कादम्बरी /530
This page has not been fully proofread.
४९७
उत्तरभागः ।
चन्द्रापीडस्यानुतापः ]
तं च कादम्बर्याः स्नेहोक्तिपुरःसरं च गम्भीरं च संतापं व सपरिहास च, साभ्यर्थनं च
साभिमानं च, सावलेहं च सप्रसादं च, सनिर्वेदं च सानुरागं च, संकोपं च सनि-
विशेषं च सावष्टम्भं च, सात्मार्पणं च सोत्प्रासं च, सोपालम्भं च सानुक्रोशं च सस्पृहं
च सावधारणं च, मधुरमपि दुःश्रवम्, सरसमपि शोषहेतुम् कोमलमपि कठोरम्, नम्रम-
प्युन्नतम्, पेशलमप्यहंकृतम्, ललितमपि प्रौढमालापमार्केयत्प्रेक्ष्योत्प्रेक्ष्य च स्तिमितपक्ष्म-
तया दुर्विषहदुःखबाष्पोपतायताक्षं तन्मुखं स्वभावधीरप्रकृतिरपि नितरां पर्याकुलोऽभवत् ।
,
प्रेक्ष्य दृष्ट्वा दृष्ट्वा । आदरार्थे वीप्सा । अथो आलापं विशेषयनाह-गम्भीरमित्यादि । अत्र सर्वत्र
चकारो वाक्यालंकारार्थः । गम्भीरं महार्थम् । सतापं तापेन सहवर्तमानम् । सपरिहास परिहासेन सह वर्तमा-
नम् । साभ्यर्थनमभ्यर्थना प्रार्थना तया सहवर्तमानम् । साभिमानं साहंकारम् । सावलेहमवलियत आखा.
द्यत इत्यंवलेहो रसस्तेन सहवर्तमानम् । अवज्ञया सहवर्तमानं वा । प्रसादोऽनुग्रहः, गुणो वा, तेन सहवर्तमा
नम् । निर्वेदः स्वावमाननं तेन सहवर्तमानम् । अनुरागो भक्तिस्तेन सहवर्तमानम् । कोपः क्रोधस्तेन सहवर्तमा-
नम् । सनिर्विशेषं नितरां विशेष उत्कृष्ट विशेषस्तेन सहवर्तमानम् । सावष्टम्भमवष्टम्भः स्तब्धता तेन सहवर्त-
मानम्, सात्मार्पणं सहात्मार्पणेन वर्तते यः स तम् । सोत्प्रासं सहोत्प्रासेनोत्कण्ठया वर्तमानम् । सोपालम्भं
सहोपालम्भेन वर्तमानम् । सानुक्रोशं सहानुक्रोशेनामर्षेण वर्तमानम् । सस्पृहं सह स्पृहया वाञ्छया वर्तमा-
नम् । सावधारणं विमर्शपूर्वकं च । विरोधाभासेन तमेव विशेषय नाह- मधुरमित्यादि । अत्र सर्वत्रापि -
शब्दो विरोधाभासालंकारद्योतनार्थः । मधुरमपि मिष्टमपि दुःखेन श्रूयत इति दुःश्रवमिति विरोधः । आभा-
सस्तु शृङ्गाराद्युपयुक्तार्थप्रदत्वलक्षणमाधुर्यस्य विवक्षणात् । सह रसेन वर्तमानमपि शोषस्य हेतुर्निदानमिति
विरोधः । आभासस्तु सरसमिति शृङ्गारादिरसोपयुक्तमित्यर्थात् । कोमलं मृदुमपि कठोरमिति विरोधः । आभा-
सस्तु कोमलमनिष्ठुराक्षरत्वमित्यर्थात् । नम्रं नमनशीलमप्युन्नतमुञ्चैस्तर मिति विरोधः । आभासस्तु नम्रं पतत्प्रक
षैमित्यर्थात् । पेशलं सुकुमारमप्यहंकृतमिति विरोधः । आभासस्तु हृद्यमित्यर्थात् । ललितं लध्वपि प्रौढं मह
दिति विरोधः । आभासस्तु ललितं सुकोमलबन्धमित्यर्थात् ।
टिप्प०-1 सेहोक्ति पुरस्सरं च गंभीरं च, ससंतापं च सपरिहारं च, साभ्यर्थनं च साभिमानं च,
हत्यादिरूपेण परस्परविसंवादिविशेषणद्वयस्य एकत्रसंनिवेशेन कादंबर्या आलापस्य साधारणतोऽतिशयः
सूच्यते । यथा हि-तन्त्र नेहोक्तिकातर्ये सत्यपि गाम्भीर्यमस्ति, विरहसंतापे सत्यपि कुमारसमागमप्रत्याशया
तस्य विरहस्य परिहारोप्यस्ति ( 'सपरिहासं' च इति कल्पनं तु टीकाकारस्य गभीरा बुद्धिः ) । अभ्य-
र्थनालाघवं यद्यस्ति तर्हि आत्माभिमानोऽप्यस्ति इति अन्थकारस्य गुम्फनचातुर्यम् । 'मधुरमपि दुःश्रवम्,
सरसमपि शोषहेतुम्', इत्यादिना अग्रे तु सोयमर्थः स्वयमेव स्पष्टीकृतः । किन्तु अक्षिणी निमील्य पर्याय-
शब्दान्वेषणमात्रे व्याकुलस्य टीकाकारशिरोमणेः कृपया मूलपाठस्य तदेतत्स्वारस्यं सर्व कथाशेषम् ।
'सकोपं च सात्मार्पणं च, ससद्भावं च सोत्प्रासं च,' टीकाकारेण तदेतन्निर्वासितम् । हन्त कियत्परिशोध्यतां
टिप्पणेन ? । 2 हन्त अस्थानेऽयमवलेह स्नेहः ! धिक् । 'सावहेलं च सप्रसादं च,' इत्येव पाठः ।
अर्थात् तस्मिन्नालापे भवज्ञा यदि प्रकाशिता, तर्हेि प्रसादोऽध्याविष्कृत इति तत्तात्पर्यम् ।
पाठा० - १ ससंतापम्. २ सावहेलम्, ३ च. ससद्भावं च. ४ आकर्ण्याकर्ण्य ० ५ अभूत्.
६३ का०