कादम्बरी /519
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
आसिन्धुगामिनि पितुर्वचनप्रवाहे क्षिप्ता कथानुघटनाय मयापि वाणी ॥ ६ ॥
कादम्बरीरसभरेण समस्त एव मत्तो न किंचिदपि चेतयते जनोऽयम् ।
भीतोऽस्मि यन्न रसवर्णविवर्जितेन तच्छेषमात्मवचसाप्यनुसंदधानः ॥ ७ ॥
बीजानि गर्भितफलानि विकाशभाञ्जि वन्त्रैव यान्युचितकर्मबलात्कृतानि ।
उत्कृष्टभूमिविततानि च यान्ति पुष्टिं तान्येव तस्य तनयेन तु संहृतानि ॥ ८ ॥
अपि चेदानीमानीतस्यापि कुमारस्य न ददाति तैरलतालजिता लज्जैव दर्शनम् । मनो-
मद्गवी सिन्धुगामिनी भविष्यतीत्यर्थः । यथा यमुनादीनां परप्रवाहसंबन्धेन सिन्धुग्रामित्वम् तथा मद्वचनप्र-
घाहोऽपि तातवाक्प्रवाहमिलित आसमुद्रं गमिष्यतीति भावः ॥ ६ ॥
9
'ननूद्भटपितृवाण्या स्ववाणीं संयोजयतः कथं न भयं तत्राह – कादम्बरी । कादम्बरी कथा मद्यं च,
तस्या रसः शृङ्गारादिः पानीयं च तस्य भरेणाधिक्येन समस्त एव जनो जन्तुमात्रं मत्तः क्षीबः किंचिदपि
न चेतयते । कर्तव्याकर्तव्यविधुरः सन्नानुसंधत्त इत्यर्थः । तथा च ममापि वान्तः पातित्वेन मत्ततया विवेका-
ननुसंधानान्न भी तिरिति भावः । एवं सति रसवर्ण विवर्जितेन, रसः शृङ्गारादिस्त द्घटिताक्षरमालिकार
हितमद्वाण्या
पितृकृतग्रन्थशेषसंधानकर्ता भयं न प्राप्तोऽस्मि । तदनुसंधानाभावादित्यर्थः । रसेत्यादिना भीतिहेतुरुक्तः ॥७॥
मम पुनरेतन्निर्माणे न कोऽपि प्रयासलेश इत्याह – बीजानीति । तस्य बाणस्य तनयेन पुत्रेण न्यायेन
बीजानि संहृतानि कथाविषयीकृतानि पुष्टि फलोद्रेकतां यान्ति । प्राप्नुवन्तीत्यर्थः । यानि बीजानि गर्भितफला-
न्यङ्कुरोत्पादनानुकूशलशक्तिमन्ति वस्त्रैव वापकेनैव बाणेनोत्कृष्टभूमौ सर्वतोऽप्यधिककादम्बरीलक्षणांव
विततानि गद्यादिरूपेण सर्वतः स्थापितानि उचितं कर्म रससेकादि तस्य बलात्सामर्थ्यात्कृतानि निष्पादितानि ।
"विकाशः श्लेषाभिव्यक्तिस्तद्भाजि तत्संपादकानि कृतानि । केनचिद्वापकेन गुल्मादिरहितंभूम्युप्तानि शाल्यादि-
बीजानि जलसेकादिक्रियाबलादकरावस्थां प्रापितानि फलादिसंपन्नान्युपसंहियन्त इति श्लेषार्थः ॥ ८ ॥
अत्र च पूर्वकादम्बर्यां विभावानुभावव्यभिचारिसंयोगात्पुष्टो विप्रलम्भस्तत्र स्मृतिव्यभिचारिभावोदयात् 'आ
नयामि तं देवम्' इति पत्रलेखोक्तिस्मृतावुत्तरार्धे उत्तरितं कादम्बर्या निवेदयति पत्रलेखा चन्द्रापीडाय -अपि
चेत्यादिना । अपि च । अन्यदपि श्रृण्वित्यर्थः । इदानीमपि तद्दर्शनं विना जीवितावसान कालेऽप्यानीतस्य
मल्लोचनगोचरं प्रापितस्य कुमारस्य पृथिव्यां कंदर्पमूर्तेर्दर्शनं साक्षात्कारं प्रतिकूलादृष्टवशात्कुमारीखभावो लज्जै-
वेन्द्रियादिवृत्तीनां खच्छन्दचारसंकोचिका त्रपैव न ददाति । वर्तमानसामीप्ये लट्, न दास्यतीत्यर्थः । यद्वा
वर्तमान एव वा लट् । प्रथमदर्शनवल्लज्जया तथाकृतमनुभूतमिदानीमपि सैवानुवर्तत इति पूर्वोत्तरावधिशून्यता
निषेधस्य द्योत्यते । ननूत्कण्ठा लज्जां दूरीकरिष्यतीत्यत आह - तरलतेति । तरलता दर्शनोत्कण्ठारूपं
चाञ्चयं चक्षुषोस्तेन लज्जिता लज्जां प्राप्ता । मयि विद्यमानायां दर्शनोत्कण्ठा जातेति लज्जाया लज्जोदया-
तत्र लज्जाव्याप्तिर्भूयसीति भावः । तस्यां च सत्यां प्रत्यय निर्निमेषावलोकनं च कथं स्यादिति पुनरपि दिदृक्षा
दैन्यं च व्यभिचारि व्यज्यते । लजितेयं दृष्टिः । तल्लक्षणं तु – 'मनागञ्चितपक्ष्मा च किंचित्स्तब्धकनीनिका ।
टिप्प० -1 अस्मिन् पूर्वपद्ये च प्रकृताप्रकृतयोबिंम्बप्रतिबिम्बभावाद् दृष्टान्तालंकार: 2 असंबद्ध
मिवेदम् । वप्ना वपनकत्रैव उचितानां कर्मणां कर्षणादीनां बलात् यानि बीजानि उत्कृष्टभूमिषु विततानि
प्रक्षिप्तानि, गर्भितफलानि गर्भितं (गर्भस्थितं ) फलं येषां तानि (फलोन्मुखानीति भावः ), अत एव
विकासभाञ्जि कृतानि सन्ति वृद्धिं गच्छन्ति । तस्य ( वसुः) पुत्रेण तु तान्येव फलोन्मुखानि वर्धमानानि
च बीजानि संहृतानि नाशितानि । सुरसानि पितुर्वचनानि विरसैर्वचनैः संयोज्य नाशितानि मयेति स्ववि
नयः सूच्यते । टीकाकारकृता व्याख्या सहृदयैस्तुलया बोद्धव्या ।
पाठा०-=-=-१ वप्त्रेव, २ गतातिपोषम्, च यान्ति पोषम् ३ सुतरां लज्जितेव लज्जा, ४ दर्शनं दातुम्.