कादम्बरी /523
This page has not been fully proofread.
४९०
कादम्बरी ।
[ कथायाम्-
-
चदलारविन्द निस्यन्द सुगन्ध मन्दगन्ध वाहानन्दितदशदिशि प्रदोषसमये, विकसितकुसुमा-
मोदमुकुलितमानिनीमानग्रहोन्मोचनहस्ते कुसुमायुधे, कर्पूर विशद करनिकर निर्भरावर्जितज्यो-
नाजलासारवर्षिणि चन्द्रमसि, दूरविक्षिप्तदलनिवहकुमुद काननामोदवासित
दिगंन्तायाः कुमु-
दिन्यास्तटे, चन्द्रकरस्पर्शप्रवृत्तशशिमणिशिखरनिर्झरझंकारिणि क्रीडा
पर्वत नितम्बके, हृद्यहरि-
चन्दनरस कणिकाजाल
कच्छलेन तत्करतलस्पर्शसुखसंभव स्खेदजल निव हमिव वहति तत्काल -
हारिणि मुक्ताशिलापट्टशयने, कुसुमामोदसुरभितदशदिशि तुषारकणनिकर हैारिण्यपि बहिरेव
देहँदाहमात्रकायहारिणि सर्वरमणीयानां संदोहभूते हिमगृहे कुसुमस्रस्तरावलम्बिनी वीक्षिता ।
ममापि चौपुनरुक्ततदर्शनस्पृहे ते एवैते लोचने, ययोरालोकनपथमसौ यातः । तदेव चेदम-
पत्राणि येषामेवंविधानि यान्यरविन्दानि कमलानि तेषां निस्यन्दो रसो यस्मिन्नेवंभूतः सुगन्धः सुपरिमलो
मन्दो मृदुर्यो गन्धवाहो वायुस्तेनानन्दिता वासिता दश दिशो यस्मिन् । सर्वाणीति । सर्वाणि समग्राणि
यानि रमणीयानि मनोहराणि तेषां संदोहो दोहनं तस्माद्भूते निष्पन्ने तस्मिन् । पुनः कस्मिन्सति । कुसु-
मायुधे कंदर्पे सति । कीदृशे । विकसितानां विनिद्राणां कुसुमानां पुष्पाणामामोदः परिमलस्तेन करणभूतेन
मुकुलित एकीभूतो यो मानिनीनां मनस्विनीनां मानग्रहोऽहंकारग्रन्थिस्तस्योन्मोचनं दूरीकरणं तस्मिन्हस्त इव
हस्तस्तस्मिन् । पुनः कस्मिन्सति । चन्द्रमसि शशिनि सति कीदृशे कर्पूरो हिमवालुका तद्वद्विशदो निर्मलो
यः करनिकरः किरणसमूहस्तेन निर्भरं यथा स्यात्तथाऽऽवर्जिता मुक्ता या ज्योत्स्ना चन्द्रिका सैव जलासारोऽम्भसां
कणस्तं वर्षतीत्येवंशीलस्तस्मिन् । 'आसारोऽम्भसां कणः' इत्यभिधानाजलपदं पुनरुक्तम् । तच्चादोषाय, शाब्दपु -
नरुक्तित्वात् । तदुक्तं वृद्धकविभिः— 'द्विरदबृंहितकरिकलभाश्वहेषाकरकङ्कणकरिहस्तेत्यादौ पुनरुक्तेरदोषत्वम्' ।
कथंभूतायाः कुमुदिन्याः । दूरं विक्षिप्तो दलनिवहः पत्रसमूहो यैरेवंविधानि यानि कुमुदकाननानि कैरववनानि
तेषामामोदः परिमलस्तेन वासिताः सुगन्धं प्रापिता दिगन्ता यया सा तस्याः । पुनः कस्मिन्सति । क्रीडार्थ
पर्वतः शैलस्तस्य नितम्बके कटके सति । 'मेखला मध्यभागोऽद्वेर्नितम्बः कटकश्च सः' इति हैमः । कीदृशे
नितम्बे । चन्द्रकरणां स्पर्शस्तेन प्रवृत्तः प्रवृद्धो यः शशिमणिशिखरनिर्झरश्चन्द्रकान्त सानुझरस्तस्य झंकारो
विद्यते यस्मिन्स तथा तस्मिन् । कीदृशे मुक्ताशिलापट्टयने । हृद्यं मनोहरं यद्धरिचन्दनं तस्य रसस्य कणिकाः
सूक्ष्माः कणास्तासां जालकानि तेषां छलं मिषं तेन । तस्य चन्द्रापीडस्य करस्तस्य तलस्तस्य स्पर्शस्तस्मात्मुखं
सातं तस्मात्संभवा समुत्पत्तिर्यस्यैवंभूतो यः स्वेदजलनिवहस्तमिव वहतीति वहनं तत्तस्मिन् । एतेन सात्विक
भावः सूचितः । पुनः कीदृशे शिलापट्टके । तत्कालं सद्यो हरत्याकर्षति जनानां चेत इत्येवंशीलः स तथा
तस्मिन् । पुनः किंविशिष्टे । कुसुमानां पुष्पाणामामोदः परिमलस्तेन सुरभिता सुगन्धीकृता दशदिशो येन
तत्तथा तस्मिन् । कीदृशे हिमगृहे । तुषारकणा हिमविप्रुषस्तेषां निकरेण समूहेन हारिण्यपि मनोहरत्वेऽपि
बहिरेव बाह्यवृत्त्या देहदाहमात्रेण केवलं शरीरदाहज्वरोत्पादकत्वेन कायं देहं हरतीत्येवंशीलं तत्तथा तस्मिन् ।
अच्छीतलं तत्कथं दाहकमिति विरोधः । विरहित्वेन तत्परिहारः । अत एव विरोधाभासोऽलंकारः । ममापि च
कादम्बर्या अप्यपुनरुक्ता प्रथमा तस्य चन्द्रापीडस्य दर्शनस्पृहावलोकनेच्छा ययोस्त एवैते लोचने नेत्रे ।
यत्तदोर्नित्याभिसंबन्धात् । ते के । ययोर्नेत्रयोरालोकनपथं विलोकनमार्गमसौ चन्द्रापीडो यातः प्राप्तः । च पुन-
पाठा० --- १ वृन्दनिष्यन्दानन्दितमन्दगन्धवहसुगन्धदशदिशि विकसित विविधकुसुमामोदमुकुलितमानिनीमानग्रहो-
#मोचनदक्षकुसुमायुधि कर्पूरक्षोदभिश्रचन्दनपकपिण्डे कुपितकामिनीविनोद दक्षगेयमुखरपरिजने पुनरुक्तदर्शनाभ्युत्थान-
वीडितकञ्चुकिजने प्रदोषसमये जरठशरकाण्डविपाण्डुनिविड कुण्डलोद्धृष्ट लडह युवतिगण्डस्थलान्यखण्डमण्डले मण्डयति
गंगनं चानवरत विस्फुरद्विशद करनिर्भरावर्जित ज्योत्स्नाजलसारवर्षिणि चन्द्रमसि, २ पर्वतकनितम्बे ३ नीहारिण्यपि.
४ दाहमात्र कापहारिणि ५ पुनरुक्त, ६ आलोचन.