव्याकुलं हृदयम्, अ-
मोच्यं तातचरणशुश्रूषासुखम् । प्रमाथी मन्मथहतकः, हारिणी गुरुजनलालना, दुःसहान्यु-
त्कण्ठितानि, अनुबन्धिनी बान्धवप्रीतिः, कुतूहलिन्यभिनवप्रार्थना, मुखावलोकिनः कुलक-
--
किं कुर्वाणः प्राणैरप्युपयुज्यमानस्तदीप्सितं कुर्वाणः । इत्येवं चन्द्रापीडे वदत्येव कथयत्येव प्रतीहारी
द्वारपालिका कृतः प्रणामो ययैवंभूता मातृपरिजनत्वेन कुमारप्रतीहार्यऽश्रावितैवानिवेदितैव प्रविश्य प्रवेशं कृत्वा
व्यज्ञापयद्विज्ञप्तिमकार्षीत् । कीदृशी । वेत्रं हस्ते यस्याः सा । हे युवराज, देवी विलासवत्येवं समादिशत्याज्ञाप-
यति । एवं किमित्याह - कृतेति । कृतो विहितो जल्पोऽन्योन्यालापो येनैवंविधात्परिजनतः सेवकवर्गान्मयेति
श्रुतमित्याकर्णितम् । इतीति किम् । तदेव दर्शयति - यथेति । किलेति सत्ये । पृष्ठ इति पृष्ठतः । तस्प्रत्य-
यस्य सार्वविभक्तिकत्वात् । स्थिता विलम्बिता पत्रलेखाद्यास्मिन्नहन्यत्रास्मिन्प्रदेशे पुनः परागता प्रत्यावृत्य
समागता । पुनः किं समादिशतीत्याह – न चेति । मे मम त्वयि भवत्यस्यां पत्रलेखायां चेति हेतोः
प्रेम्णः कश्चिदपि विशेषो न विलसति । न वर्तत इत्यर्थः इतीति किम् । यत इयं पत्रलेखा मयैव संवर्धिता
वृद्धिं प्रापिता । एतेनोभयोरपि मयैव प्रवर्धनात्त्वयि तस्यां च मम स्नेहः समान एवास्तीति ध्वन्यते । पुनः किं
समादिशतीत्याह – अपि चेति । अपि च प्रकारान्तरे । तवापि भवतोऽपि दृष्टस्यावलोकितस्य कापि महती
गुर्वी वेला कालविशेषो वर्तते । तत्तस्माद्धेतोरनया पत्रलेखया सहित एव समन्वित एवागच्छेहि । त्वमिति
शेषः । यतस्ते तव मुखमेव कमलं तस्यावलोकनं वीक्षणमतिदुर्लभमतिदुःप्रापम् । कीदृशम् । मनोरथानां
समीहितानां शतैर्लब्धं प्राप्तम् ।
।
तु पुनश्चन्द्रापीड स्तत्पूर्वोक्तमाकर्ण्य श्रुत्वा चेतस्यकरोदचिन्तयत् । एवं किमित्यत आह - अहो इति । अहो
इत्याश्चर्ये । मे मम जीवितं प्राणितं कादम्बरीसमीपे व्रजामि उत मातुः संनिधाविति संशयो द्वापरः स एव दोला
दोलनं तामधिरूढमाश्रितम् । कथमित्याह -- अम्बेति । एवं अम्बा विलासवती निमेषमपि निमीलितमात्र-
मपि मां चन्द्रापीडमपश्यन्त्यनवलोकयन्ती दुःखं यथा स्यात्तथास्ते तिष्ठति । तथा निष्कारणं निर्निमित्तं वत्स-
लेन हितकारिणा देव्याः कादम्बर्याः प्रसादेनानुग्रहेण पत्रलेखामुखेन च पत्रलेखावाक्येन च मे ममागमना-
यैवमाज्ञापितम् । आजन्मक्रमेति । जनन्या मातुः स्नेहो बलवान्बलिष्ठः । कीदृक् । आजन्मतो जन्म मर्या-
दीकृत्य क्रमेण मर्यादयाहित आरोपितः । जन्ममर्यादयारोपितत्वमेवास्य विशेषः । विशेषादत्रैव स्थातुमुचित
मित्याशयः । हृदयं चेतो वाञ्छाभिरिच्छाभिर्व्याकुलम् । तातस्य पितुश्चरणौ पादौ तयोः शुश्रूषा सपर्या तस्याः
सुखभमोच्यं न मोक्तुं योग्यम् । मन्मथहतकः कंदर्पहतकः प्रम नातीत्येवंशीलः प्रमाथी । चित्तोद्वेगकृदित्यर्थः ।
गुरुजनस्य मात्रादेर्लालना प्रतिपालना हारिणी मनोहरा । दुःसहानि सोढुमशक्यान्युत्कण्ठितान्युत्कण्ठाविषयी-
भूतांनि । बान्धवानां वजनानां प्रीतिः स्नेहोऽनुबध्नातीत्येवंशीलानुबन्धिनी । गमनविघ्नकारिणीत्यर्थः । अभि
नवस्यादृष्टपूर्वस्य वस्तुनः प्रार्थना वाञ्छा कुतूहलिन्याश्चर्यकारिणी । कुलक्रमेण पट्टपरम्परया आगताः प्राप्ता
पाठा० -१ श्रावितैव. २ अदृष्टस्य ३ सहैव. ४ खन्मुख ५ जन्म ६ आकुलय; अनुकूल्य.
0