This page has not been fully proofread.

१९८
 
कादम्बरी
 
[ कथायाम्-
अथ कादम्बरीशरीरादिवालापपदैरेव सहागत्य युगपगृहीतो हृदये मन्युना, कण्ठे जीविते-
न, अधरपल्लवे वेपथुना, मुखे श्वसितेन, नासाग्रे स्फुरितेन, चक्षुषि बाष्पेण तुल्यवृत्तिर्भूत्वा
कादम्बर्याः क्षरद्वाष्पविक्षेपपर्याकुलाक्षरमुचैः प्रत्युवाच -- 'पत्रलेखे, किं करोमि । अनेन दुः-
शिक्षितेन ज्ञानाभिमानिना पण्डितंमन्येन दुर्विदग्धेन दुर्बुद्धिनालीकधीरेण स्वयंकृतं मिथ्या-
विकल्पशतसहस्रभरितेनाश्रद्दधानेन मूढहृदयेन यद्यदेवानेकप्रकारं शृङ्गारनृत्ताचार्येण भगवता
मनोभवेनान्तर्गतविकारावेदनाय मामुद्दिश्य बाला बलात्कार्यते, तत्तदेवा दृष्टपूर्वत्वाद्धि दिव्य-
कन्यकानां रूपानुरूपलीलासंभावनया च तावतो मैनोरथानध्यात्मन उपर्यसंभावनया च सर्व
सहजमेवैतदस्या इति विकल्पसंशयदोलाधिरूढं मां ग्राहयतैवमीदृशस्य देव्या दुःखस्य तव
 
अथेति । पर्याकुलतानन्तरं चन्द्रापीडः क्षरन्यो बाप्पो नेत्राम्बु तस्य विक्षेप इतस्ततः पातनं पर्याकुलानि
व्याप्तान्यक्षराणि यत्रेति क्रियाविशेषणम् । उच्चैर्बाढखरेण । पत्रलेखामिति शेषः । प्रत्युवाच प्रत्यब्रवीदिति
क्रियासंटङ्कः । किं कृत्वा । कादम्बर्याः समं तुल्या सदृशी वृत्तिर्यस्य सैवंविधो भूत्वा । किंलक्षणः । उत्प्रेक्षते -
कादम्बरीशरीरादिवालापपदैर्दुः खवचन पदैरेव सहागत्य । एभिरेतेष्वित्यध्याहारः युगपदेकसमये गृहीतः । एभिः
कैः, एतेषु केषु इत्यपेक्षायामाह - हृदय इत्यादि । हृदये चित्ते मन्युना क्रोधेन । गृहीत इति पूर्वोक्त
सर्वत्र संबध्यते । कण्ठे निगरणे जीवितेन प्राणितेन । वेपथुना कम्पेनाधर एव पल्लव इति रूपकं तस्मिन् ।
श्वसितेन निःश्वासेन मुख आनने । स्फुरितेन स्फुरणेन नासाग्रे नासिकान्ते । बाष्पेण रोदनेन चक्षुषि । जाता-
वेकवचनम्। किमुवाचेत्याह - पत्रलेखे इति । हे पत्रलेखे, अहं किं करोमि । किंचित्कर्तुं न समर्थ इत्यर्थः ।
शृङ्गारश्च नृत्तं च तयोरुज्वलदृक्चालनाथ आचार्य उपदेष्टा तेन । शृङ्गारस्य नृत्याचार्येण रङ्गाचार्येणेति
वा । भगो माहात्म्यमस्यास्तीति भगवांस्तेन । 'भगोऽर्कज्ञानमाहात्म्यवैराग्यादिषु' इति वैजयन्ती । मनोभवेन
कामेन यद्यदनेकप्रकारं मन्युजीवितवेपथुश्वसित परितापादिकं बाला योषितो ( तू ) मामुद्दिश्य मदुद्देशेन बलाद्धठा-
त्कार्यते निष्पाद्यते । किमर्थमित्याह - अन्तरिति । अन्तर्गतो यो विकारस्तस्यावेदनं ज्ञापनं तस्तै । तादर्थ्ये
चतुर्थी । तत्तदनेन प्रत्यक्षेण मूढमज्ञानावृतं यहृदयं चित्तं तेन स्वयं कृतमात्मना विहितम् । न तु मयेत्यर्थः ।
इतो मूढहृदयं विशेषयन्नाह - दुःशिक्षितेनेत्यादि । दुर्दुष्टं शिक्षितमभ्यसितं यस्य तत्तथा तेन । ज्ञाने ज्ञान-
विषयेऽभिमानोऽहंकारो विद्यते यस्य तत्तथा तेन । पण्डितमात्मानं मन्यते यत्तत्तथा तेन । दुर्दुष्टं विदग्धत्वं छे-
कत्वं यस्य तत्तथा तेन । दुर्दुष्टा बुद्धिः प्रतिभा यस्य तत्तथा तेन । अलीकेन मिथ्याभिमानेन । धीरं साहसगुणोपेतं
तेन मिथ्या विकल्पानामलीकमनोरथानां शतसहस्राणि लक्षास्तैर्भरितमाकीर्ण तेन । न श्रद्दधातीति शास्त्रोक्तं नाव-
धारयतीत्यश्रद्दधानं तेन । कया । अदृष्टपूर्वत्वादनवलोकितपूर्वत्वाद्दिव्या मनोहरा याः कन्यकास्तासां रूपं सौन्दर्य
तस्यानुरूपा योग्या या लीला विलासस्तस्याः संभावनोत्कटकोटिकः संदेहस्तया । पुनः कया । आत्मनः स्खस्यो -
पर्येषा मामिच्छत्येतादृशस्य मनोरथानप्यसंभावनया च । किं कुर्वता मूढहृदयेन । मामेवं ग्राहयता । ग्राहयतिर्द्वि
कर्मकः । एवं किम् । अस्याः कादम्बर्या एतत्परितापादिकं सर्वं सहजमेव स्वाभाविकमेव । किंलक्षणं माम् ।
विकल्पसंशययोर्दोलामधिरूढमाश्रितं तथा । तेनैवेति शेषः । मूढहृदयेनैवेदृशस्य पूर्ववर्णितस्य देव्या कादम्बर्या
दुःखस्य तवोपालम्भस्य च हेतुतां नीतः प्रापितोऽस्मि । सर्वं यदसम्यक्तन्मूढहृदयेनैव कृतम् । न मयेति
 
Stav
 
पाठा०—१ अनेन दुरात्मना, २ स्वयंकृत ३ नृत्याचार्येण ४ पूर्वत्वाद्दिव्य ५ मनोरथस्याप्यात्मना; मनोरथा-
नामध्यात्मना.