2023-09-14 17:04:09 by Lakshmainarayana achar

This page has been fully proofread twice.

मदम्, [^१]अत्यन्तशुद्धस्वभावमपि कृष्णचरितम्, अकरमपि हस्त [^२]स्थितभुवनतलं राजानमद्राक्षीत् । आलोक्य च सा दूरस्थितव प्रचलितरत्नवलयेन रक्तकुवलयदलकोमलेन पाणिना जर्जरितमुखभागां वेणुलतामादाय नरपति [^३]प्रतिबोधनार्थं [^४]सकृत्सभाकुट्टिममाजघान, येन सकलमेव [^५]तद्राजकमेकपदे वनकरियूथमिव तालशब्देन[^६]युगपदा- वलितवदनमवनिपालमुखादाकृष्य चक्षुस्तदभिमुखमासीत् ।
 
अवनिपतिस्तु 'दूरादालोकय' इत्यभिधाय प्रतीहार्या निर्दिश्यमानां तां वयः परिणाम [^७]शुभ्रशिरसा रक्तराजीव [^८]नेत्रापाङ्गेना- नवरतकृतव्यायामतया यौवनापगमेऽप्यशिथिलशरीरसंधिना
सत्यपि मातङ्गत्वे नातिनृशंसाकृतिनानुगृहीतार्यवेषेण [^९]शुभ्रवाससा पुरुषेणाधिष्ठितपुरोभागाम्,
 
[ टि ] -- मित्यर्थः । 'दानं गजमदे त्यागे पालनच्छेदशुद्धिषु' इति विश्वः । अत्यन्तेति । अत्यन्तमतिशयेन शुद्धो निर्मलः स्वभावः प्रकृतिर्यस्यैवंभूतमपि कृष्णं श्यामं चरितमाचारो यस्येति विरोधः । परिहारपक्षे कृष्णः केशवोऽर्जुनो वा तद्वच्चरितं यस्येत्यर्थः । 'कृष्णस्तु केशवे । व्यासेऽर्जुने कोकिले च' इति विश्वः । अकरमिति । न विद्यते करो हस्तो यस्यैवंभूतमपि हस्ते करे स्थितं भुवनतलं यस्येति विरोधः । तत्परिहारपक्षे न विद्यते करो दण्डो
यस्येति विग्रहः । 'बलिः करो भागधेयः' इति कोशः ।
 
आलोक्य चेति । राजानमालोक्य वीक्ष्य सा चाण्डालकन्यका सहसैव नृपसंनिधौ गमनमनभिज्ञलक्षणमिति दूरस्थितैव दविष्ठप्रदेशस्थैव वेणुलतां वंशयष्टिमादाय गृहीत्वा । नरेति । नरपते राज्ञः प्रतिबोधनं समुखीकरणं तदर्थं सभाकुट्टिमं परिषद्बद्धभूमिं सकृदेकवारं पाणिना हस्तेनाजघान ताडयामास । अथ पाणिं
विशेषयन्नाह - प्रचलितमिति । प्रचलितं प्रकम्पितं रत्नवलयं मणिखचितकङ्कणं यस्मात्स तथा तेन । रक्तमिति । रक्तं यत्कुवलयं [^1]कुवेलं तस्य दलानि पत्राणि तद्वत्कोमलेन सुकुमारेण । अनेन लक्षणोपेतत्वं हस्तस्य सूचितम् । वेणुयष्टिं विशेषयन्नाह - जर्जरितेति। जर्जरितो जर्जरीभूतो मुखभागोऽग्रभागो यस्याः सा तथा ताम् । अग्रभागदलनाच्छब्दविशेषो जायत इति प्रसिद्धेः । येनेति । येन ध्वनिना सकलमेव तद्राजकं राजसमूहः । युगपदिति । युगपत्समकालमावलितं परावर्तितं वदनं मुखं येनैवंभूतं तदभिमुखं तस्याः संमुखमासीदभवत् । किं कृत्वा । आकृष्याकर्षणं कृत्वा । कस्मात् । अवनिपालमुखाद्राजवदनात् । किम् । चक्षुर्नेत्रम् । तत्रोप ^2]मानम् । किमिव।वनकरिणामरण्य- हस्तिनां यूथमिव समूहमिव । केन । तालशब्देन तालो
[^3]वाद्यविशेषस्तस्य शब्देन तदुत्थध्वनिना एकपद एककालम् । एकश्रेणीभूतत्वमात्रे दृष्टान्तः ।
 
अवनीति । अवनिपती राजा तु तामनिमिषे निमेषोन्मेषवर्जिते लोचने यस्यैवंभूतो ददर्शेत्यन्वयः । कथंभूतां ताम् । निर्दिश्यमानां लोचनविषयीक्रियमाणाम् । कया । प्रतीहार्या द्वाररक्षानियुक्तया । किं कृत्वा । अभिधाय कथयित्वा । किम् । दूरादालोकयेति दूरादेव प्रेक्षस्वेति । राज्ञ इति शेषः । इतश्चाण्डालकन्यकां विशेषयन्नाह – अधीति । अधिष्ठित आश्रितः पुरोभागो यस्याः सा तथा ताम् । केन । पुरुषेण पुंसा । तमेव पुरुषं विशेषयन्नाह - वय इति । वयसः परिणामेन वार्धक्येन शुभ्रं श्वेतम् । आधाराधेययोरभेदोपचारात्।
शिरो मौलिर्यस्य स तथा तेन । रक्तेति । रक्तं लोहितं यद्राजीवं कमलं तद्वन्नेत्रापाङ्गौ लोचनप्रान्तौ यस्य स तथा तेन । अनवरतेति । अनवरतं निरन्तरं कृतो विहितो व्यायामः परिश्रमः ( येन सः) तस्य भावस्तत्ता तया यौवनापगमेऽपि तारुण्यनिवृत्तावपि न शिथिलाः श्लथाः शरीरस्य संधयो धातूनामस्थ्यादीनां च बन्धा
यस्य स तथा तेन । सत्यपीति । सत्यपि विद्यमानेऽपि मातङ्गत्वे चाण्डालत्वे नातिनृशंसातिक्रूराकृतिराकारो यस्य स तथा तेन । अन्विति । अनुगृहीतः स्वीकृत आर्यस्य सभ्यस्य वेषो नेपथ्यं येन स
तथा तेन । शुभ्रमिति । शुभ्रं श्वेतं वासो वस्त्रं यस्य स तथा तेन । पुनस्तां किं क्रियमाणाम् । अनुग-
 
[^1]F. कमलमित्यर्थः ।
[^2]F. तालशब्देन वनकरियूथमिवेति राजसमूहयोपमानम् ।
[^3]F. वृक्षविशेषस्तस्य पतनशब्देन ।
 
[^१]G. अतिशुद्ध.
[^२]G. सकलभुवन
[^३]G. प्रबोधनार्थम्
[^४]G. असकृत्
[^५]G. राजन्यकं.
[^६]G. तेन वेणुलताध्वनिना युगपत्.
[^७]G. पाण्डुर,
[^८]G. ईक्षणा,
[^९]G. धवल,