कादम्बरी /52
This page has been fully proofread twice.
[^१]सेवार्थमागताभिरिव दिग्वधूभिर्वारविलासिनीभिः परिवृतम्, अमलमणिकुट्टिम [^२]संक्रान्तसकलदेहप्रतिबिम्बतया पतिप्रेम्णा वसुंधरया हृदयेनेवोह्यमानम्, अशेषजनभोग्यतामुपनीतयाप्य-
साधारणया राजलक्ष्म्या [^३]समालिङ्गितदेहम्, अपरिमित- परिवारजनमप्यद्वितीयम्, अनन्तगजतुरगसाधनमपि खड्गमात्रसहायम्, एकदेशस्थितमपि व्याप्तभुवनमण्डलम्, [^४]आसने स्थितमपि धनुषि निषण्णम्, उत्सादितद्विष- [^५]दिन्धनमपि ज्वलत्प्रतापानलम् आयतलोचनमपि सूक्ष्म [^६]दर्शनम्, महादोषमपि सकलगुणाधिष्ठानम्, कुपतिमपि [^७]कलत्रवल्लभम् अविरतप्रवृत्तदानमध्य-
[ टि ] -- र्यस्य स तम् । अत्राभरणदीप्तिहरनेत्रोद्भववह्नयो राजमकरध्वजयोश्चशेपमानोपमेयभावो दर्शितः । आसन्नेति ।
आसन्नवर्तिनीभिर्निकटस्थायिनीभिः सर्वतो विश्वतः सेवार्थं सपर्यार्थमागताभिः प्राप्ताभिर्वारविलासिनीभिर्वाराङ्गानाभिः । काभिरिव । व्यापकत्वाद्दिश एव वध्वः स्त्रियो दिग्वध्वस्ताभिरिव । अत्र दिग्वधूवारविलासिन्योः साम्यं सूचितम् । ताभिः परिवृतं परिवेष्टितम् । अमलेति । अमलाः स्वच्छा ये मणयश्चन्द्रकान्ताद्या स्तेषां कुट्टिमं बद्धभूस्तस्मिन्संक्रान्तं यत्सकलदेहप्रतिबिम्बं समग्रशरीरप्रतिच्छायस्तस्य भावस्तत्ता तया । हेत्वर्थे तृतीया ।
पतिः स्वामी तस्य प्रेम प्रीतिस्तेन च वसुंधरया पृथिव्या हृदयेनेव स्वान्तेनेवोह्यमानं [^1]वहमानम् । अशेषेति । अशेषाः समग्रा ये जना लोकास्तेषां भोग्यतां भोगयोग्यतामुपनीतया प्राप्तयापि । सर्वसाधारणयेत्यर्थः । असाधारणया च तथा चान्येषामेतादृशी राजलक्ष्मीर्नास्तीत्यपकर्षोत्कर्षाभ्यां साधारणासाधारणया च राज-
लक्ष्म्या समालिङ्गितमुपगूहितं देहं शरीरं यस्य स तथा तम् । अत्र विरोधाभासोऽलंकारः । साधारणासाधारणयोर्विरुद्धधर्मत्वात् । तत्परिहारपक्षेऽसाधारणया । सर्वोत्कृष्टयेत्यर्थः । अपरिमितेति । अपरिमितोऽसंख्येयः परिवारजनः परिच्छदजनो यस्य स तम् । एवं बहुजनत्वेऽप्यद्वितीयं न द्वितीयो जनो यस्येति विरोधः ।तत्परिहारपक्षेऽद्वितीय इत्यस्य सर्वोत्कृष्ट इत्यर्थः । अनन्तेति । अनन्तान्यसंख्यानि गजा हस्तिनस्तुरगा अश्वास्तेषां साधनान्युपकरणानि सहाया यस्य 'निर्वर्तनोपकरणानुव्रज्यासु च साधनम्' इत्यमरः । एवं च बहुसहायवत्त्वेऽपि केवलं खङ्गः खड्गमात्रं सहायो यस्येति विरोधः । तत्परिहारपक्षे खड्गमात्र- सहायमित्यस्य युद्धे तदन्यानपेक्षत्वमित्यर्थः । एकदेशस्थितमिति । एकदेश: सभामण्डपादिः, जनपदो वा । तत्र स्थितमपि निषण्णमपि व्याप्तं समाक्रान्तं भुवनमण्डलं जगन्मण्डलं येनेति विरोधः । परिहारपक्षे व्याप्तं ख्यातं भुवनमण्डले यमिति विग्रहः । विशेषेणाप्तं व्याप्तमिति वार्थः । 'व्याप्तं ख्याते समाक्रान्ते' इति विश्वः । आसने स्थितमिति । आसने भद्रासने स्थितमप्युपविष्टमपि धनुषि कार्मुके निषण्णं स्थितमिति विरोधः । परिहारपक्षे
धनुःसंज्ञा तस्मि [^2]न्स्थितमित्यर्थः । नामश्रवणेन विपक्षाणां साक्षादागत इव इति भयोत्पत्तेः । 'धनुःसंज्ञा प्रियालद्रौ' इति विश्वः । उत्सादितेति । उत्सादितं व्यापादितं द्विषन्त एवेन्धनमेधो येन । एवंभूतमपि ज्वलत्प्रतापानलमिति विरोधः । परिहारपक्षे ज्वलदित्यस्य दीप्यदित्यर्थः । आयतेति । आयते विस्तीर्णे लोचने यस्यैवंभूतमपि सूक्ष्ममविपुलं दर्शनं लोचनं यस्येति विरोधः । परिहारपक्षे सूक्ष्ममध्यात्मविषयं दर्शनं ज्ञानं यस्येत्यर्थः ।
'सूक्ष्मं स्यात्कैतवेऽध्यात्मेऽप्यणौ' इति विश्वः । 'दर्शनं नयनस्वप्नबुद्धिधर्मोपलब्धिषु' इति विश्वः । महादोषमिति । महान्दोषो यस्मिन्नेवंभूतमपि सकलगुणाधिष्ठानं समग्रगुणस्थान- मिति विरोधः । परिहारपक्षे महती दोषा बाहुर्यस्येत्यर्थः । 'दोषा रात्रौ भुजेऽपि च ' इति विश्वलोचनः । कुपतिमिति । कुत्सितश्चासौ पतिश्च कुपतिरेवंभूतमपि कलत्रवल्लभं स्त्रीजनप्रियमिति विरोधः । तत्परिहारपक्षे कुः पृथिवी तस्याः पतिः । स्वामीत्यर्थः ।एतादृशास्तत्प्रियः स्यादिति न विरोधः । अविरतमिति । अविरतं संततं प्रवृत्तं दानं यस्यैवंभूतमप्यमदं दानरहितमिति विरोधः । तत्परिहारस्त्वेवम् अविरतं प्रवृत्तं दानं त्यागो यस्यैवंभूतमप्यमदम् । गर्वरहित-
[^1]F. धार्यमाणमित्युचितम् ।
[^2]F. धनुषि आस्थितं धनुषि विजयविश्वासिनमित्यर्थः ।
[^१]G. सेवासंगता.
[^२]G. संक्रान्तप्रतिबिम्ब: ; संक्रान्तदेहप्रतिबिम्ब.
[^३]G. समलिङ्गितम्.
[^४]G. आसनस्थितम् ;आसनगतम्.
[^५]G. अशेषद्विषत्.
[^६]G. दर्शिनम्.
[^७]G. कलत्रचय.