This page has not been fully proofread.

पत्रलेखाद्वारा कादम्बर्याः संदेश:]
 
उत्तरभागः ।
 
४८७
 
भवविकारवेदनाविलक्षं वैलक्ष्यमेव न पुरस्तिष्ठति । अप्रतिपत्तिसाध्वसजडा जडतैव नोप-
-
 
G
 
TH
 
संस्रस्ताऽर्धपुटा दृष्टिलेजिता लजिते स्त्रिया ॥ इति । यद्वा चिन्तासंतत्युपनीतं भवन्तं विभाव्य 'काकार्यम्'
इत्यादिवदुन्मादव्यभिचारिभावाकान्ताहेत्याह- अपि चेति । इदानीं भावनासमये । आ ईषद । ईषत्कार
लमल्पकालं नीतस्य भावनया पुरः प्रापितस्य तरलतोन्मादो लज्जा वेत्येवकार एवार्थे । संकल्पसमागमेष्वा-
भिमुख्यं प्राप्तस्य तरलतौत्सुक्यं दर्शनं न ददाति । अपि तु ददातीत्यर्थ इति वा । ननु तर्हि किमर्थं ताम्यसीत्यत
आह - लजितेति । क्षणमात्र स्थायितया लजां प्राप्ता । तिरोभूतेत्यर्थः । औत्सुक्यस्य क्षणिकत्वेन संपूर्ण-
दर्शनफलालाभादिति भावः । यद्वा पत्रलेखां प्रत्युपालम्भोक्तिः कादम्बर्या: । अस्मिन्काले सामस्त्येन नीतस्य
देशान्तरं प्रापितस्य । त्वयेति शेषः । कुमारस्य कुत्सितमारस्य । दुर्बलमारस्येति यावत् । अन्यथा मां विहाय
देशान्तरं कथं गच्छेदिति भावः । तत्संबन्धिनी तरलता लज्जिता दृष्टिलेजैव । एवकारश्चार्थे । लज्जा च समु
चयो दर्शनं न ददाति । तरलतागमनानन्तरं पुनरागमरूपा चञ्चलता तस्या एवाभावादिति भावः । लज्जिता.
दृष्टि: । दृष्टेलेजात्वमस्थिरत्वेन फलालाभादिति भावः । कथं निरपत्र पस्तस्यै मुखं प्रदर्शयामीति त्रपापि दर्शन-
प्रतिबन्धकीभूता जातेति भावः । तथा च तस्य पुनरागमनमसंभावितमिति भावः । औत्सुक्य चिन्ताहर्षादीनां
शबलता । तत्र स्थितस्यापि तस्य स्वप्नादिसाक्षात्कारेण चक्षुःफललाभेन पुनरपि दिदृक्षा दैन्यं च व्यभिचारी,
व्यज्यते । नन्वसन्तमपि भावमतिचतुराः स्त्रियः स्वाधीनसहज सिद्धचेष्टा विशेषैरा विर्भावयन्तीति कथं तर
लतादीनां तादृगाशयवत्वं निर्णेयमिति मयाक्षिप्ते सैवमाहेत्याह - मनोभवेति । मनोभवोऽतिविवेकि प्र-.
भवः कामस्तस्य तत्कर्तृको विकारः कार्यपाण्डिमादिस्तजनिता वेदनाः संतापादिरूपास्ता भिर्विलक्षं विगत..
लक्षणम् । अप्रतिसंधीयमान मिति यावत् । वैलक्ष्यम् । 'लक्ष्यं वेध्ये च भावे च' इत्यभिधाना द्विविधभावभावो
न पुरस्तिष्ठति । न पुरः स्थास्यतीत्यर्थः । तथा च काम विकार की लिताया मे सहजचेष्टा विर्भावात्तरलतादीनामति •
प्राबल्यादिति भावः । विकारपदं च सहजसिद्धस्नेहावलोकनन्यूनतां व्यनक्ति । मनोभवपदं च कामवेदनाबा-
त्येन्द्रियाविषयत्वं व्यनक्ति । ज्ञानार्थप्रकृतिकवेदना पदेनाज्ञायमानदुःखध्वंसाभावं व्यक्ति । अत्रापि भविष्यदर्थे
लट् । यद्वा दर्शनफलमाह - मनोभवेति । वैलक्ष्यदर्शनजनित कार्यपाण्डिमा दिवैलक्षण्यं तदेव पुरः ।
प्रथम मिति यावत् । न स्थास्यतीत्यर्थः । एतेन तस्य दुःसहतोक्ता । दुःमहत्वे हेतुगभ विशेषणमाह - मनो-
भवेति । उक्त एवार्थः । यद्वा संतापादिविकारवेदनास्थिरत्वेन निर्विण्णाह । वैलक्ष्यं संतापादिकृतं कार्यमो-
हादिकं न बहुकालं स्थास्यतीत्यर्थः । मध्ये स्वप्नसंकल्प समागमेष्वाश्वासात् । अन्यथा तत्स्थैर्येऽस्पेनैव
कालेन मरणसंभवात् । दुःखविमोकादिति भावः । एतदप्यकृतपुण्याया मे कुत इति निर्वेदध्वनिः । तदेव ·
विशेषणद्वाराह - मनोभवेति । कंदर्पकृता विकाराः स्वप्न संकल्प समागमादयस्वत्कृता वेदना तथा समागम-
स्यास्थिरत्वेन पुनर्विरहदुःखानुसंधानं तेन विलक्षं मरणलक्षणविगमं प्राप्तमित्यर्थः । ननु गाढान्धकाराभिसरण-
शीलानां कामिनीचक्षुर्विषयाभावेऽपि लगिन्द्रियस्य स्पर्शः केन वा वारणीय इति मयोक्ते सैवमुत्तरितवतीत्या -
ह - अप्रतिपत्तीति । जडता स्पर्शजन्यः स्तम्भाख्यः सात्त्विकभावः स एव नोपसर्पति । न यास्यतीत्यर्थः ।
अत्रापि भविष्यदर्थे लट् । यथाकथंचित्त्वयानीतस्यापि गाढान्धकारे दर्शनायोग्यस्य त्वगिन्द्रियस्पर्शसुखानुभवे
प्रथम स्पर्शजन्य जडता प्रतिबन्धेन चुम्बनायननुष्ठाने स्पर्शस्य निष्फलत्वेन तत्रापि दैववैमुख्येन विरहज्वरोप-
शान्तिमलभमानायाः स्पर्शो वृथैव भविष्यतीति भावः । ननु शारीरा भावाः क्षणस्थायिनो भवन्ति, उत्पन्नापि
जडता न स्थास्थतीत्यत आह - अप्रतिपत्तीति । अप्रतिपत्तिः स्पर्शो ज्ञानं साध्वसं भयं मा कदाचित्क
श्चिन्मा दशति ताभ्यां जडा भावान्तरानुत्पादेन पदात्पदं दातुमसमर्था गाढान्धकारसंजात स्पर्शजायमानस्तम्भेन
चुम्बनायनुष्ठानेऽसामर्थ्यात्तथा क्रियमाणे दुःखानपगमादिति भावः । यद्वा जडता व्यभिचारिभावोऽपि दैवप्रा-
तिकूल्यान्नापयास्यति । तत्र कारणमाह - अप्रतिपत्तिर्मोहः, साध्वसं भयम्, ताभ्यां जडा । स्थिरेत्यर्थः । तथा च
जडतामोहभयव्य भिचारिणां शबलतयान्यापगम एव मया गन्तव्यमिति स्थिरेति भावः । यद्वा नास्ति प्रतिपत्तिर्ज्ञानं
यस्यां साऽप्रतिपत्तिर्मूर्च्छा व्यभिचारिभावः । यावदेव त्वं तमानेष्यसि तावदेव मे मूर्च्छाभिभविष्यति । तदानय-
नसंभ्रमोत्थिताया मे मूर्च्छापगमानन्तरं यद्भयं बहुकालं स्थित्वा लोको ज्ञास्यतीति ताभ्यां जडा स्तब्धा । आवि-
• र्भवितुमशक्येति यावत् । जडता डलयोरैक्याजलता । स्वेदसात्त्विकभावो नाविर्भविष्यतीत्यर्थः । मूर्च्छा भयाभ्यां