कादम्बरी /529
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
Food
मलावलोकिनीषु च नासु क्रमेण दृष्टिं पातयन्ती मंरकतशिलातले न्यषीदत्, अनवीच - 'पत्र-
लेखे, न खलु प्रियमिति ब्रवीमि त्वामेव पश्यन्ती संधारयाम्येव जीवितमहम् । तथापि
यद्ययं ते ग्रहस्तत्साघय समीहितम्' इत्यभिधायाङ्गस्पृष्टनिवसनाभरणताम्बूलप्रदानप्रदर्शितप्र-
सादातिशयां मां व्यसर्जयत् ।"
इत्यावेद्य च किंचिदिव नमितमुखी शनैः पुनर्व्यजिज्ञपत्– 'देव, ग्रंत्यप्रदेवीप्रसादातिश-
याहितप्रागल्भ्या दुःखिता च विज्ञापयामि । देवेनाप्येतदवस्थां देवीं दूरीकुर्वता किमिदमापन्न -
वत्सलायाः स्वप्रकृतेरनुरूपं कृतम् ?' इति । चन्द्रापीडस्तु तथोपालम्भगर्भ विज्ञप्तः पत्रलेखया
पातयन्ती क्षिपन्ती । काम् । दृष्टिं दृशम् । कासु । तासु कन्यकासु । कथम् । क्रमेणानुपूर्व्या । कथंभूतासु तासु ।
आज्ञाया निदेशस्य प्रतीक्षा प्रतीक्षणम् । प्रतिपालनमिति यावत् । यासां तास्तथा तासु । पुनः कीदृशीषु ।
मुखमेव कमलं पद्मम् । स्वामिन्या इति शेषः । तदेवावलोकितुं शीलं यासां तास्तथा तासु । अब्रवीञ्चेत्युपवेश-
नानन्तरमित्यवोचत् । च पुनरर्थे । किमुवाचेत्याह-पत्रेति । हे पत्रलेखे । खलु निश्चयेन त्वद्गमनं प्रियमि-
टमितिहेतोरहं त्वां न ब्रवीमि न कथयामि । यतोऽहं त्वामेव न त्वदन्यमित्यर्थः । पश्यन्ती विलोकयन्ती
जीवितं जीवनं संधारयाम्येव दधाम्येव । अतः सर्वथा त्वद्गमनं मम नेष्टम् । तथापि यद्ययं कुमारानयनलक्षणस्ते
तव ग्रहो हठः; तत्तर्हि समीहितं वाञ्छितं साधय विधेहि । इत्यभिधाय प्रतिपाय मां पत्रलेखां व्यसर्जयदप्रेष
यत् । किंलक्षणां माम् । अङ्गस्पृष्टानि शरीरैलग्नानि यानि निवसनाभरणताम्बूलानि सुचनालंकारनागवल्लीद-
लानि तेषां प्रदानेन वितरणेन प्रदर्शितोऽन्येभ्यो ज्ञापितः प्रसादातिशयः प्रसन्नताधिक्यं यस्याः सा ताम् ।
.)
इति पूर्वोत्तमावेद्य निवेद्य च किंचिदिवेषञ्चमितं नम्रीकृतं मुखमास्यं यया सवंविधा पत्रलेखा शनैर्मन्दं -
मन्दं पुनर्व्यजिज्ञपद्विज्ञप्तिमा । देवेति । हे देव हे स्वामिन् अहं विज्ञापयामि विज्ञप्तिं करोमि । किन्
लक्षणाहम् । प्रत्यग्रो नवीनो यो देव्याः प्रसादः प्रसन्नता तस्यातिशय आधिक्यं तेनाहितमारोपितं प्रागल्भ्यं
महत्त्वं यस्याः सा । परं दुःखिता च संजातदुःखा च सती । अथ विज्ञापनां विशदयति - देवेनापीति । देने-
नापि स्वामिनापीदं स्वप्रकृतेः स्वस्वभावस्यानुरूपं सहयं कृतं विहितम् । कथंभूतायाः स्वप्रकृतेः । आपनं प्राप्तं
वत्सलैत्वं हितकारित्वं यया सा तस्याः । किं कुर्वता देवेन । दूरीकुर्वता त्यजता । काम् । देवीं कादम्बरीम् ।
कीशम् । एषानन्तरोदितावस्था यस्याः सा ताम् । चन्द्रापीड इति । चन्द्रापीडस्तु पत्रलेखयोपालम्भग
र्भमुपालम्भो गर्भे मध्ये यत्र क्रियायां स्यात्तथा विज्ञप्तो नितरामत्यन्तं पर्याकुलो व्याकुलोऽभवदिति क्रियासं-
टङ्कः । किंलक्षणः । स्वभावेन निसर्गेण धीरा स्थिरा प्रकृतिः स्वभावो यस्यैवंविधोऽपि । किं कृत्वा । कादम्बर्या
देव्यास्तमालापमाकर्ण्य श्रुत्वा । किंलक्षणमालापम् । स्नेहोक्तिः स्नेहस्य प्रीतेरुक्तिः पुरःसरा मुख्या यत्र तम् ।
चेयपरम् । किं कृत्वा । स्तिमिते निश्चले पक्षमणी नेत्ररोमराजी ययोस्तयोर्भावस्तत्ता तया दुर्विषहमसत्यं दुःखं
तेन यो बाप्पोऽस्रं तेनोपते व्याप्ते आयते विशाले अक्षिणी यस्य तत्तन्मुखं तस्याः पत्रलेखाया मुखमुत्प्रेक्ष्यो-
MO
टिप्प० - 1. प्रयासपूर्वकं गत्वा सदानयनं मम नाभीष्टमिति विन्वोकः । सोयम् । 'दिग्वोकस्त्वतिगर्वेण
वस्तुनीष्टेऽप्यनादरः' इति तल्लक्षणम् । स्वद्गमनं प्रियमिति तु न केनचिदाशङ्कितमासीत् । 2 अर्थात्
निजशरीरटतानां निवसनाभरणानां तथा ताम्बूलस्य च प्रदानेन । ताम्बूलपर्यन्तस्य शरीरलग्नत्व विशेषणं
तूपहासायैव । 3 'आपन्नवत्सलायाः' इत्युक्तौ वत्सलत्वं कुत आविर्भूतम् ? हस्त धिक् टीकाकारम् ।
आपनेषु विपद्ग्रस्तजनेषु वत्सलायाः स्नेहबयाः (प्रकृतेः ) इति सुप्रसिद्धोऽर्थः ।
पाठा -१ खिग्धामिन्दीवर स्रवमिव मरकत. २ प्रत्यहं.