कादम्बरी /524
This page has not been fully proofread.
कादम्बर्या : संदेशश्रवणम् ]
उत्तरभागः ।
४९१
प्रतिपत्तिशून्यं हृतहृदयम् येनान्तःप्रविष्टोऽपि न पारितो धारयितुम् । तदेव चैतच्छरीरं
येन तत्समीपे चिरमुदासीनेन स्थितम् । स एव चायं पाणिः, योऽलीकै गुरुजनापेक्षी नात्मानं
परिमाहितवान् । अनपेक्षितपरपीडश्चन्द्रापीडोऽपि स एव, योऽन्न वारद्वयमागत्य प्रतिगतः ।
मय्येवोपक्षीणमार्गणतया वाकिंचित्करोऽन्यत्र पञ्चरोऽपि स एव यस्त्वयावेदितो मे ।
4
."
प्रतिज्ञातं च मया महाश्वेतायाः – 'त्वयि दुःखितायां नाहमात्मनः पाणिं ग्राहयिष्यामि'
इति । तामहं पुनरव्यवदम् । सा तु 'देवि, "मैवं स्म मनसि करोः । कुमतिरियम् । अतिदा-
रुणोऽयं पापकारी मकरकेतुः कदाचिददृश्यमाने प्रियजने जनितहृदयानुरागाज्जीवितमध्यप-
हरति' इत्यब्रवीत् । तदपि नास्त्येव मे । मदनेन वा, दैवेन वा, विरहेण वा, यौवनेन वा,
रथें । इदं प्रत्यक्षं तदेव हतहृदयं दैवेन हतं ताडितं हृदयं चेतः । कीदृशम् । अप्रतिपत्तिरज्ञानं तेन शून्यम् ।
किम् । येन हृदयेनान्तः प्रविष्टोऽपि मध्यगतोऽपि धारयितुं ग्रहीतुं न पारितः । च पुनरर्थे । एतच्छरीरं
तदेव । तत्किम् । येन शरीरेण तत्समीपे चन्द्रापीडसंनिधौ चिरं बहुकालमुदासीनेन तटस्थेन स्थितम् । स
एवायं पाणिर्हस्तः । स कः । योऽलीकोऽसत्यो गुरुजनो मातृपित्रादिस्तमपेक्षते इत्येवंशीलः स तथात्मानं स न
परिग्राहितवान् । अनपेक्षिता परस्य अर्थान्मम पीडा येनैवंविधश्चन्द्रापीडोऽपि स एव नान्यः । स कः । योऽत्र
* मत्पार्श्वे वारद्वयं द्विवारमागत्यागमनं कृत्वा प्रतिगतो निवृत्तः । मध्येव मयि विषय एव । नान्यत्रेत्यर्थः ।
उपक्षीणा नष्टा मार्गणा बाणा: शरा यस्य स उपक्षीणमार्गणस्तस्य भावस्तत्ता तया । वाशब्द इवार्थे । तथा
चोपक्षीणमार्गणतया इव । अन्यत्र चन्द्रापीडादौ न किंचिद्दुःखादिकं करोतीत्य किंचित्करः पञ्चशरोऽपि कामो-
sपि स एव । स कः । यस्त्वया सख्या मे ममावेदितस्तत्स्वरूपज्ञापनपूर्वकं निवेदितः ।
महाश्वेताया मयेदं प्रतिज्ञातं च पुनरहं तां महाश्वेतामित्यवदमवादिषम् । इतीति किम् । तदेवाह - प्रतिज्ञा-
तमिति । अङ्गीकृतं च । तदेव दर्शयन्नाह - त्वयीति । त्वयि महाश्वेतायां दुःखितायां नाहं कादम्बर्यात्मनः
स्वपाणि करं ग्राहयिष्यामि । उद्वाहं न करिष्यामीत्यर्थः । सौ तु महाश्वेतेत्यब्रवीत् । इतीति किम् । हे देवि, एवं
मनसि चित्ते त्वं माकरोर्मा कार्षीः । 'मेऽटि' इत्यो लोपः । तदकरणे हेतुं प्रदर्शयन्नाह - कुमतिरिति ।
कुत्सिता मतिः कुमतिरियं न सम्यम्बुद्धिः । कथमित्याह -- अतीति । अयं पापकार्यधर्मजनको मकरकेतुः कंदर्पो-
ऽतिदारुणोऽतितरां भीषणः कदाचिन्न सर्वदा दृश्यमानेऽवलोक्यमाने प्रियजने वल्लभजने जनितहृदयानुरागादु-
त्पादितमान सिकस्नेहाज्जीवितमपि जीवनमप्यपहरत्यपाकरोति । प्रियजनस्या दृश्यमानत्वं नास्तीत्याशङ्ख्याह - तद्-
पीति । तदपि प्रियजनादृश्यमानत्वं मे मम नास्त्येव न विद्यत एव । एतदेव स्पष्टीकुर्वन्नाह – दैवेनेत्यादि ।
मदनेन वा, कंदर्पेण वा, दैवेनादृष्टेन वा । विरहेण वियोगेन वा, यौवनेन तारुण्येन वा, अनुरागेण स्नेहेन वा,
टिप्प० - 1 'किंचाधुनाप्यधिकमुपयातम्' इत्यारभ्य एतावत्पर्यन्तस्य — 'न किञ्चिन्नवीनं जातम् । अहं
कुमारादि च सर्व तदेव । किञ्च महाश्वेतासविधे प्रतिज्ञावशाद्विवाहेऽप्यहं विवशा । अत एव कुमारागम
नेन किं मे' इति प्रणयकोपसूचने तात्पर्यम् । 2 'हरति । एतावत्पर्यन्ता पत्रलेखाया उक्तिः । एतदमे
"सानु अब्रवीत्' इति पाठः । ततश्च 'सा तु अब्रवीत् ' एतदमे 'तदपि नास्त्येव मे' एतदारभ्य 'तदानयन-
कथया' इति कादम्बर्युक्तिः । 3 'सा तु' इति मध्ये प्रक्षेपष्टीकाकारस्य पाण्डित्यम् । न हि सेयं महाश्वे-
या उक्ति: । सा किल देवीति न तां संबोधयेत् । "तामहं पुनरप्यवदम् – 'देवि'." इत्यादिका पत्रले-
'खाया उक्तिः । अत एवं मध्ये 'सा तु' इति प्रक्षेपो ग्रन्थभ्रंशाय ।
पाठा० - १ चिरतत्समीपेऽपि २ उदासीनं स्थितम् ३ अलीकगुरुजनापेक्षणात् ४ इति । सा तु. ५ मैत-
न्मनस्यकरो. ६ जनितहृदयानुरागः, हृदयानुरागात् ७ हरति ८ एतदपि,