This page has not been fully proofread.

कादम्बर्याः संदेशश्रवणम् ]
 
उत्तरभागः ।
 
बाहुलतिकायामच्छ सलिलप्रसूतायां मृणालिकायामिव जलाइतिश्यामारुणतामरसमिवानन-
मुपावेश्य तूष्णीमुत्कीर्णेव तस्थौ ।
 
MURCHISSED
 
-
 
अहं तु तच्छ्रुत्वा समचिन्तयम् – 'सत्यमेव गरीयः खलु जीवितालम्बनमिदं वियोगिनी-
नाम्, यदुक्तं संकल्पमयः प्रियो नितरां कुलाङ्गनानां विशेषतः कुंमारीणाम् । तथा हि । अनेन
सार्धमकृतदूतिका पादपतनदैन्यान्यन्यानि च प्रतिक्षणं समागमशतान्यकालरमणीयानि खे-
च्छाभिसरण सौख्यान्यत्यन्तादूषित कन्यकाभावानि सुरतानि, सुरतेषु चाकृतस्तन व्यवधानदु:-
खान्यालिङ्गनानि, अजनितत्रणदर्शनत्रीडानि नखदैन्तपदानि, अनाकुलितकेशपाशाः कचग्रह-
महोत्सवाः, शब्दविहीनानि निधुवेनानि, अनुत्पादितगुरुजनविभावितक्षतवैलक्ष्याण्यधरख-
बाहुलतिकानने उत्प्रेक्षयन्नाह - अच्छेति । अच्छं निर्मलं यत्सलिलं पानीयं तस्मिन्प्रसूतोरपन्ना या मृणालिनी
कमलिनी तस्यामिव, जलस्य पानीयस्याहतिराघातस्तया श्यामं कृष्णं यदरुणं रक्तं तामरसं कमलमिव । सरलसुकु
मारत्वसाधर्म्यावाहुलतिकाया मृणालिन्युपमानम् । वर्तुलत्वरक्तसादृश्यत्वेन मुखरय तामरसोपमानत्वमिति भावः ।
 
अहं त्विति । तु पुनरर्थे । अहं पत्रलेखा तत्पूर्वोक्तसंकल्पमयः कुमारो जनसंनिधावपि ददाति दर्शन-
मिति श्रुत्वाकर्ण्य समचिन्तयमभृशम् । इदं सत्यमेवावितथमेव । इदं किम् । यदुक्तसंकल्पमयः संकल्प-
विशे-
रूपः प्रियः, खलु निश्चयेन, वियोगिनीनां विप्रलम्भवतीनां नितरामतिशयेन कुलाङ्गनानां कुलवधूनाम्,
षतो विशेषात्कुमारीणाम् । कुमारीति पदमनूढायां रूढम् । अतिशयेन गुरुर्गरीयः अतिशयार्थे ईयप्रत्ययः ।
जीवितस्य जीवनस्यालम्बनमाधारभूतम् । तदेव दर्शयति - तथा हीति । अनेन कुमारेण सार्धं समं न कृ-
तानि विहितानि दूतिकायाः संचारिकायाः पादपतनादिदैन्यानि येभ्यस्तान्येवंविधान्य न्यानि च प्रतिक्षणं प्रति-
समयं समागमस्य संयोगस्य शतानि । केचित्तु समागमस्य संभोगस्येति व्याख्यां कुर्वन्ति । तदसत् । एकक्षणे
संभोगशतस्यासंभवात् । तथा कालो विरहदिवसस्तेन रमणीयानि मनोहराण्येवंविधानि स्वस्यात्मन इच्छेहा तया
भिसरणं समीहितस्थले गमनम्, अभिरमणं वा, तजनितानि सौख्यानि सुखान्यत्यन्तं परज्ञानाभावेनादूषितो
ऽदुष्टो कन्यकाभावो येष्वेवंभूतानि सुरतानि मैथुनानि । सुरतेषु च संभोगेषु च न कृतं न विहितं स्तनानां
व्यवधानं तस्माद्दुःखं यैस्तान्येवंभूतान्यालिङ्गनान्युपगूहनानि । अजनिताऽनुत्पादिता व्रणदर्शनात्क्षतावलोकनाद्रीडा
लज्जा यैस्तान्येतादृशानि नखदन्तयोः पदानि लक्ष्माणि । अनाकुलितः संबद्धः । विप्रकीर्ण इति यावत् । केश-
पाशः केशकलापो येष्वेवंविधाः कचानां केशानां ग्रहा एव महान्त उत्सवाः । शब्दैः सीत्कारैर्विहीनानि रहि
तानि निधुवनानि सुरैतानि । अनुत्पादितं न निर्मितं गुरुजनैर्मातृपित्रादिभिर्विभावितं ज्ञातं क्षतं व्रणं यैरेता-
शान्यत एव विलक्षणानि वैलक्ष्याणि भिन्नान्यधरस्यौष्ठस्य खण्डनान्येव विलसितानि क्रीडितानि । एतेन
चन्द्रापीडसंभोगादप्यस्य संभोगस्य सर्वदा विलक्षणत्वमिति ध्वनितम् । एवमिति । एवम वक्ष्यमाणं
चिन्तयन्त्या विचारयन्त्या एव मे ममानुरागस्य स्नेहस्य कथा वार्ता सैव रसस्तेन प्लावः रुपनं तेनैव दिवसो
मे
 
टिप्प० - 1 'अन्यानि' इति निष्प्रयोजनमेव । 'अन्यान्येव' प्रसिद्ध संभोगशतेभ्यः अन्यविधान्येव
( विलक्षणान्येव ) इति यदि स्यात्तर्हि समुचितमपि । 2 'सुरतेषु च' इत्यारभ्य 'निधुवनानि' इत्युक्तिः
'सुरतेषु सुरतानि' इति पर्यवसायिका स्यात्, अत एव 'शब्दविहीनाति चुम्बनानि' इत्येव पाठः । 3 प्रल-
पितमेतत्, न उत्पादितं गुरुजनैः विभावितेन ( लक्षितेन ) क्षतेन (व्रणेन ) वैलक्ष्यम् ( लज्जा ) येषु
तानि, इति स्पष्टोऽर्थः ।
 
पाठा० - १ सलिलस्रोतसि. २ जलसंहति. ३ तरुण. ४ अवाद निवेश्य. ५ विनोदश्च वियोगिनीनाम्.
६ यदु, अन्तः. ७ प्रियजनः; प्रियतरः• ८ सुतराम्. ९ कुमारिकाणाम् १० अन्यान्येव. ११ अन्यत्राकालनीयानि
रमणीयानि, १२ दूषित १३ भावचिह्नानि १४ दन्तक्षतमुखानि १५ चुम्बनानि,