कादम्बरी /522
This page has not been fully proofread.
४८९
कादम्बर्याः संदेशः ]
चिरावलोकित सह संवर्धितबन्धुजनोत्कण्ठया वा, सुहन्मुखकमलदर्शनेन वा, पुनरागमनखेदप-
रिजिहीर्षया वा, निजगृहावस्थानरुच्या वा, जन्मभूमिलेहेन वा, अनिच्छया वास्य जनस्यो-
परि पादपतनेनापि नानेतुमेव पारितो यदा मयि त्रेहात्कृतयत्नयापि प्रियसख्या पत्रलेखया तथा
सुतरामेव न किंचित् । किं चाधुनाप्यधिक मुँपजातम् । सैवाहं कादम्बरी याऽनेन कुमारेण मंत्त-
मदमुखरमधुकरकुलकलकोलाहलाकुलिते कोकका मिनी करुणकूजिते विरहिजनमनोदुःखे विक-
वा । वाशब्दः पूर्वापरितोषे । राजकार्य संधिविग्रहादि तस्यानुरोधोऽनुसरणं तेन वा । चिरेण बहुकालेनाव-
लोकितो दृष्टो यः सहसंवर्धितः पांसुक्रीडनादिभिः सहवृद्धि प्रापितो बन्धुजनो बान्धवलो कस्तस्योत्कण्ठया
विरहासहनेन वा । सुहृदो मित्राणि । 'सुहृद्दुर्हदौ मित्रामित्रयोः' इति निपातः । तेषां मुखानि कमलानीवे-
त्युपमितसमासः । तेषां दर्शनेन सादरावलोकनेन वा । पुनरागमनं पुनरत्रागमः तेन यः खेद आयासस्तस्य
परिहर्तुमिच्छा त्यागस्पृहा तयेति वा । पुनरपि यातायातमी मा भूदितिविधयेत्यर्थः । निजं स्वकीयं गृहं
तत्रावस्थानं सुखवासस्तत्र रुचिः प्रीतिस्तयेति वा । जन्मभूमिर्जन्मस्थानं तत्र स्नेहः प्रेमा तेन वा । सर्वमेतत्सं-
भावनामात्रेणोक्तम् । वस्तुतस्त्वस्य मल्लक्षणस्य जनस्य जन्तुमात्रस्योपर्यनिच्छाऽरुचिः । अप्रीतिरिति यावत् ।
तया वा । किंचेति पक्षान्तरे । सैवाहं कादम्बरी यानेन कुमारेण चन्द्रापीडेन । कुमुदानि विद्यन्ते यस्यां सा
कुमुदिनी तस्याः कुमुदिन्याश्चतुरस्रजलक्रीडासरस्याः । पुष्करिण्या इति यावत् । तटे तीरे । सामीप्ये सप्तमी ।
हिमप्रचुरं गृहं हिमगृहं तस्मिन्मुक्तावन्निर्मलो मुक्ता खचितो वा यः शिलायाः पट्टः स एव शयनं शय्या तस्मिन्कु-
सुमानां त्रस्तरस्तमवलम्बत इत्येवंशीला तन्मात्रावलम्बिनी वीक्षिता दृष्टा । अधुना किमधिकमुपजातम् । इतः
सप्तम्यन्तानि हिमगृह विशेषणानि - मत्तेति । मत्ताः क्षीबा अत एव मद्देन मुखरा वाचाला ये मधुकरा भ्रम
मरास्तेषां कुलानि सजातीयवृन्दानि तेषां कलो मनोज्ञो यः कोलाहलः कलकलरतेनाकुलिते घ्याप्ते । फोकेति ।
कोकाश्चक्रवाकास्तेषां कामिन्यो योषितस्तासां करुणानि दीनानि कूजितानि विरुतानि यस्मिन् । कीदृशे
कूजिते । विरहीति । विरहिण्यश्च विरहिणश्चैकशेषे विरहिणस्तेषां जनः समुदायः । विरहिणश्च से जनाश्चेति
वा । तेषां सिखान्त उत्पादितं दुःखं येन तस्मिन् । विकन्चेति । विकचानि विकस्वराणि दलानि
,
टिप्प० - 1 अथेत्यारभ्य 'न किञ्चित् ' पर्यन्तस्य 'यदि गुरुजनत्रपादिकारणैः कुमारो नानेतुं शक्येत
तदापि न हानिः, मम जीवितमेव न रक्षणीयम् । किं तदा कुमारस्याऽनागमेन मे' इत्याशयः । 2 नेदं
पदं दृश्यते मूले । तस्मात् 'जनितविरहिजनमनोदुःखे' इत्येव पाठः । किञ्च- 'मत्तमदमुखर मधुकर
इत्यारभ्य 'वीक्षिता' एतावत्पर्यन्ते मूले भूयान् पाठभेदः, अन्वयव्यत्यासश्च कृतष्टीकाकारेण । कियत्परि-
शोधयितुं शक्येत ? न किल बाणस्य पुत्रोपि 'मत्त' इत्युक्तौ पुनः 'मदमुखर' इति विशेषणं प्रयुञ्जीत ।
'मधुमदमुखर' इति हि तत्र पाठः । एवं स्थाने स्थाने । भूयानंशः पाठान्तरेषु धृतः । ततो विवेकिभिः
स्वबुद्ध्यैव सर्व समायोज्य ग्रन्थोद्धारकाय टीकाकारायाशीर्वादो देयः ।
पाठा० -१ चिरावलोकितवन्धुजनदर्शनोत्कण्ठया वा. पुनरागमनचिरावलोकितसहसंवर्धितवम्धुजनदर्शनमुखेन वा
सुहन्मुखकमलावलोकनोत्कण्ठया वा. २ स्वजनस्य ३ महास्नेहान्मदलेखया पादपतनेनापि गच्छन्. ४ अनुनेतुम्.
५ पारितः कृतयलयापि प्रियसख्या तदा ६ अभ्यधिकम ७ उपयातमु. ८ मधुमद. ९ कुलकोलाहलाकुलित.
१० कूजितजनित; कूजितेन जनित.
६२ का०