This page has not been fully proofread.

चन्द्रापीडस्यामुताप:]
 
उत्तरभागः ।
 
४९९
 
चोपालम्भस्य हेतुतां नीतोऽस्मि । मन्ये च ममापि मनोव्यामोहकारी कोऽपि शाप एवायम् ।
अन्यथाऽप्रबुद्धबुद्धेरपयेषु न संदेह उपपद्यते, तेष्वपि स्फुटेषु मदनचित्रेषु कथं मे धीर्व्यामु-
ह्येत । तिष्ठन्त्वेव तावदतिसूक्ष्मतया दुर्विभाववृत्तीनि तानि स्मितावलोकित कथितविहृतलीलाल-
ज्जायितानि, यान्यन्यथापि संभवन्ति । चिरानुभूतात्मकण्ठसंसर्गसुभगं हारमिममकृतपुण्यस्य
मे तत्क्षणमेव कण्ठे कारयन्त्या किमिव नावेदितम् ? अपि च हिमगृहकवृत्तान्तस्तु तवापि
प्रत्यक्ष एव । तत्किमन्त्र प्रणयकोपाक्षिप्तयाध्यन्यथा व्याहतं देव्या ? सर्व एवायं विपर्ययान्मम
दोषः । तदधुना प्राणैरप्युपयुज्यमानस्तथा करोमि यथा नेहशमेकान्तनिष्ठुरहृदयं जानाति मां
 
भावः । विचारणान्तर प्रदर्शयन्नाह - मन्य इति । अहमिति मन्ये संभावयामि । इतीति किम् । ममायं को-
ऽप्यनिर्वचनीयो मनसश्चित्तस्य व्यामोहं वैचित्त्यं करोतीत्येवंशीलः शाप एव विरुद्धाशीर्वचनमेव । उक्तवैपरीये
आह - अन्यथेति । शापाभावेऽप्रबुद्धाऽजाग्रद्रूपा बुद्धिः प्रतिभा यस्यैवंविधस्य । मूर्खस्यापीत्यर्थः । येषु स्फु-
टेषु विशदेषु मदन चिह्नेषु कामलक्षणेषु संदेहो द्वापरो नोपपद्यते न जायते । एतानि दुःखजनकान्येवेति नि-
श्चय एवोत्पद्यत इति भावः । तेष्वपि मदनचिह्नेष्वपीत्यर्थः । कथं मे मम धीर्बुद्धिर्व्यामुह्येत व्यामोहं व्रजेत ।
तिष्ठन्त्विति । तावदिदानीं तानि स्मितमीषद्धास्यम्, अवलोकितं वीक्षितम्, कथितं जल्पितम्, विहृतमित-
स्ततो गतम्, लीलया विलासेन लजायितानि त्रपयाचरितानि । एतान्यतिसूक्ष्मतया निकृष्टतया । अत एव
दुर्विभावा दुर्जेया वृत्तिर्येषामेवंभूतानि तिष्ठन्तु । एतादृशनिकृष्टचिन्तयाऽलमित्यर्थः । तानि कानीत्याह-या
नीति । यानि पूर्वोक्तानि । अन्यथापि स्नेहव्यतिरेकेणापि संभवन्ति । उपपद्यन्त इत्यर्थः । स्वस्मिंस्तस्याः स्नेहं
प्रदर्शयन्नाह – चिरेति । चिरं चिरकालमनुभूतः प्राप्तो य आत्मनः स्वस्य । अर्थात्कादम्बर्याः । कण्ठसंसर्गो
निगरणसंपर्कस्तेन सुभगं मनोहरमिमं प्रत्यक्षगतं हारं मुक्ताप्रालम्बं तत्क्षणमेव तस्मिन्समय एवाकृतमविहितं
पुण्यं सुकृतं येनैवंविधस्य मे मम कण्ठे गले कारयन्त्या प्रक्षेपयन्त्या । सखिद्वारेति शेषः । किमिव नावेदितं किं
न ज्ञापितम् । अहं त्वदर्थिनीति तदैव ज्ञापितमिति भावः । अपि चेति । अपि च प्रकारान्तरे । हिमगृहस्य
नीहारवच्छीतलसझनो वृत्तान्त उदन्तस्तवापि भवत्या अपि प्रत्यक्ष एव विदित एव । न केवलं ममैवेति
भावः । तदिति हेत्वर्थे । अत्रेति । अस्मिञ्जने प्रणयः स्नेहस्तेन तस्माद्वा यः कोपः क्रोधस्तेनाक्षिप्तया प्रेरितया
देव्या कादम्बर्या किमन्यथा व्याहृतम् । तदलमनया तदानयनकथयेत्यात्मकमित्यर्थः । सर्व इति । अयं सर्व
एव समग्र एव विपर्ययादज्ञानान्मम दोषो वैगुण्यम्, न तु तत्त्वतः । तदिति । तत्तस्माद्धेतोरघुनाहं तथा
करोमि रचयामि यथा देवी कादम्बरीदृशमेकान्तेनातिशयेन निष्ठुरं कठिनं हृदयं चेतो यस्यैवंविधं मां न जानाति ।
 

 
टिप्प० - 1 'अनेन दुःशिक्षितेन' इत्यारभ्य 'नीतोस्मि' इति पर्यन्तस्य दुरूहवाक्यस्य अन्वयानुसारि -
णीयं व्याख्या - अन्तर्गत विकारस्य (कामवासनायाः) आवेदनाय भगवता मनोभवेन मामुद्दिश्य बाला
(कादम्बरी) अनेकप्रकारं यद्यदेव (चेष्टादिकम् ) बलात् कार्यते, तत्तदेव अदृष्टपूर्वत्वात्, दिव्यकन्य-
कानां रूपस्यानुरूपा सेयं लीलास्तीति संभावनया, एतावतो मनोरथस्य आत्मन उपर्यसंभावनया (काद-
म्बर्या एतावानभिलाषो मदुपरि स्यादिति न मे संभावनेत्याशयः ), च विकल्प संशययोर्दोलामधिरूढं
माम् 'सर्वमेव एतत् अस्याः सहजमेव (मनोबेदना विक्रमादिकं वा यद्यत् प्रकाशित तत्तत् स्वाभाविक-
मेव, न तु मद्विषयकम् ) ' इति ग्राहयता ( बोधयता) दुःशिक्षितादिविशेषणविशिष्टेन मूढहृदयेन
एवमीहशस्य देव्याः (काद०) दुःखस्य तव चोपालम्भस्य हेतुतां नीतोऽस्मि । कामप्रणोदिता या याश्चेष्टा
मयि कादम्बर्या कृतास्ताः सर्वा न मामुद्दिश्य, इति मूढहृदयेन मह्यं बोधितम् । अत एव देव्या दुःखं
तब चायमुपालम्भो जात इति सर्वस्वाशयः । एतदनुसारेणैव मूलपाठो ज्ञेयः । टीका चानुसंधेया ।
 
- १ तेष्वतिस्फुटेषु २ वियुज्यमाना..
 
पाठा०