2023-09-14 17:04:04 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२०
 
कादम्बरी ।
 
[ कथामुखे-
मदम्, [^१]अत्यन्तशुद्धस्वभावमपि कृष्णचरितम्, अकरमपि हस्त [^२]स्थित भुवनतलं राजानमद्राक्षीत् ।
आलोक्य च सा दूरस्थितव प्रचलितरत्नवलयेन रक्तकुवलयदलकोमलेन पाणिना जर्ज-
रितमुखभागां वेणुलतामादाय नरपति [^३]प्रतिबोधनार्थ संथं [^४]सकृत्सभाकुट्टिममाजघान, येन सकल-
मेव तें[^५]तद्राज कमेकपदे वनकरियूथमिव तालशब्देन [^६]युगपदा- वलितवदनमव निपालमुखादाकृष्य
चक्षुस्तदभिमुखमासीत् ।
 

 
अवनिपतिस्तु 'दूरादालोकय' इत्यभिधाय प्रतीहार्या निर्दिश्यमानां तां वयः परिणाम [^७]शुभ्र-
शिरसा रक्तराजीव [^८]नेत्रापाङ्गेना- नवरतकृतव्यायामतया यौवनापगमेऽप्यशिथिलशरीरसंधिना

सत्यपि मातङ्गत्वे नातिनृशंसाकृतिनानुगृहीतार्यवेषेण [^९]शुभ्रवाससा पुरुषेणाधिष्ठितपुरोभागाम्,
 

 
[ टि ] --
मित्यर्थः । 'दानं गजमदे त्यागे पालनच्छेदशुद्धिषु' इति विश्वः । अत्यन्तेति । अत्यन्तमतिशयेन शुद्धो निर्मलः
स्वभावः प्रकृतिर्यस्यैवंभूतमपि कृष्णं श्यामं चरितमाचारो यस्येति विरोधः । परिहारपक्षे कृष्णः केशवोऽर्जुनो
वा तद्वच्चरितं य॒स्येत्यर्थः । 'कृष्णस्तु केशवे । व्यासेऽर्जुने कोकिले च' इति विश्वः । अकरमिति । न विद्यते
करो हस्तो यस्यैवंभूतमपि हस्ते करे स्थितं भुवनतलं यस्येति विरोधः । तत्परिहारपक्षे न विद्यते करो दण्डो

यस्येति विग्रहः । 'बलिः करो भागधेयः' इति कोशः ।
 

 
आलोक्य चेति । राजानमालोक्य वीक्ष्य सा चाण्डालकन्यका सहसैव नृपसंनिधौ गमनमनभिज्ञलक्षण.
मिति दूर स्थितैव दविष्ठप्रदेशस्थैव वेणुलतां वंशयष्टिमादाय गृहीत्वा । नरैरेति । नरपते राज्ञः प्रतिबोधनं
समुखीकरणं तदर्थं सभाकुट्टिमं परिषद्द्धभूमिं सकृदेकवारं पाणिना हस्तेनाजघान ताडयामास । अथ पार्णि
णिं
विशेषयतान्नाह - प्रचलितमिति । प्रचलितं प्रकम्पितं रत्नवलयं मणिखचितकङ्कणं यस्मात्स तथा तेन । रक्त-
मिति । रक्तं यत्कुवलयं [^1]कुवेलं तस्य दलानि पत्राणि तद्वत्कोमलेन सुकुमारेण । अनेन लक्षणोपेतत्वं हस्तस्य
सूचितम् । वेणुयष्टिं विशेषयन्नाह - जर्जरितेति । जर्जरितो जर्जरीभूतो मुखभागोऽप्ग्रभागो यस्याः सा तथा
ताम् । अग्रभागदलनाच्छन्ब् विशेषो जायत इति प्रसिद्धेः । येनेति । येन ध्वनिना सकलमेव तद्राजकं राज-
समूहः । युगपदिति । युगपत्समकालमावलितं परावर्तितं वदनं मुखं येनैवंभूतं तदभिमुखं तस्याः संमुख-
मासीदभवत् । किं कृत्वा । आकृष्याकर्षणं कृत्वा । कस्मात् । अवनिपालमुखाद्राजवदनात् । किम् । चक्षुनें-
र्नेत्रम् । तत्रोप ^2]मानम् । किमिववनकरिणामरण्य- हस्तिनां यूथमिव समूहमिव । केन । तालशब्देन तालो

[^3]
वाद्य विशेषस्तस्य शब्देन तदुत्थध्वनिना एकपद एककालम् । एकश्रेणीभूतत्वमात्रे दृष्टान्तः ।
 

 
अवनीति । अवनिपती राजा तु तामनिमिषे निमेषोन्मेषवर्जिते लोचने यस्यैवंभूतो ददर्शेत्यन्वयः ।
कथंभूतां ताम् । निर्दिश्यमानां लोचनविषयीक्रियमाणाम् । कथाया । प्रतीहार्या द्वाररक्षानियुक्तया । किं कृत्वा ।
अभिधाय कथयित्वा । किम् । दूरादालोकयेति दूरादेव प्रेक्षस्वेति । राज्ञ इति शेषः । इतश्चाण्डालकन्यकी
कां विशेषयचान्नाह – अधीति । अधिष्ठित आश्रितः पुरोभागो यस्याः सा तथा ताम् । केन । पुरुषेण पुंसा ।
तमेव पुरुषं विशेषयन्नाह - वय इति । वयसः परिणामेन वार्धक्येन शुभ्रं श्वेतम् । आधाराधेययोरभेदोपचा-
रात्।
शिरो मौलिर्यस्य स तथा तेन । रक्तेति । रक्तं लोहितं यद्राजीवं कमलं तद्वन्नेत्रापाङ्गौ लोचनप्रान्तौ यस्य
स तथा तेन । अनवरतेति । अनवरतं निरन्तरं कृतो विहितो व्यायामः परिश्रमः ( येन सः) तस्य भावस्तत्ता
तया यौवनापगमेऽपि तारुण्यनिवृत्तावपि न शिथिलाः श्लथाः शरीरस्य संधयो धातूनामस्थ्यादीनां च बन्धा

यस्य स तथा तेन । सत्यपीति । सत्यपि विद्यमानेsपि मातङ्गत्वे चाण्डालत्वे
नातिनृशंसातिक्रूराकृतिराकारो यस्य स तथा तेन । अन्विति । अनुगृहीतः स्वीकृत आर्यस्य सभ्यस्य
वेषो नेपथ्यं येन स
तथा तेन । शुभ्रमिति । शुभ्रं श्वेतं वासो वस्त्रं यस्य स तथा तेन । पुनस्तां किं क्रियमाणाम् । अनुग-
टिप्प० -

 
[^
1]F. कमलमित्यर्थः ।
[^
2]F. तालशब्देन वनकरियूथमिवेति राजसमूहयोपमानम् ।
[^
3]F. वृक्ष-
विशेषस्तस्य पतनशब्देन ।
 
नातिनृशंसातिकूराकृति -
वेषो नेपथ्यं येन स
 
पाठा० -

 
[^
]G. अतिशुद्ध.
[^
]G. सकलभुवन
[^३]G.
प्रबोधनार्थम्
[^
]G. असकृत्
[^
]G. राजन्यकं.
[^
]G. तेन वेणुलताध्वनिना युगपत्.

[^
]G. पाण्डुर,
[^
]G. ईक्षणा,
[^
]G. धवल,