कादम्बरी /53
This page has not been fully proofread.
२०
कादम्बरी ।
[ कथामुखे-
मदम्, अत्यन्तशुद्धस्वभावमपि कृष्णचरितम्, अकरमपि हस्तस्थित भुवनतलं राजानमद्राक्षीत् ।
आलोक्य च सा दूरस्थितव प्रचलितरत्नवलयेन रक्तकुवलयदलकोमलेन पाणिना जर्ज-
रितमुखभागां वेणुलतामादाय नरपतिप्रतिबोधनार्थ संकृत्सभाकुट्टिममाजघान, येन सकल-
मेव तेंद्राज कमेकपदे वनकरियूथमिव तालशब्देन युगपदावलितवदनमव निपालमुखादाकृष्य
चक्षुस्तदभिमुखमासीत् ।
अवनिपतिस्तु 'दूरादालोकय' इत्यभिधाय प्रतीहार्या निर्दिश्यमानां तां वयः परिणामशुभ्र-
शिरसा रक्तराजीवनेत्रापाङ्गेनानवरतकृतव्यायामतया यौवनापगमेऽप्यशिथिलशरीरसंधिना
सत्यपि मातङ्गत्वे नातिनृशंसाकृतिनानुगृहीतार्यवेषेण शुभ्रवाससा पुरुषेणाधिष्ठितपुरोभागाम्,
मित्यर्थः । 'दानं गजमदे त्यागे पालनच्छेदशुद्धिषु' इति विश्वः । अत्यन्तेति । अत्यन्तमतिशयेन शुद्धो निर्मलः
स्वभावः प्रकृतिर्यस्यैवंभूतमपि कृष्णं श्यामं चरितमाचारो यस्येति विरोधः । परिहारपक्षे कृष्णः केशवोऽर्जुनो
वा तद्वच्चरितं य॒स्येत्यर्थः । 'कृष्णस्तु केशवे । व्यासेऽर्जुने कोकिले च' इति विश्वः । अकरमिति । न विद्यते
करो हस्तो यस्यैवंभूतमपि हस्ते करे स्थितं भुवनतलं यस्येति विरोधः । तत्परिहारपक्षे न विद्यते करो दण्डो
यस्येति विग्रहः । 'बलिः करो भागधेयः' इति कोशः ।
आलोक्य चेति । राजानमालोक्य वीक्ष्य सा चाण्डालकन्यका सहसैव नृपसंनिधौ गमनमनभिज्ञलक्षण.
मिति दूर स्थितैव दविष्ठप्रदेशस्थैव वेणुलतां वंशयष्टिमादाय गृहीत्वा । नरैति । नरपते राज्ञः प्रतिबोधनं
समुखीकरणं तदर्थ सभाकुट्टिमं परिषद्द्धभूमिं सकृदेकवार पाणिना हस्तेनाजघान ताडयामास । अथ पार्णि
विशेषयताह - प्रचलितमिति । प्रचलितं प्रकम्पित रत्नवलयं मणिखचितकङ्कणं यस्मात्स तथा तेन । रक्त-
मिति । रक्तं यत्कुवलयं कुवेलं तस्य दलानि पत्राणि तद्वत्कोमलेन सुकुमारेण । अनेन लक्षणोपेतत्वं हस्तस्य
सूचितम् । वेणुयष्टिं विशेषयन्नाह - जर्जरितेति । जर्जरितो जर्जरीभूतो मुखभागोऽप्रभागो यस्याः सा तथा
ताम् । अग्रभागदलनाच्छन्द विशेषो जायत इति प्रसिद्धेः । येनेति । येन ध्वनिना सकलमेव तद्राजकं राज-
समूहः । युगपदिति । युगपत्समकालमावलितं परावर्तितं वदनं मुखं येनैवंभूतं तदभिमुखं तस्याः संमुख-
मासीदभवत् । किं कृत्वा । आकृष्याकर्षणं कृत्वा । कस्मात् । अवनिपालमुखाद्राजवदनात् । किम् । चक्षुनें-
त्रम् । तत्रोपमानम् । किमिव । वनकरिणामरण्य हस्तिनां यूथमिव समूहमिव । केन । तालशब्देन तालो
वाद्य विशेषस्तस्य शब्देन तदुत्थध्वनिना एकपद एककालम् । एकश्रेणीभूतत्वमात्रे दृष्टान्तः ।
अवनीति । अवनिपती राजा तु तामनिमिषे निमेषोन्मेषवर्जिते लोचने यस्यैवंभूतो ददर्शेत्यन्वयः ।
कथंभूतां ताम् । निर्दिश्यमानां लोचनविषयीक्रियमाणाम् । कथा । प्रतीहार्या द्वाररक्षानियुक्तया । किं कृत्वा ।
अभिधाय कथयित्वा । किम् । दूरादालोकयेति दूरादेव प्रेक्षस्वेति । राज्ञ इति शेषः । इतश्चाण्ड लकन्यकी
विशेषयचाह – अधीति । अधिष्ठित आश्रितः पुरोभागो यस्याः सा तथा ताम् । केन । पुरुषेण पुंसा ।
तमेव पुरुषं विशेषयन्नाह - वय इति । वयसः परिणामेन वार्धक्येन शुभ्रं श्वेतम् । आधाराधेययोरभेदोपचा-
। शिरो मौलिर्यस्य स तथा तेन । रक्तेति । रक्तं लोहितं यद्राजीवं कमलं तद्वन्नेत्रापाङ्गौ लोचनप्रान्तौ यस्य
स तथा तेन । अनवरतेति । अनवरतं निरन्तरं कृतो विहितो व्यायामः परिश्रमः ( येन सः) तस्य भावस्तत्ता
तया यौवनापगमेऽपि तारुण्यनिवृत्तावपि न शिथिलाः श्लथाः शरीरस्य संधयो धातूनामस्थ्यादीनां च बन्धा
यस्य स तथा तेन । सत्यपीति । सत्यपि विद्यमानेsपि मातङ्गत्वे चाण्डालत्वे
राकारो यस्य स तथा तेन । अन्विति । अनुगृहीतः स्वीकृत आर्यस्य सभ्यस्य
तथा तेन । शुभ्रमिति । शुभ्रं श्वेतं वासो वस्त्रं यस्य स तथा तेन । पुनस्तां किं क्रियमाणाम् । अनुग-
टिप्प० - 1 कमलमित्यर्थः । 2 तालशब्देन वनकरियूथमिवेति राजसमूहयोपमानम् । 3 वृक्ष-
विशेषस्तस्य पतनशब्देन ।
नातिनृशंसातिकूराकृति -
वेषो नेपथ्यं येन स
पाठा० -१ अतिशुद्ध. २ सकलभुवन १ प्रबोधनार्थम् ४ असकृत् ५ राजन्यकं. ६ तेन वेणुलताध्वनिना युगपत्.
७ पाण्डुर, ८ ईक्षणा, ९ धवल,