कादम्बरी /521
This page has not been fully proofread.
४८८
कादम्बरी ।
[ कथायाम्-
सर्पति । स्वयमुपसर्पणलघु लाघवमेव तत्प्रतिपत्तिस्थैर्य नावलम्बते । बलात्तदानयनापराध-
मीता भीतिरेव न संमुखीभवति । अथ कथंचिद्गुरुजनत्रपया वा, राजकार्यानुरोधेन वा,
."
स्थातुमसमर्थया त्वया मयैव सह कुतो नागम्यत इति मयोदिते सैवमाहेत्याह - स्वयमिति । स्वयमुप-
सर्पणं तदननुमत्या स्वयं गमनं तेन लघु लाघवमेव तुच्छलाघवमेव तत्प्रतिपत्तिस्त्वयैवागन्तव्यमित्युपदेशज्ञानं
तत्स्थैर्य तत्स्थिरतां नावलम्बते । नावलम्बनं करोतीत्यर्थः । अन्यत्र ज्ञानस्य त्रिक्षणावस्थायित्वेऽपि युक्त्यनु-
पष्टम्भोपहितमिदं ज्ञानं क्षणमात्रमपि न तिष्ठतीति भावः । स्त्रीर्णा स्वयमुपसर्पणं लघुतापादकं नितरामननुमत्या
कृतं नितरां राजकन्यानाम् । किंचैव मौत्सुक्य तिरेकेण कृतेऽपि तेनापि मदीयां निःसारतामाकलथ्य विद्या..
धनसौन्दर्यादिगर्वेणानादरे कृते तव का प्रतिष्ठा, ममापि किं गौरवम् तदुत्तरकालं च प्रयत्नाभावेन मम
मरणमेव शरणं स्यादिति तुषकण्डनमेव फलितमिति शब्दशक्तयुद्भवो ध्वनिः । इह तु वर्तमान एव लट् । तेन
पूर्वोत्तर रावधिशून्यतां प्रत्यक्ष प्रमाणगोचरतां च व्यनक्ति । यद्वा स्वयमुपसर्पणं स्वयं गमनं तेन लघुस्तूलादपि नि:-
साराहं तस्या मे लाघवमेव लघुभावमेव । दृष्ट्वेति शेषः । तत्प्रतिपत्तिस्तस्य चन्द्रापीडस्य प्रतिपत्तिर्मयि सर्वोत्कृष्ट
ताबुद्धिः स्थैर्य स्थिरत्वं नावलम्बते । न स्थिरतां यास्यतीत्यर्थः । अस्मिन्पक्षे भविष्यदर्थ एव लट् । तेन फलि-
तमिदं भविष्यतीति ध्वन्यते । ननु सर्हि मयैव यथाकथंचिदयमानेय इति मयोदिते सैवमाहेत्याह – बलेति ।
बलात्तदरुच्या यत्तदानयनं त्वत्कृतं चन्द्रापीडानयनं स एवापराधस्तेन भीताया में भीतिरेव न संमुखीभवति ।
एतदनुमोदनसांमुख्यं न करोतीत्यर्थः । इदमपि मया कथं वक्तव्यं त्वयानेय इति कदाचित्वया मदीयां दशामा-
लोक्य पादपतमादिना बलादानीतस्य तथैव स्थितस्य मदपराधं गृह्णतोऽसन्मुखस्यानयनफलालाभेन लोकोपहास्य-
ता परितापाधिक्यं च मे भवेदिति भावः । तस्मादेते सर्व एव पक्षाः प्रकृतानुपयुक्तत्वादनादरणीयाः । केवलं
मनोवा कायकर्मभिस्तत्स्वीकार एव मध्यनुग्रहो गतागतेन च तदभावनिश्चयात्त्वया तथा यतनीयं मदनुग्रहे
विलम्बालस्योपेक्षास्तस्य न भवन्ति । भवत्याश्च मत्प्राणत्राणसुकृतादिहलोकः परलोकश्च भवेत् । सख्यादीनामुप
हासपात्रतां न यायाम्, जन्मसाफल्यं च यायां मित्रादिपारवश्यतां च न लभेयम् । गौरवसंरक्षणं भवेत् ।
नान्यं शरणमुपयायामित्याद्यत्यन्ततिरस्कृतवाच्याभिधाभिन्नमूलध्वनिः । तेन च प्रबन्धस्योत्तमता सूचिता । तेन
चालौकिकर साखादनसामग्रीदार्थं च सूचितम् । अत्र सर्वत्र काव्यलिङ्गं विभावना चालंकारः । यद्वा भीतिरेव
बलात्संमुखीभवतीति संबन्धः । एतत्प्राप्तौ पित्रादिभ्यो भयं त्यक्तमित्यर्थः । भीतिप्राप्तौ हेतुमाह - बलादिति ।
बलादरुच्या तदानयनं चन्द्रापीडानयनं स एवापराधो महासाहसिकत्वादिरूपस्तत्र भीता । भयहेतूनुत्प्रेक्षमा-
णेत्यर्थः । तथा चोत्प्रेक्षाया आरोपविषयत्वेनाहार्यभीतेरङ्गीकारादिति भावः । पूर्वोक्तं सर्वमप्यन्यथयन्त्याह-
अथेति । अथशब्दः पूर्वापरितोषे इति प्रकरणालभ्यते । मयि मद्विषये स्नेहात्प्रेम्णो हेतोः । हेतौ पञ्चमी ।
कृता विहिता यत्ना आनयनोपाया यया सा तया । प्रिया प्रियकर्त्री चासौ सखी चेति तथा पत्रलेखयापि यदा
यथानेतुमानयनाय न पारितो न शक्तः, तदा तर्हि सुतरामेवातिशयेनैव न किंचित् लघुतोत्कर्षः । तदा मम
जीवितेन न किंचित्प्रयोजनमिति भावः । आनयनप्रकारमाह-पादपतनेनापीति । करणे तृतीया ।
पादयोश्चरणयोः पतनेन । दण्डवत्प्रणामेनापीत्यर्थः । आनयनाशक्तौ पूर्वपूर्वापरितोषेण तृतीयान्तान्हेतूना-
ह-कथंचिदिति । एतत्पदं सर्वतृतीयान्तेन संबध्यते । गुरुजनाः पितृमातृप्रभृतयस्तेषां त्रपा लज्जा तथा
.
टिप्प० -1 'अथ' इति पक्षान्तरात्पूर्वम्, पत्रलेखाद्वारक-कादम्बरीसंदेशेऽस्मिन्- यदि कुमारोऽन्ना-
नीतसहि लज्जा - वैलक्ष्य-जडतादिभिस्तत्सांमुख्यं न भविष्यतीति सर्वस्य तात्पर्यम् । तरलतया ( चाप-
बयेन ) लजिता लजैव दर्शनं न ददाति ( अन्तर्भावितण्यर्थः ), लज्जापि लजिता जाता, अत एष सा
कुमारस्य दर्शनं मे न दापयतीति वाक्यस्यार्थः । भविष्यत्सामीप्ये लट् । एवमेव - मनोभववेदनया विल-
क्षम् ( अप्रतिभम् ) चैलक्ष्यमेव ( अप्रतिभत्वमेव ) अग्रतो न तिष्ठति ( अयमध्यन्तर्भावितण्यर्थः ),
वैलक्ष्यमेव मामग्रतो न स्थापयति, न स्थातुमवसरं ददातीत्यर्थः । जडतैव नोपसर्पति, नोपसर्पयतीत्येवं-
रूपेण सर्ववाक्येषु ण्यर्थ लक्षणयाऽन्तर्भाव्य वाक्यार्थः परिकरुप्यते । टीकाकारदर्शितं पाण्डित्यं तु
सीमातिगामि मार्मिकैः स्वयमवगन्तव्यम् ।