कादम्बरी /527
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
ण्डनविलसितानि । नैनमन्धकार राशिरन्तरयति, न जलधरधारापातः स्थगयति, न नीहार-
निकरस्तिरोदधाति' इत्येवं चिन्तयन्त्या एव मेऽनुरागकथारस लावेनेव रक्ततामगादिवसः । त-
त्क्षणं प्रकटितरागं हृदयमिव कादम्बर्यास्त्रपया पलायमानमदृश्यत रविमण्डलम् । पल्लवशय-
नमिव संध्यारागमरचयद्यामिनी । परिचारक इव चन्द्रमणिशिलातलेतल्पमकल्पयत्प्रदोषः ।
अत्रान्तरे चागत्य स्वं स्वं नियोगमशून्यं कुर्वाणा दूरतो दीपिकाधारिण्यो गन्ध तैलावसिक्कसु-
रभिगन्धोद्गारिणीभिर्दीपिकाभिर्विरचितचक्रवालिका बालिकाः पर्यवारयन् । अथ निर्मल-
'लावण्यलक्षितानि दीपिकाप्रतिबिम्बानि ज्वैलितानि मदनसायकस्य शल्यकानी वाङ्गलग्नानि
समुद्रहन्तीं नवनिरन्तर कलिकाचितां चम्पकलतामिव तथास्थितां तां पुनर्व्यजिज्ञपम्-'देवि'
-
वासरो रक्ततामरुणतामगाजगाम । किमित्याकाङ्क्षायामाह - नैनमिति । अन्धकारस्य ध्वान्तस्य राशिः समूह
एनं सूर्य नान्तरयति । नान्तरायीकरोतीत्यर्थः । तथा जलधरस्य मेघस्य धारापातो जलासार एनं न स्थगयति ।
न स्तम्भयतीत्यर्थः । नीहारस्य हिमस्य निकरः समूह एनं सूर्यं न तिरोदधाति न च्छादयति । तत्क्षणमिति ।
मद्रागो न्यून इति त्रपया लज्जया पलायमानं नश्यमानं रविमण्डलं सूर्यबिम्बमदृश्यतावीक्ष्यत । जनै-
रिति शेषः । कीदृशम् । तत्क्षणं तत्कालं प्रकटित आविष्कृतो रागो येन तत्तथा । रक्तत्वसाम्यादाह — कादम्बर्या
हृदयमिव स्वान्तमिव । यामिनीति । यामिनी रात्रिः संध्यारागमरचयदकरोत् । रक्तत्वसाम्यादाह -- पं.
लवेति । पलवानां किसलयानां शयनं शय्या तदिव । परिचारक इवेति । परिचारक इव सेवक इंव
प्रदोषो यामिनीमुखं चन्द्रं शशिनं मणेः शिलातलं मणिशिलातलं तल्पं शय्यामकल्पयदरचयत् । अत्रान्तर एवं-
विधसमये दूरतो दीपिकाधारिण्यो बालिका आगत्य पर्यवारयन्दूरीचक्रुः । अन्धकारमिति शेषः । एकीबभूवु-
रिति वा । किं कुर्वन्त्यः । निरन्तरं दीपिकाः कर्तव्या इति स्वं स्वं खकीयं स्वकीयं नियोगमादेशमशून्यमवन्ध्यं
कुर्वाणा विदधानाः । किंविशिष्टाः । विरचितेति । विरचिता निष्पादिताश्चकवालिका मण्डलं याभिस्ताः ।
काभिः । दीपिकाभिः 'दीवी' इति जनप्रसिद्धाभिः । दीपिकाभिः कीदृशीभिः गन्धतैलं सुगन्धस्नेहस्तेनावसिक्ताः
सिञ्चिताः सुरभिगन्धमुद्गिरन्तीत्येवंशीलाभिः । अथेति । दीपिकानमनानन्तरमहं ताम् । पत्रलेखामिति शेषः ।
पुनर्व्यजिज्ञपं विज्ञप्तिमकार्षम् । कीदृशीं ताम् । समुद्वहन्तीं धारयन्तीम् । कानि । दीपिकानां प्रतिबिम्बानि
' प्रतिच्छायारूपाणि प्रतिबिम्बानि । कीदृशानि । निर्मलं स्वच्छं यल्लावण्यं लवणिमा तेन लक्षितानि ज्ञातानि । अति-
• सुन्दरलावण्ये प्रतिबिम्बितार्नीत्यर्थः । 'मुक्ताफलस्य छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमि-
होच्यते ॥' उत्प्रेक्षते - मदनसायकस्य कामबाणस्य ज्वलितानि घुषितान्यङ्गलग्नानि शल्यकानीवानिःसृताप्राणि
बाणानीव । पुनः कीदृशीं ताम् । चम्पकस्य हेमपुष्पकस्य लतामिव शाखामिव तथास्थिताम् । चम्पकलतां
कीदृशीम् । नवाः प्रत्यग्रा निरन्तरा व्यवधानरहिता याः कलिकाः कोरकास्ताभिश्चितां व्याप्ताम् । अत्र सरलत्व-
• सादृश्याच्छरीरस्य चम्पकलतोपमानम् । दीपिकाप्रतिबिम्बानां कोरकाकृतित्वेन कलिकोपमानम् । कां विज्ञप्तिं
कृतवतीत्याशयेनाह — देवति । हे देवि कादम्बर, त्वं प्रसीद प्रसन्ना भव । तथा खेदाभावोऽखेदस्तस्मै अर्हा
-
टिप्प० - 1 धन्यष्टीकाकारः कः प्रसङ्गोऽत्र सूर्यस्य ? तस्मात् - 'एनं संकल्पमयं प्रियमित्यर्थो बोध्यः ।
2 हन्त हन्त सुप्रभातं काव्यस्यास्य, यदेवं विधष्टीकाकारः । बालिकाः कादम्बरीं पर्यवेष्टयन् इति स्पष्टोर्थः ।
3 विरचितं चक्रवालं याभिस्ताः, बहुव्रीह्यवयवः कप् । 4 प्रतिपदं प्रस्खलन्दयनीय एव दिगम्बर
सोयम् । तां कादम्बरीमिति बोध्यम् ।
पाठा० -- १ प्लवेन परेण. २ तलम् ३ स्वनियोगम् ४ अवसेकसुरभिधूम ५ ज्वलन्ति ६ सायकशल्यानि.
७ तथावस्थिताम्.