This page has not been fully proofread.

कादम्बर्या वृत्तान्त श्रवणम् ]
 
उत्तरभागः ।
 
४९५
 
प्रसीद । नार्हस्यखेदार्हा हृदयखेदकारिणं संतापमङ्गीकर्तुम् । संहर मन्युवेगम् । एषाहमादाय
चन्द्रापीडमागतैव' इति । अथानेन देवनामग्रहणगर्भेण मद्वचसा विषापहरणमन्त्रेण विषमू-
च्छितेव झटित्युन्मील्य नयने सस्पृहं मामवलोक्य 'कः प्रदेशेऽस्मिन्' इति परिजनमपृच्छत् ।
 
अथ धवलवसनोल्लासितगात्रयष्टयः द्वारप्रदेशसंपिण्डिताङ्गन्यः, परशुरामशरविवरविनिर्ग-
ता इव राजहंस पङ्कयः, कलहंसे कलालापमधुररवैः प्रतिवाचमिव प्रयच्छद्भिर्नूपुरै: पतत्कर्णपूर-
पल्लवोल्लासितैयाज्ञा श्रवणाय धावद्भिरिव श्रवणमौक्तिककुण्डलांशुजालकानि स्कन्धदेशनिक्षि-
तानि चामराणीव वहन्त्यः समाहतकपोलस्थलैः कुण्डलैर्बलादिव वाह्यमानाः, वाचालैः कर्णो-

त्पलमधुकरैः 'समाज्ञापय' इति व्याहरन्त्यः कन्यकाः समधावन् । आज्ञाप्रतीक्षासु च मुखक-
योग्या त्वं हृदये स्वान्ते खेदं करोतीत्येवंशीलं संतापमङ्गीकर्तुं स्वीकर्तुं नार्हसि न योग्या भवसि । तथा मन्युः
क्रोधस्तस्य वेगं रयं संहर त्यज । कोपवृद्धिं मा कुर्वित्यर्थः । एषाहं पत्रलेखाख्या सखी चन्द्रापीडमादाय गृही-
त्षागतैव । अथेति । तच्छ्रवणानन्तरं विषमूच्छिता विषापहरणमन्त्रेणेव । अनेन देवनाम भवन्नामग्रहणं गर्भे
यस्मिन्नेवंविधेन मम पत्रलेखाया वचसा वाक्येन झटिति शीघ्रं नयने नेत्रे उन्मील्योद्धाट्य सस्पृहं स्पृहायुक्तं
यथा स्यात्तथा मां पत्रलेखामवलोक्य निरीक्ष्येति परिजनं सेवकलोकमपृच्छत्पप्रच्छ । इतीति किम् । अस्मिन्ना-
सन्न प्रदेशे समीपस्थले कः तिष्ठतीति शेषः ।
 
अथेति । तदनन्तरं कन्यकाः कुमार्यः समधावस्त्वरितं चेलुः । कन्यका विशेषयन्नाह - धवलेति ।
धवलैः शुभ्रैर्वसनैर्वस्त्रैरुहासिताः शोभिता गात्रयष्टयो देहलता यासां ताः । द्वारेति । द्वारप्रदेशे प्रतोली-
देशे संपिण्डितानि संकोचितान्यङ्गानि शरीराणि याभिस्ताः । उत्प्रेक्षते – परशुरामस्य जामदम्यस्य शेरविवरेण
बाणच्छिद्रेण विनिर्गता राजहंसानां पङ्कय इव । शुभ्रवस्त्रावृतत्वेन तासां हंसपङ्किसाम्यं । तदुक्तं काव्यप्रकाशे-
'साधर्म्यमुपमाभेदे' इति । किंविशिष्टाः कन्यकाः । नूपुरैश्चरणभूषणैरुपलक्षिता ज्ञाताः । उपलक्षणे तृतीया ।
नूपुराणि विशेषयन्नाह — कलेति । कलहंसानां कादम्बानाम् । 'कादम्बास्तु कलहंसाः' इति हैमः । तेषां कला
मनोहरा य आलापाः शब्दास्त इव मधुरा मिष्टा ये रवाः शब्दास्तैः प्रतिवाचं प्रत्युत्तरं प्रयच्छद्भिर्ददद्भिरिव ।
च पुनरर्थे । पुनः किंविशिष्टाः । श्रवणैः कर्णैरुपर्लक्षिताः । किंविशिष्टैः श्रवणैः । पतन्तो भ्रश्यन्तो ये कर्णपूर य
कर्णाभरणस्य पल्लवाः किसलयास्तैरुल्लासितैरुद्भासितैः । अत एवोत्प्रेक्षते - श्रवणैः कीदृशैरिव । आज्ञाया
निदेशस्य श्रवणं श्रुतिस्तदर्थं धावद्भिरिव त्वरितं गच्छद्भिरिव । पुनः किं कुर्वग्त्यः । वहन्त्यो धारयन्त्यः । कानि ।
मौक्तिकैर्मुक्ताफलैः खचितानि कुण्डलानि कर्णभूषणानि तेषामंशवः किरणास्तेषां जालकानि समूहाः । स्वार्थे कः ।
'जालं समूह आनायगवाक्षक्षारकावपि' इत्यमरः । उत्प्रेक्षते - स्कन्धदेशे भुजशिरःप्रदेशे निक्षिप्तानि स्थापि-
तानि चामराणीव वालव्यजनानीव । पुनः किंविशिष्टाः । समाहतानि ताडितानि कपोलस्थलानि गल्लात्परप्रदेशा
यैरेवंविधैः कुण्डलैर्बलाद्धठाद्वायमाना इवोत्पाद्यमाना इव । पुनः किं कुर्वन्त्यः । कर्णोत्पलानां श्रवणकुवलयानां
चाचा लैर्मधुकरैर्भ्रमरैरिति व्याहरन्त्य इवेति वदन्त्य इव । इतीति किम् । समाज्ञापय । आज्ञां देहीत्यर्थः ।
आज्ञेति । कादम्बरी मरकतशिलातलेऽश्मगर्भदृषदुपरि न्यषीदत् । अतिष्ठदिति क्रियासंटङ्कः । किं कुर्वन्ती ।
 

 
टिप्प० - 1 कार्तिकेयस्य स्पर्धया, शरेण कौञ्च पर्वत विवरं विधाय सहारेण अवरुद्धा हंसपङ्कयो
मिः सारिता जामदयेनेति महाभारतकथाऽनुसंधेया । 2 कर्णैः (करणैः ) मौक्तिककुण्डलांशुजालकानि
वहन्त्य इति स्पष्टोऽर्थः । अस्तु. स्वातत्र्यं टीकाकारशिरोमणेः । 3 बलपूर्वकं गमनाय प्रेर्यमाणा इत्यर्थः ।
४ कलहंस.
 
पाठा० - १ बहुलसित २ समुलसित ३ द्वारदेशसंदण्डिताः; द्वारप्रदेशप्रवेशसंपिण्डिताङ्ग्यः.
 
५ कलमपमधुराकापैः ६ समन्तात्समधावन्. ७ आशां प्रतीक्षमाणासु.