कादम्बरी /525
This page has not been fully proofread.
४९२
कादम्बरी ।
[ कथायाम्-
अनुरागेण वा, मदेन वा हृदयेन वा, अनेन वा केनापि दत्तः संकल्पमयः कुमारी जनसंनि-
धावपि केनचिदविभाव्यमानः सिद्ध इव सर्वदा मे ददाति दर्शनम् । अपि चासाविव नाय -
मकाण्डपरित्यागनिष्ठुरहृदयः । अयमेवास्मद्विरहकातरः । नायं नक्तंदिवं लक्ष्म्या समाकुलः ।
न पृथिव्याः पतिः । न सरस्वतीमपेक्षते । न कीर्तिशब्दं वर्धयति । पश्यामि चाहर्नि-
शमासीनोत्थिता ग्राम्यन्ती शयाना जायती निमीलितलोचना चलन्ती स्वप्नायमाना शयने
श्रीमण्डपे गृहकमलिनीषूद्यानेषु लीलादीर्घिकासु क्रीडापर्वत के बालगिरिनदिकासु च यथा त-
मज्ञजनविडम्बनैकहेतुं विप्रलम्भकं कुमारं ते तथा कथितमेव मया । तदलमनया तदानयन-
कथया' इत्यभिधानाऽतर्कितागतमूर्च्छव निमीलिताक्षी पक्ष्माग्रसंपिण्डितनयनजलवर्षिणी
विलीयमानेवोत्पीड्यमानेवान्तर्जातमन्युवेगेन तथैव वेदिकाविताननाभिदामांशुकावलम्बिन्यां
मदेन मत्ततया वा, हृदयेनान्तःकरणेन वा । अत्र वाशब्दः सर्वत्र विकल्पार्थः । किं विकल्पान्तरेण । अने
नानुद्दिष्टनाम्ना वा केनापि दत्तोऽर्पितः संकल्पमयः कल्पनात्मकः कुमारश्चन्द्रापीडो जनानां लोकानां संनिधा-
वपि समीपेऽपि केनचिदविभाव्यमानोऽज्ञायमानागमनः सिद्ध इवाणिमाद्यष्टगुणोपेत इव मे मम सर्वदा दर्शनं
"ददाति वितरति । अपि चेति प्रकारान्तरे । असाविन चन्द्रापीड इवायं संकल्पककुमारोऽकाण्डेऽप्रस्तावे यः
परित्यागो मोचनं तस्मिन्निष्ठुरं निर्दयं हृदयं यस्यैवंभूतो न । अयमेव संकल्पकुमार एवास्माकं विरहे वियोगे
कातरो भीरुः । एतदर्थमन्यासक्तिप्रतिषेधद्वारा स्पष्टीकुर्वन्नाह - नायमिति । अयं पूर्वोक्तो नक्तंदिवमहर्निशं
लक्ष्म्या रमया समाकुलो व्याकुलीभूतो न । तथा पृथिव्या वसुंधरायाः पतिः स्वाभी न । तथा सरस्वतीं वाणीं
नापेक्षते नेहते । तथा कीर्तिशब्दं यशोवादं न वर्धयति न वृद्धिं नयति । सर्वदा तत्स्वरूपमहं पश्यामीत्याश-
येनाह – पश्यामीति । यथा येन प्रकारेण तं चन्द्रापीडाभिधमज्ञजनो मूर्खजनस्तस्य विडम्बनायां विरहा-
दिरूपायामेकस द्वितीयं हेतुं कारणं बिप्रलम्भकं वञ्चकं कुमारमहं कादम्बर्यासीनोपविष्टा, उत्थितोवींभूता,
भ्राम्यन्तीतस्ततः पर्यटन्ती । विरहादिति शेषः । शयाना वापं कुर्वाणा, जाग्रत्यशयाना, निमीलितलोचना
मुद्रितनयना, चलन्ती स्वेच्छया गच्छन्ती स्वप्नायमाना खप्नं पश्यन्ती, शयने शय्यायाम्, श्रीमण्डपे श्रियो-
पलक्षितजनाश्रये, गृहकमलिनीषु सदनपद्मिनीषु उद्यानेषूपवनेषु लीलादीर्घिकासु क्रीडावापीषु, क्रीडा पर्वतके
क्रीडाशैले, बालगिरिः क्रीडार्थ निर्मितः शैलस्तस्य नदिकासु खल्पतटिनीषु चाहर्निशमहोरात्रं पश्याम्यवलो-
कयामि । तथा तेन प्रकारेण मया कादम्बर्या कथितमेव पूर्व निवेदितमेव । तदिति पूर्वोक्तहेतोरनया मानसि-
कप्रत्यक्षया । 'इदमः प्रत्यक्षगतम्' इत्युक्तेः । तस्य कुमारस्यानयनम् । उज्जयिन्या मत्समीपानयनमित्यर्थः ।
तस्य कथा वार्ता तया अलं भृतम् । इत्यभिदधानेति जल्पन्त्यतर्किताऽसंभाविता मूर्च्छा मोहो यस्याः सेव ।
सहसा प्राप्तमूर्चेनेयर्थः । निमीलिते मुद्रिते अक्षिणी लोचने यया साइत एव पक्ष्मणां नेत्ररोम्णामग्रेषूपरि-
भागेषु संपिण्डितं पिण्डीभूतं यज्ञयनयोर्जलं तद्वर्षतीत्येवंशीला । तथान्तर्मध्ये जातो मिथ्या कि जीवितेने-
त्यादिप्रभवो यो मन्युवेगः क्रोधरयस्तेन विलीयमानेव द्रुततां गच्छन्तीव, उत्पीड्यमानेवोत्प्राबल्येन पीडां
प्राप्यमाणेव, तथैव तथावस्थैव वेदिका बद्धभूमिस्तस्या वितानमुल्लोचस्तस्य नाभिर्मध्यप्रदेशस्तत्र यद्दाम तन्निष्ठं
यदंशुकं हस्तक्षतनिवारणार्थ वस्त्रं निबन्तीति सार्वत्रिकी प्रसिद्धिस्तदवलम्बत इत्येवंशीलायां बाहुलतिकायां
भुजलतायामाननं मुखमुपावेश्य संस्थाप्य तूष्णीं मौनेन तस्थौ स्थितवती । अत एवोत्कीर्णेव लोह (श) लाकाक्षोदितेव ।
पाठा
-१ अन्येन. २ आदाविवासौ. ३ तस्मादस्मदिरहमरण नयहर: ४ लक्ष्मीसमाकुल: ५ उच्छ्रिता. ६ च
गृहशयने, ७ गृहे कमलिनीपुः गृहदीर्षिकाकमलिनीषु. ८ अभिदधाना गुरुमन्युभारवेगा.